संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

चतुःशालविधानं नामैकोनविंशोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


N/Aब्रूमो नृपचमूनाथवर्णिनां भवनान्यथ ।

प्रशस्तान्यप्रशस्तानि कृत्स्नान्यपि यथाक्रमम् ॥१॥
वेश्मनामेकशालानां शतमष्टाधिकं स्मृतम् ।
द्वापञ्चाशद्द्विशालानां त्रिशालानां द्विसप्ततिः ॥२॥
चतुःशालानि वेश्मानि यानि तेषां शतद्वयम् ।
पञ्चाशच्चाधिका षड्भिर्विज्ञातव्या मनीषिभिः ॥३॥
सहस्रं पञ्चशालानां स्यात्तथा पञ्चविंशतिः ।
षट्शालानां षण्णवतिः स्यात्सहस्रचतुष्टयम् ॥४॥
अष्टाङ्गे त्वेकशालस्य भेदाः पञ्चाशदीरिताः ।
द्विशालानां तु सर्वेषां प्रभेदाः शतपञ्चकम् ॥५॥
शतं शतं च प्रत्येकं त्रिशालानामुदाहृतम् ।
द्विचत्वारिंशदधिकं चतुःशालशताष्टकम् ॥६॥
द्विनवत्युत्तराण्येवं शतानि दश सप्त च ।
षोडशैव सहस्राणि षोडशोना चतुःशती ॥७॥
वेश्मानि सप्तशालानि भवन्ति परिसङ्ख्यया ।
पञ्चषष्टिसहस्राणि तथा पञ्चशतानि च ॥८॥
गृहाणामष्टशालानां षट्त्रिंशदपरा भवेत् ।
लक्षद्वयं सहस्राणि द्विषष्टिः शतमेव च ॥९॥
गृहाणां नवशालानां चत्वारिंशच्चतुर्युता ।
दशलक्षसहस्राणि चत्वारिंशत्तथाष्ट च ॥१०॥
शतानि दशशालानां पञ्च षट्सप्ततिस्तथा ।
गृहद्वितययोगेन संयुक्ताख्यानि विंशतिः ॥११॥
गृहद्वितययोगेन द्वात्रिंशदिह वेश्मनाम् ।
दशपञ्च तथान्यानि भवन्ति हलकान्यपि ॥१२॥
गृहमालाथ सङ्घट्टो गृहनाभिर्गृहाङ्गणम् ।
उद्भिन्नं भिन्नकक्षं च निलीनं प्रतिपादितम् ॥१३॥
अन्यानि चाष्टभेदानि भवन्त्युत्तमवर्णिनाम् ।
लक्षणं नाम संस्थानं चैतेषां प्रतिपाद्यते ॥१४॥
वर्णिनां स्याच्चतुःशालं मितं द्वात्रिंशता करैः ।
सेनापतेश्चतुःषष्टिस्तद्वदेव पुरोधसः ॥१५॥
श्रेष्ठमष्टशतं राज्ञामेतानि तु यथाक्रमम् ।
चतुःषडष्टहान्या स्युः पञ्चमं च पृथक्पृथक् ॥१६॥
विशोधयेत्कनीयोभिर्मध्यमानि यथाक्रमम् ।
नरेन्द्र पुरुषाणां स्युर्वेश्मान्येतानि वृद्धये ॥१७॥
गृहाणि शोधयेत्प्राग्वज्ज्यायांस्यपि च मध्यमैः ।
भवन्त्येतानि भूपानां रतिकोशप्रतिश्रयाः ॥१८॥
दशांशयुक्तो विस्तारादायामो विप्रवेश्मनाम् ।
अष्टषट्चतुरंशाढ्यः क्षत्रादित्रयवेश्मनाम् ॥१९॥
यो विस्तारः स एव स्यादायामोऽस्मिन् यथाक्रमम् ।
विट्शूद्र योः स्यादाधिक्यं मध्ये ज्येष्टे च सद्मनि ॥२०॥
कर्णसूत्राद्बहिः स्तम्भान्न्यसेत् सर्वान्प्रयत्नतः ।
धाम्नां षोडशहस्तानां पञ्चानां चतुरुत्तरा ॥२१॥\
वृद्धिः शालास्तु तेषां स्युश्चतुरंशेन विस्तृताः ।
शालाव्यासार्धतोऽलिन्दः सर्वेषामपि वेश्मनाम् ॥२२॥
तस्याः षोडशहस्ते स्यात् पञ्चमांशद्वयेन वा ।
सप्तमांशत्रयेण स्याद्द्वयोरपरवेश्मनोः ॥२३॥
अन्त्ययोर्हस्तयोः स स्याच्चतुर्भिर्नवमांशकैः ।
पञ्चभिः षड्भिरेभिश्च सार्धैः साङ्घ्रिनगैः करैः ॥२४॥
दैर्घ्यं स्याद्दशभिः सार्धैः शालायाः षोडशादिषु ।
निवेशदशमांशो यः स युतः सप्तभिः करैः ॥२५॥
शालाया विस्तरः प्रोक्तः श्रेष्ठानामिह वेश्मनाम् ।
अलिन्दमानं प्रागेव प्रोक्तं निखिलवेश्मनाम् ॥२६॥
यच्छालालिन्दयोः शेषं भवेद्गर्भगृहं हि तत् ।
मूषावच्छिन्नमिच्छन्ति शालादैर्ध्यं विपश्चितः ॥२७॥
शालाव्यासप्रमाणा स्यात्सर्वेषामवकोसिमा ।
दिशासु भवने शाला विदिशाकर्णसामयः ॥२८॥
कर्णशाला तु या प्रोक्ता सा च ज्ञेयावकोसिमा ।
अलिन्दशालयोर्मध्ये या स्यान्मूषेति सा स्मृता ॥२९॥
पूर्वद्वारं नियम्यादावादिमूषा तदुत्तरा ।
मूषा भद्रा इति प्राहुस्तत्संख्यामवधारयेत् ॥३०॥
यावन्मूषं भवेद्वेश्म तावद्भद्रं तदुच्यते ।
भद्रा भद्रे शक्रदिक्स्थे सौम्यासौम्ये यमाश्रिते ॥३१॥
शान्ताशान्ते प्रतीचीस्थे सौम्यदिक्स्थे शिवाशिवे ।
अलिन्दा इति केऽप्याहुर्मूषा इत्यपरे विदुः ॥३२॥
भद्रा इति जगुः केचिदन्ये परिसरा इति ।
एकद्वित्रिचतुःपञ्चषट्सप्ताष्टक्रमेण याः ॥३३॥
मूषास्तासां प्रवहणासंज्ञाः स्युर्वेश्मनामिह ।
तासामाद्याः प्रशस्ताः स्युरप्रशस्तास्ततः पराः ॥३४॥
नामतो गुणतश्चैव शुभाशुभफलोदयात् ।
अष्टावादौ गुरून्न्यस्येत्ततश्चाद्यगुरोरधः ॥३५॥
लघुं न्यस्येत्ततः शेषान् विदधीत यथोपरि ।
गुरुभिः पूरयेदादिं यावत्स्युर्लघवोऽखिलाः ॥३६॥
आद्यपङ्क्तौ गुरुश्चैको लघुश्चैको यथाक्रमम् ।
अतः परं तु द्विगुणाः प्रतिपङ्क्ति भवन्त्यमी ॥३७॥
मूषाभेदाश्चतुःशाले षट्पञ्चाशच्छतद्वयम् ।
अलिन्दवीथीप्रग्रीवनिर्यूहकगवाक्षकैः ॥३८॥
तमङ्गभद्र विन्यासरचनाभिरनेकधा ।
अपरस्परसंबाधात्संवृतैर्विवृतैरपि ॥३९॥
गृहभेदाः प्रसूयन्ते येषां संख्या न विद्यते ।
यत्संबद्धचतुश्शालममूषालिन्दकं हि तत् ॥४०॥
एकभद्रा दिगेहानां ब्रूमो नामान्यतः परम् ।
यान्येकलघुलक्षाणि प्रस्तारे तानि तद्विदः ॥४१॥
कथयन्त्येकभद्रा णि क्रमसंख्याविभागतः ।
प्रागायतं प्राग्विलग्नं जयं संयमनप्रियम् ॥४२॥
प्रतीच्यं प्रासविन्यासं सुभद्रं कलहोत्तरम् ।
अष्टौ तान्येकभद्रा णि द्विभद्रा ण्यभिदध्महे ॥४३॥
पूर्वोत्तरोत्तरं पूर्वाद्भद्रा दिह विधानतः ।
स्यातां प्राग्मेलकाद्यद्वत्पूर्वाद्या दक्षिणा परे ॥४४॥
ईरं सुनीथमाग्नेयं द्वीपमाप्यं सुसंयमम् ।
अर्धर्चमैभं व्याकोशं नैरृतं वृषभं विनम् ॥४५॥
काव्यं विपासमानीरं कान्तं सौभं विपश्चिमम् ।
गवयं श्रीवहं श्लिष्टं गणं भीममयोगमम् ॥४६॥
वर्तं चलं शठं क्रान्तमित्यष्टाविंशको गणः ।
द्विभद्रा णां समाख्यातस्त्रिभद्रा णामतः परम् ॥४७॥
ऐन्द्रं विलोममायामं वधमेकाक्षमन्तिकम् ।
प्रकाशं पैत्रमायस्तं भद्रं प्रान्तं प्रसाधकम् ॥४८॥
क्षमं विघातमायातं कान्तं चित्रं द्विमन्दिरम् ।
सुदक्षिणं भयं श्लिष्टं प्रमोदं व्यायतं वियत् ॥४९॥
आप्यं सुनागं नागेन्द्र मीरितं शोभनं घनम् ।
शस्तोत्तरं कफं कर्णं क्रुष्टं क्रान्तं क्रमागतम् ॥५०॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP