संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| १ ते ५० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः - १ ते ५० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः - १ ते ५० Translation - भाषांतर अतः परं गृहादीनामप्रशस्तसमुच्छ्रितम् ।क्रियते कथितं यस्मादेकत्र सुसमं भवेत् ॥१॥रक्षोम्बुनाथकीनाशमरुद्दहनदिक्प्लवा ।मध्यप्लवा च भूर्व्याधिदारिद्र य्मरकावहा ॥२॥वह्निप्लवा वह्निभिये मृतये दक्षिणप्लवा ।रुजे रक्षःप्लवा प्रत्यक्प्लवा धान्यधनच्छिदे ॥३॥कलहाय प्रवासाय रोगाय च मरुत्प्लवा ।मध्यप्लवा तु भूमिर्या सर्वनाशाय सा भवेत् ॥४॥तुषास्थिकेशकीटत्वशङ्खभस्मोषरान्विताम् ।कर्पराङ्गारिणीं दुष्टसत्त्वानार्यजनां त्यजेत् ॥५॥चैत्रे शोककरं वेश्म ज्येष्ठे मृत्युप्रदायकम् ।पशुनाशनमाषाढे शून्यं भाद्र पदे कृतम् ॥६॥आश्विने कलहाय स्यात्कार्त्तिके भृत्यनाशनम् ।माघे चाग्निभयाय स्यान्मासेष्वेषु न कारयेत् ॥७॥पावकस्य पदे पृष्ठवंशस्यापि च पश्चिमे ।पुरप्रासादकर्णे च कीलादि प्राक् प्रयोजयेत् ॥८॥पूर्वपश्चिमदिङ्मूढं वास्तु स्त्रीनाशकृद्भवेत् ।उदङ्मूढं न निष्पत्तिं याति सर्वं च नाशयेत् ॥९॥यत्तु दक्षिणदिङ्मूढं जायते मरणाय तत् ।प्राग्वास्तुनि कुर्वीत प्रासादं मन्दिरं पुरे ॥१०॥वलितं चलितं भ्रान्तं विसूत्रं च समुत्सृजेत् ।यत्स्यान्मुखविनिष्क्रान्तं वलितं तत्प्रकीर्तितम् ॥११॥चलितं पृष्ठनिष्क्रान्तं दिङ्मूढं भ्रान्तमुच्यते ।विसूत्रं कर्णहीनं स्यात्फलमेषां प्रचक्ष्महे ॥१२॥वलिते चलति स्थानं चलिते विग्रहो भवेत् ।भ्रान्तं योषिद्विनाशाय विसूत्रं भूरिशत्रुकृत् ॥१३॥मूषकोत्करवल्मीकप्रान्ता वक्रा भुजङ्गवत् ।छिन्ना भिन्ना विकर्णा च न वास्तुनि शुभा क्षितिः ॥१४॥मूषकोत्करवत्यर्थं हन्ति वल्मीकिनी सुतम् ।विकर्णा कुरुते कर्णरोगं छिन्ना विनाशिनी ।भिन्ना भेदं करोत्युर्वी कुटिला मतिवक्रताम् ॥१५॥सपादं सत्रिभागं वा सार्धं द्विगुणमेव च ।यत्स्यान्मुखायतं वेश्म तदनिष्टफलप्रदम् ॥१६॥यद् द्विशालं त्रिशालं वा चतुःशालमथापि वा ।मूषया रहितं वेश्म तदनिष्ठफलप्रदम् ॥१७॥पुरतः पृष्ठतः पार्श्वे यदि वालिन्दवर्जिता ।गृहे न शस्यते शाला देवागारे तु शस्यते ॥१८॥अन्यपृष्ठस्थितद्वारं वेश्म खादकमुच्यते ।परस्परविरोधाय तद्वेश्म गृहिणोस्तयोः ॥१९॥सशल्यं पादहीनं च समसन्धि शिरोगुरु ।वेश्मनामिदमुद्दिष्टं मर्मदोषचतुष्टयम् ॥२०॥वास्तुक्षेत्रस्य यत्राङ्गे यस्य वर्त्म प्रवर्तते ।तदङ्गं वास्तुनस्तस्य च्छिन्नं तेनेति निर्दिशेत् ॥२१॥छिन्नाङ्गं विकलं तत्स्याद्भीतिदं सर्वदोषकृत् ।तद्भर्तुर्भज्यतेऽङ्गं तद्वेधस्तस्याफलोऽन्यथा ॥२२॥स्वगृहद्वयमध्येन निर्वाहो यदि वर्त्मनः ।द्वारवेधोदितान्दोषांस्तदा प्राप्नोति निश्चितम् ॥२३॥मार्गश्चैको यदा गच्छेदुभयोर्गृहपार्श्वयोः ।मार्गवेधस्तदा स स्याच्छोकसन्तापकारकः ॥