संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| १ ते ५० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ आयादिनिर्णयो नाम षड्विंशोऽध्यायः - १ ते ५० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार आयादिनिर्णयो नाम षड्विंशोऽध्यायः - १ ते ५० Translation - भाषांतर इदानीमभिधास्यामः सूत्रपातविधेः क्रमम् ।शस्ते मासि सिते पक्षे विदध्यात्तं शुभेऽहनि ॥१॥चैत्रे शोकाकुलो भर्ता वैशाखे च धनान्वितः ।ज्येष्ठे गृही विपद्येत नश्यन्ति पशवः शुचौ ॥२॥श्रावणे धनवृद्धिः स्यान्नभस्ये न वसेद्गृहे ।कलहश्चाश्विने मासि भृत्या नश्यन्ति कार्त्तिके ॥३॥मार्गशीर्षे धनप्राप्तिः सहस्ये कामसम्पदः ।माघे वह्निभयं चैव फाल्गुने श्रीरनुत्तमा ॥४॥द्वितीया पञ्चमी मुख्या सप्तमी नवमी तथा ।एकादशीत्रयोदश्यस्तिथयः स्युः शुभावहाः ॥५॥चन्द्र ताराबलं भर्तुरनुकूलं च शस्यते ।इयं हि सूत्रपाताख्या क्रिया प्रासादकर्मणि ॥६॥कार्या पुरनिवेशे च प्रारम्भे भवनस्य च ।शिलानिवेशने द्वारस्तम्भोच्छ्रायादिकेषु च ॥७॥आद्रि येत सिते पक्षे शोभने लग्न एव हि ।रवौ कन्यातुलालिस्थे गृहं वरुणदिङ्मुखम् ॥८॥न कुर्यात्तद्धि शून्यं स्यान्न च वृद्धिर्भवेत्प्रभोः ।न दक्षिणमुखं कुम्भमृगधन्विस्थिते रवौ ॥९॥कुर्वीत निष्फलं तत्स्यान्नृपदण्डवधादिकृत् ।न मीनवृषमेषस्थे कुर्वीत प्राङ्मुखं रवौ ॥१०॥तद्धनघ्नं कलिक्षुद्र राजचौरार्तिकृद्यतः ।रवौ मिथुनसिंहस्थे न कर्किस्थेऽप्युदङ्मुखम् ॥११॥कुर्यात्तद्धि दरिद्र त्वं दद्याच्चरणदासताम् ।आयव्ययांशकर्क्षाणि प्रवक्ष्यामोऽथ वेश्मनाम् ॥१२॥गृहमानवशात्सम्यक्कर्तुः स्थानबलाबलम् ।नगरे वा पुरादौ वा दण्डैर्मानं विधीयते ॥१३॥तदलाभे करैः कार्यं सम्यगायविशुद्धये ।यत्र हस्तैर्मितिः क्षेत्रे तत्रायो हस्तसंश्रितः ॥१४॥क्षेत्रालाभे तु तत्रैव ग्राह्यः स स्यादिहाङ्गुलैः ।अङ्गुलैस्तु मिते क्षेत्रे सोऽङ्गुलैस्तदलाभतः ॥१५॥पादैर्वाथ यवैर्वापि ग्राह्यः क्षेत्रानुसारतः ।गृहेषु कर्महस्तेन मानं स्वामिकरेण वा ॥१६॥देवतानां तु धिष्ण्येषु कर्महस्तेन केवलम् ।दैर्घ्यं हन्यात्पृथुत्वेन हरेद्भागं ततोऽष्टभिः ॥१७॥यच्छेषमायं तं विद्याच्छास्त्रदृष्टं ध्वजादिकम् ।ध्वजो धूमोऽथ सिंहश्च श्वा वृषः खरकुञ्जरौ ॥१८॥ध्वाङ्क्षश्चेति त उद्दिष्टाः प्राच्याद्यासु प्रदक्षिणम् ।अन्योन्याभ्हिमुखास्ते च कामं स्वच्छन्दचारिणः ॥१९॥पूर्वाचार्यैः समुद्दिष्टा आयवृद्धिविधायकाः ।वृषसिंहगजाः शस्ताः प्रासादपुरवेश्मसु ॥२०॥ध्वजेऽर्थलाभः सन्तापो धूमे भोगो मृगाधिपे ।कलिः शुनि धनं धान्यं वृषे स्त्रीदूषणं खरे ॥२१॥गजे भद्रा णि दृश्यन्ते ध्वाङ्क्षे तु मरणं ध्रुवम् ।वृषस्थाने गजं कुर्यात्सिंहं वृषभहस्तिनोः ॥२२॥न कुर्याद्वृषमन्यत्र शस्यते सर्वतो ध्वजः ।कल्याणं कुरुते सिंहो ब्राह्मणस्य विशेषतः ॥२३॥क्षत्त्रियस्य गजः शस्तो वृषभः शस्यते विशः ।शूद्र स्य ध्वज एवैकः शस्यतेऽर्थप्रदः सदा ॥२४॥एवमेते गृहादीनामायाः सर्वे प्रकीर्तिताः ।प्रदद्यादासने सिंहमातपत्रेषु तु ध्वजम् ॥२५॥चिह्नेष्वपि च सर्वेषु चामरव्यजनादिषु ।सिंहं गजं वा शस्त्रेषु रथेषु कवचेषु च ॥२६॥सार्यश्वगजपर्याणेष्विभं वृषभमेव च ।अर्थधारणपात्रेषु शयनेषु मतङ्गजम् ॥२७॥याने च वाहने चैव मतिमान् योजयेद्गजम् ।प्रासादप्रतिमालिङ्गपीठमण्डपवेदिषु ॥२८॥कुण्डेषु च ध्वजं दद्याद्देवोपकरणेषु च ।आयो गृहवदुद्वाहवेदीमण्डपयोर्भवेत् ॥२९॥महानसे वृषं दद्याज्जलाधारे जलाशये ।स्थाल्यां भोजनपात्रे च कोष्ठागारेऽन्नधारणे ॥३०॥एतद्गृहे तथा दद्याद्गृहोपकरणेषु च ।वृषभं गजशालायां प्रदद्याद्गजमेव वा ॥३१॥वृषं तुरगशालासु गोशालागोकुलेषु च ।गजाश्ववृषशालासु सिंहं यत्नेन वर्जयेत् ॥३२॥अधमानां खरध्वाङ्क्षधूमश्वानः शुभावहाः ।धूमोऽग्निजीविनां शस्तो ध्वाङ्क्षः सन्न्यासिनां हितः ॥३३॥स्वगणानां श्वपाकानां स्ववेश्मानां खरः शुभः ।नटनर्तकवेश्मेषु पण्यस्त्रीणां खरः शुभः ॥३४॥कुलालरजकादीनां तथा गर्दभजीविनाम् ।गृहादिषु क्षेत्रफलं गणयेदष्टभिर्भजेत् ॥३५॥त्रिघनेन भजेच्छेषं नक्षत्रेऽष्टहृते व्ययः ।पिशाचो राक्षसो यक्ष इति त्रेधा व्ययो मतः ॥३६॥साम्याधिक्यन्यूनताभिरायतः स्याद्यथाक्रमम् ।व्ययं क्षेत्रफले क्षिप्त्वा गृहनामाक्षराणि च ॥३७॥भागं त्रिभिर्हरेत्तत्र यच्छेषं सॐऽशको भवेत् ।चतुरङ्गो यथा मन्त्रो मुख्यो लग्ने नवांशकः ॥३८॥तथा गृहादिषु प्रोक्तं मुख्यत्वेनांशकत्रयम् ।इन्द्रो यमश्च राजा च त्रयो नामाभिरंशकाः ॥३९॥स्वनामतुल्यफलदा विज्ञातव्यास्त्रयोऽपि च ।गणयेत्स्वामिनक्षत्राद्यावत्स्याद्भवनस्य भम् ॥४०॥नवभिर्भाजिते तस्मिञ्शेषं तारा प्रकीर्तिता ।जन्मसम्पद्विपत्क्षेमपापसाधकनैधनीः ॥४१॥मैत्रीपरममैत्र्यौ च प्राहुः संज्ञाः समाः फले ।त्रिसप्तपञ्चमीर्भर्तुर्गृहतारा विवर्जयेत् ॥४२॥आद्याद्वितीयाष्टम्यस्तु ताराः स्युरिह मध्यमाः ।तथा ऋक्षेऽपि चानिष्टे चन्द्रे ऽष्टमगतेऽपि च ॥४३॥नयते दुरितं तारा चतुःषण्णवती नृणाम् ।सुरराक्षसमर्त्याख्या ऋक्षाणां स्युर्गणास्त्रयः ॥४४॥यद्गणर्क्षो भवेद्भर्ता तद्गणर्क्षं गृहं शुभम् ।मृगाश्विरेवतीस्वात्यो मैत्रं पुष्यपुनर्वसू ॥४५॥हस्तः श्रवण इत्येष देवाख्यो नवको गणः ।विशाखा कृत्तिकाश्लेषा नैऋतं वारुणं मघा ॥४६॥चित्रा ज्येष्ठा धनिष्ठेति नवको राक्षसो गणः ।आर्द्राभरण्यौ रोहिण्यौ तिस्रः पूर्वास्तथोत्तराः ॥४७॥इति नक्षत्रनवकं विज्ञेयं मानुषे गणे ।गणसाम्यं शुभा तारा यस्यायातृ व्ययोऽल्पकः ॥४८॥हितॐऽशकश्च तद्वेश्म भर्तुः शुभफलप्रदम् ।आयो व्ययश्च योनित्वं ताराश्च भवनांशकाः ॥४९॥गृहनामेति चिन्त्यानि करणानि गृहस्य षट् ।त्रिभिः शुभैः शुभं वेश्म द्वाभ्यामेकेन चाशुभम् ॥५०॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP