अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः
समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।
अथात्र प्रक्रमायाता कथ्यतेऽण्डकवर्तना ।
कायप्रमाणामपि च जातिभावादिसंश्रयम् ॥१॥
अथ मधोतिरालिख्य तोरका सन्निवेशयेत् ।
तारका त्रयमालेख्य तत्राननसमायति ॥२॥
तावत्प्रमाणमायामं गोलकस्योत्तमं विदुः ।
तेन गोलकत्वेन मानोन्माने तु कारयेत् ॥३॥
मुखाण्डकस्य विस्तारो लेपषट्केन सम्मितः ।
द्विदैर्घ्यं तु गोलकाः सप्त वापीसंस्थानमेव च ॥४॥
मुखाण्डकमिदं श्रेष्ठं कर्तव्यं चित्रकर्मणि ।
त्रिकोटि वृत्तिमालेख्यं वृत्ताण्डकमिति क्रमात् ॥५॥
भावाण्डकान्यथ ब्रूमः सोहस्याभिप्रस्तवेडकम् ।
गोलार्धाभ्यधिकं कार्यं पूर्वेस्तोत्तद्विचक्षणैः ॥६॥
अर्धगोलकमायामादलसाण्डकमुच्यते ।
नवगोलकदैर्घ्यं तदद्वहासमुखं भवेत् ॥७॥
पुंसां षडादात्तं मानं विस्तारात्पञ्चगोलकम् ।
वनिताण्डकमालेख्यं नालिकेरफलोपमम् ॥८॥
चतुर्गोलकविस्तीर्णमायतं पञ्चगोलकान् ।
शिशूनामण्डकं तावत्कर्तव्यं चित्रकर्मणि ॥९॥
हास्योभिः प्रस्रवेत् तस्य गोलकार्धान् विशेषयेत् ।
आलस्याण्डकमप्येवं रोदनं तद्वदेव तु ॥१०॥
षड्गोलकप्रविस्तारमायतं सप्तगोलकम् ।
राक्षसस्याण्डकं कुर्याच्चन्द्र मण्डलसन्निभम् ॥११॥
हास्योभिप्रस्तवे तस्य गोलकार्धान् विशेषयेत् ।
देवाण्डकं प्रमाणेन तदालस्येऽत्र कीर्तितः ॥१२॥
षड्गोलकप्रविस्तारं गोलकाष्टकमायतम् ।
वृत्तां या समालेख्यं दिव्याण्डकमिति स्मृतम् ॥१३॥
अथाभिधीयते दिव्यमानुषाण्डक लक्षणम् ।
गोलकार्धाधिकं भे तच्च कार्यं मानुषमानतः ॥१४॥
पश्चगोलकविस्तीर्णं षड्गोलसेकमायुतम् ।
मुखाण्डं मानुषं कृत्वा केत्तरस्य विधीयते ॥१५॥
शिशुकाण्डकमानेन प्रमथानां मुखाण्डकम् ।
राक्षसाण्डकमानेन यातुधानाण्डकं भवेत् ॥१६॥
दानवस्याण्डकं कुर्याद्देवानां वदनोपमम् ।
गन्धर्वनागयक्षाणां तद्वदेवाण्डकं भवेत् ॥१७॥
विद्याधराणां विज्ञेयं दिव्यमानुषमण्डकम् ।
बुध्यन्ते केऽपि शास्त्रार्थं केचित्कर्माणि कुर्वते ॥१८॥
करामलकवत्यास्यं पर द्वयमप्यदः ।
न वेत्ति शास्त्रवित्कर्म न शास्त्रमपि कर्मवित् ।
यो वेत्ति द्वयमप्येतत्स हि चित्रकरो वरः ॥१९॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे अण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः ।
N/A
References : N/A
Last Updated : November 26, 2017
TOP