२४॥उत्सङ्गः पूर्णबाहुश्च हीनबाहुस्तथापरः ।प्रत्यक्षाय इति प्रोक्तं प्रवेशानां चतुष्टयम् ॥२५॥गृहस्य सम्मुखं यत्र द्वारं भवति वास्तुनः ।उतसङ्ग इति स प्रोक्तः पूर्णबाहुः प्रदक्षिणः ॥२६॥वामतो हीनबाहुः स्यात्प्रत्यक्षो वास्तु पृष्ठतः ।चतुर्थोऽयं समुद्दिष्टः प्रवेशो वास्तुनो बुधैः ॥२७॥उत्सङ्गाख्ये प्रवेशे स्यात्प्रजाहानिः कुटुम्बिनः ।धनधान्यक्षयो वास्य मरणं ध्रुवं भवेत् ॥२८॥पूर्णबाहौ पुत्रपौत्रा धनधान्यसुखानि च ।भवन्ति वसतो नित्यं गृहिणस्तत्र वास्तुनि ॥२९॥अल्पमित्रो गृही हीनबाहावत्यल्पबान्धवः ।स्याद्वाल्पवित्तो जीयेत स्त्रीभिः पीड्येत वामयैः ॥३०॥प्रत्यक्षाय प्रवेशस्तु विहितो यत्र वेश्मनि ।तस्मिन्निवसतां पुंसां निश्चितः स्याद्धनक्षयः ॥३१॥मूषास्वस्थानयुक्तासु शालाभेद इति स्मृतः ।प्राप्नोति तत्र निवसन्मृत्युं दुःखं सरोगताम् ॥३२॥उदग्दक्षिणशालासु पूर्वापरगतासु च ।अन्यथा वा स्थितं द्वारं वधबन्धनकारकम् ॥३३॥मूषागतान् भ्रमान्कुर्यान्न शालां प्रतिभेदयेत् ।भ्रमभग्नासु शालासु विपद्यन्ते कुटुम्बिनः ॥३४॥शालाभेदो भवेद्यत्र पृष्ठतः पार्श्वतोऽपि वा ।धनधान्यक्षयस्तत्र गृहिणो जायते ध्रुवम् ॥३५॥यत्र प्रत्यङ्मुखे शाले गृहं तत्स्याद्विकोकिलम् ।आयुश्चतुष्पदं धान्यं वसतां तत्र नश्यति ॥३६॥सीमाशालाप्रभिन्नस्य प्रासादस्य गृहस्य च ।अस्थिरा जायते ऋद्धिः स्थितिश्च न भवेच्चिरम् ॥३७॥सर्वदोषकरि ज्ञेया गर्भे चन्द्रा वलोकिता ।मूषां विना विनाशाय कामोच्छित्त्यै गवाक्षकः ॥३८॥यदा गण्डोऽथवा कुक्षिः पृष्ठं कक्षाथ भिद्यते ।दायद्रयं जायते भर्तुस्तदानीमदुस्सहम् ॥३९॥गर्भादुभयतो गण्डौ कक्षे स्तः कर्णभित्तिगे ।दक्षिणोत्तरयोः कुक्षी पृष्ठतः पृष्ठमादिशेत् ॥४०॥स्थापितद्वारसंरोधे गृहिणो जायतेऽश्मरी ।द्वारे तु विहिते तस्मिन्ननर्थस्तस्य जायते ॥४१॥पूर्वद्वारनिरोधं तु नवमागं कदाचन ।श्रोत्ररोधेऽश्मरीदोषः कृत्तश्रोत्रेह्यनम्यता ॥४२॥कृत्तानि यत्र चीयन्ते गवाक्षालोकनानि च ।तत्र प्रसूतिर्न भवेन्निष्पन्नापि विनश्यति ॥४३॥चीयमाना यदा भित्तिर्दक्षिणा स्याद्बहिर्मुखी ।तदा व्याधिभयं विद्यान्नृपदण्डभयं तथा ॥४४॥यदा तु पश्चिमं कुड्यं प्रयाति बहिरग्रतः ।धनहानिं विजानीयाच्चौरेभ्यश्च भयं तदा ॥४५॥उत्तरं तु यदा कुड्यं चीयमानं बहिर्व्रजेत् ।गृहभर्तुश्च कर्तुश्च व्यसनं स्यात्तदा महत् ॥४६॥यदाग्रं चीयमानायाः पूर्वभित्तेर्बहिर्व्रजेत् ।तदा गृहपतेस्तीव्रं राजदण्डभयं भवेत् ॥४७॥प्राग्दक्षिणो यदा कर्णश्चीयमानो बहिर्व्रजेत् ।तत्राग्निभीतिरतुला संशयश्च प्रभोर्भवेत् ॥४८॥बहिर्मुखो यदा गच्छेत्कर्णौ दक्षिणपश्चिमः ।कलहोपद्र वस्तत्र स्याद् भार्यायाश्च संशयः ॥४९॥यत्रोत्तरापरः कर्णश्चीयमानो व्रजेद्बहिः ।पुत्रवाहनभृत्यानां भवेत्तस्मिन्नुपद्र वः ॥५०॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP