संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः

शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


अथ शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः ।
इदानीमभिधास्यामः शयनासनलक्षणम् ।
शुभाशुभपरिज्ञानं येन सम्यक्प्रजायते ॥१॥
मूत्रे मुहूर्ते पुष्यस्थे शीतरश्मौ शुभेऽहनि ।
सम्पूज्य देवताः सम्यक्कर्मारम्भं समाचरेत् ॥२॥
वृक्षास्तत्र प्रशस्यन्ते चन्दनस्तिनिशोऽर्जुनः ।
तिन्दुकः सालशाकौ च शिरीषासनधन्वनाः ॥३॥
हरिद्रुर्देवदारुश्च स्यन्दनोकौ सपद्मकौ ।
श्रीपर्णी दधिपर्णश्च शिंशपान्येऽपि ये शुभाः ॥४॥
गृहकर्मणि ये नेष्टा वृक्षास्तेऽत्रापि निन्दिताः ।
हेम्ना रूयेण चानद्धा गजदन्तेन वा शुभा ॥५॥
आरकूटेन वा नद्धा शय्या कार्या विचक्षणैः ।
पूर्वच्छिन्नं यदा दारु शयनासनहेतवे ॥६॥
आदीयते तदारम्भे निमित्तान्युपलक्षयेत् ।
दध्यक्षतान् पूर्णकुम्भं रत्नानि कुसुमानि वा ॥७॥
सुगन्धद्र व्यवस्त्राद्यान् मत्स्याश्वयुगलं तथा ।
मत्तवारणमन्यांश्च शुभान् वीक्ष्यादिशेच्छुभम् ॥८॥
कर्माङ्गुलं समुद्दिष्टं वितुषैरष्टभिर्यवैः ।
अष्टोत्तरशतं तेषां शय्या ज्येष्ठा महीभुजाम् ॥९॥
मध्या महीभुजां शय्या शतं स्याच्चतुरुत्तरम् ।
शतं कनीयसी प्रोक्ता नृपाणां विजयावहा ॥१०॥
नवतिर्नृपपुत्रस्य मन्त्रिणः सा षडुज्झिता ।
द्वादशोना बलपतेस्त्रिषट्कोना पुरोधसः ॥११॥
आयामार्धेन विस्तारं सर्वं शय्यासु कल्पयेत् ।
यद्वा निजाष्टभागेन षड्भागेनाथवाधिकम् ॥१२॥
विप्राणां शस्यते शय्या दैर्घ्येणाङ्गुलसप्ततिः ।
द्वाभ्यां द्वाभ्यामङ्गुलाभ्यां हीना स्याच्छेषवर्णिनाम् ॥१३॥
बाहल्यमुत्पलस्य स्यादुत्तमस्याङ्गुलत्रयम् ।
अङ्गुलद्वितयं साधं मध्यस्य द्वे कनीयसः ॥१४॥
बाहल्यमीशादण्डस्य कुर्यादुत्पलसम्मितम् ।
सार्धं सपादं सत्र्यंशं तस्य विस्तारमुत्पलात् ॥१५॥
विस्तारार्धेन शय्यायाः सकुष्यस्य विधीयते ।
तत्पादस्योदयो मध्यहीनौ द्विचतुरुज्झितौ ॥१६॥
अर्धेन मध्यविस्तारान्मध्ये बाहल्यमिष्यते ।
त्रिभागहीनमिच्छन्ति पादोनमपि केचन ॥१७॥
स्थौल्येन पादोऽधः शीर्षादुत्पलेन समो भवेत् ।
मध्ये सपादः सार्धश्च तले वृद्धिः क्रमेण सा ॥१८॥
षड्भागोऽस्याधिको यद्वा मध्ये त्र्यंशाधिकस्तले ।
तत्कुष्यमुत्पलत्र्यंशो मूले तस्यार्धमग्रतः ॥१९॥
उत्सेधतुल्यो विस्तारः कार्यो वा द्व्यङ्गुलाधिकः ।
सपत्रकलिकापत्रपुटग्रासविभूषितः ॥२०॥
कुर्यात्प्रदक्षिणाग्राणि शय्याङ्गानि समन्ततः ।
ऊर्ध्वाग्रा निखिलाः पादाः स्वामिनो वृद्धिहेतवे ॥२१॥
श्रेष्ठैकद्र व्यजा शय्या मिश्रद्र व्या न शस्यते ।
एकदारुं प्रशंसन्ति द्विदारुर्भयमावहेत् ॥२२॥
त्रिदारुघटितायां तु स्वामिनो नियतो वधः ।
शय्यायां जायते यस्मात् तस्मात्तां परिवर्जयेत् ॥२३॥
मूलमग्रेण संयुक्तमपसव्यं विगर्हितम् ।
मूलं मूलेन वा विद्धमेकाग्रे द्वे च दारुणी ॥२४॥
मध्ये व्रणो मृत्युकरस्त्रिभागे व्याधिकारकः ।
क्लेशावहश्चतुर्भागे शिरस्थो द्र व्यहानिकृत् ॥२५॥
निर्दोषगात्रे पर्यङ्के पापस्वप्नो न दृश्यते ।
ग्रन्थिकोटरवत्कुर्यात्तस्मान्न शयनासनम् ॥२६॥
आसनं शयनीयं च ग्रन्थिकोटरवर्जितम् ।
बहुपुत्रकरं प्राहुर्धर्मकामार्थसाधनम् ॥२७॥
आरोहणे प्रचलति शयने कम्पते तथा ।
विदेशयानकलहौ ते क्रमेण प्रयच्छतः ॥२८॥
सुश्लिष्टां तामतः कुर्यान्निर्दोषां वर्णशालिनीम् ।
दृढां स्थिरां च स्थपतिः पत्युः कामविवृद्धये ॥२९॥
निष्कुटं कोलदृक् क्रोडनयनं वत्सनाभकम् ।
कालकं बन्धकं चेति छिद्र संक्षेप ईरितः ॥३०॥
घटवत् सुषिरं मध्ये सङ्कटास्यं च निष्कुटम् ।
कोलाक्षं नीडमिच्छन्ति माषनिष्पावमात्रकम् ॥३१॥
अध्यर्धपर्वदीर्घं च विवर्णं विषमं तथा ।
तदिह क्रोडनयनं छिद्र माहुर्महर्षयः ॥३२॥
भिन्नं पर्वमितं वामावर्तं स्याद्वत्सनाभकम् ।
कालकं कृष्णकान्ति स्याद्विनिर्भिन्नं तु बन्धकम् ॥३३॥
छिद्रं दारुसवर्णं यत्तन्नो शुभकरं तथा ।
निष्कुटेऽर्थक्षयः कोललोचने कुलविद्र वः ॥३४॥
शस्त्राद्भीः क्रोडनयने वत्सनाभे रुजो भयम् ।
कालके बन्धकाख्ये च कीटविद्धे च नो शुभम् ॥३५॥
सर्वत्र प्रचुरग्रन्थि दारु सर्वमनिष्टदम् ।
शय्यार्थे कथितैः कॢप्तं दारुभिः शस्तमासनम् ॥३६॥
उपवेशसुखं मानं प्रशस्ताय प्रकल्पितम् ।
पुष्करः सूदहस्तश्च वृत्तोऽङ्गुलचतुष्टयात् ॥३७॥
आरभ्य विस्तरात्कार्यस्तावद्यावन्नवाङ्गुलम् ।
पुष्करव्यासतो दण्डस्तस्य कार्यश्चतुर्गुणः ॥३८॥
फलकः पुष्करार्धेन तत्तुल्यश्चास्य भूलकः ।
स्थूलः स्याच्चतुरंशेन दण्डपुष्करविस्तरात् ॥३९॥
खातं च पुष्करस्यान्तस्तावद्गाम्भीर्यमिष्यते ।
प्रशस्तसारदारूत्थः कर्तव्योऽस्य प्रयोजनम् ॥४०॥
परिवेषणमन्यच्च पच्यमानानघट्टकम् ।
कार्यः कङ्कतकः श्लक्ष्णः प्रशस्तमृदुदारुजः ॥४१॥
आरभ्य दैर्घ्येणाष्टभ्यः स्याद्यावद्द्वादशाङ्गुलम् ।
सार्धाङ्गुलं चतुर्भागं विस्तारेण च दैर्घ्यतः ॥४२॥
मध्ये च तस्य बाहल्यं विस्ताराष्टांशतो भवेत् ।
एकतः स्थूलविस्तारा भवेयुस्तस्य दन्तकाः ॥४३॥
अन्यतस्तु घनाः सूक्ष्मास्तीक्ष्णाः कार्यास्तथाग्रतः ।
मध्ये त्रिभागमुत्सुज्य दन्तका भागयोर्द्वयोः ॥४४॥
त्रिभिर्भागे हृते तेषां शेषस्तान् विवर्जयेत् ।
गजदन्तमयः श्रेष्ठस्तथा शाखोटवृक्षजः ॥४५॥
मध्यमो दारुभिः शेषैर्जघन्योऽसारदारुजः ।
रूपकैः स्वस्तिकाद्यैर्वा स मध्ये स्यादलङ्कृतः ॥४६॥
यूकाद्यपनये केशविवेके चोपयुज्यते ।
अङ्गुलेनाधिके पादात्कार्ये दैर्घ्येण पादुके ॥४७॥
कृतायां पञ्चधा तस्यां कुर्याद्भागत्रयं पुरः ।
पञ्चाद्भागद्वयं तत्र सङ्ग्रहोऽस्या विधीयते ॥४८॥
अङ्गुलत्रयमुत्सेधो विस्तारोऽङ्घ्रयनुसारतः ।
अङ्गुल्यङ्गुष्ठयोर्मध्यभागे मत्स्याद्यलङ्कृतौ ॥४९॥
कर्तव्यौ कीलकौ काष्ठदन्तशृङ्गादिसम्भवौ ।
गजेन्द्र दन्तः श्रीखण्डश्रीपर्ण्यौ मेषशृङ्गिका ॥५०॥
शस्ताः पादुकयोः शाकक्षीरिणीचिरबिल्विकाः ।
इदमिह शयनानामासनानां च लक्ष्म ।
प्रकटितमनु दर्व्याः कङ्कतस्यापि सम्यक् ।
शुभमथ विपरीतं पादुकानां च विद्वान् ।
सकलमिति विदित्वा पूज्यतामेति लोके ॥५१॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे शयनासनलक्षाणं नाम एकोनत्रिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP