संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| १ ते ५० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ मेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः - १ ते ५० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार मेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः - १ ते ५० Translation - भाषांतर प्रामादानामतो लक्ष्म षोडशानां विशेषतः ।ज्येष्ठमध्यकनिष्ठानां यथावदभिदध्महे ॥१॥विभज्यते यथा येन प्रागश्चोर्ध्व विधीयते ।यावद्यस्य प्रमाणं तु तथा तत्तस्य कथ्यते ॥२॥मेरुः प्रासादराजश्च कैलासश्च हरप्रियः ।सर्वतोभद्र कश्चैव विमानच्छदनन्दनौ ॥३॥स्वस्तिको मुक्तकोणश्च श्रीवत्सो हंससंज्ञितः ।रुचक्रो वर्धमानश्च गरुडश्च गजस्तथा ॥४॥मृगराजश्च पद्मश्च वलभी चेति ते स्मृताः ।न त्रयस्त्रिंशतोऽधस्तान्नापि पञ्चाशतः परा ॥५॥सङ्ख्या भवति हस्तानां मेरोरिति पुराविदः ।विभज्य दशधा क्षेत्रं शृङ्गं कुर्याद् द्विभागिकम् ॥६॥कृत्वा षड्भागिकं मध्यं निर्गमस्तत्र दीयते ।भागस्य षोडशांशेन विधेयं सलिलान्तरम् ॥७॥पदैः षोडशभिर्गर्भे विधेया चास्य विस्तृतिः ।प्रासादभित्ति पदिका पदविस्तृतमन्तरम् ॥८॥पदिका बाह्यभित्तिः स्यादित्येष स तदा स्मृतः ।द्विपदो वेदिकाबन्धो जङ्घा पञ्चपदोदया ॥९॥पदार्धेन पदार्धेन मेखलान्तरपत्रके ।शृङ्गोच्छ्रितिस्त्रिभिर्भागैर्नवभिः शिखरोच्छ्रितिः ॥१०॥शिखरस्यास्य कर्तव्यास्तज्ज्ञैः षोडश भूमिकाः ।स्कन्धॐऽशैर्विस्तृतः षड्भिरंशेनोच्छ्रितमण्डकम् ॥११॥ग्रीवा वंशोच्छ्रिता कार्या शिखरस्यादिविस्तृतौ ।षड्गुणेनैव सूत्रेण वेणुकोशं समालिखेत् ॥१२॥विस्तृतेरपि भद्रा याः कुर्याद्द्विगुणमुच्छ्रयम् ।कुम्भं भागेन कुर्वीत प्रासादेष्वखिलेष्वपि ॥१३॥एवमेष चतुःशृङ्गश्चतुर्द्वारोपशोभितः ।मेरुर्मेरूपमः कार्यो वाञ्छता शुभमात्मनः ॥१४॥सर्वस्वर्णमयं मेरुं यद्दत्त्वा पुण्यमाप्नुयात् ।तमिष्टकाशैलमयं कृत्वा तदधिकं भजेत् ॥१५॥मेरुः ।चतुरश्रीकृते क्षेत्रे सप्तविंशतिपाणिकम् ।दशधा विभजेत्स स्यात्कैलासः पुण्यवर्धनः ॥१६॥ब्रह्मकोष्ठगतो गर्भः शेषं भित्त्यन्धकारिका ।चतुर्भागं भवेद्भद्रं मूलकर्णौ त्रिभागिकौ ॥१७॥सप्तभागोच्छ्रिता जङ्घा मेखला चार्धभागिका ।भागेनान्तरपत्रं स्याद्भागेनाण्डकमुच्छ्रितम् ॥१८॥ग्रीवाग्रभागमुत्सेधाच्छिखरं दशकोच्छ्रितम् ।अर्धषष्ठांशविस्तारः स्कन्धः कैलाससंज्ञिते ॥१९॥अस्मिन्नन्तरपत्रे तु सूत्रं दत्त्वा सुताडितम् ।त्रिगुणेन लिखेत्तेन वेणुकोशं मनोरमम् ॥२०॥अष्टभूम्युच्छ्रयः श्रीमान् मञ्जर्या च विराजितः ।उच्छ्रयश्चास्य कर्तव्यो द्विगुणः श्रियमिच्छता ॥२१॥कार्यं षड्भूमिकं चास्य भद्रं भागार्धनिर्गतम् ।पाकः सिंहकर्णस्युः समाप्तिर्नायकेन च ॥२२॥कैलास एष कथितो विशेषेण हरप्रियः ।कैलासः ।इदानीं सर्वतोभद्रः प्रासादः परिकीर्त्यते ॥२३॥स स्यात् षड्विंशतिं हस्तान् परमः परिमाणतः ।जठरं बाह्यसीमा च भित्तयो ह्यन्धकारिकाः ॥२४॥जङ्घोत्सेधश्च कर्णौ च यथा मेरोस्तथा स्मृताः ।तथैव भद्र विस्तारैः कार्यो भागार्धनिर्गतः ॥२५॥रथिकैका चतुर्भागा ततः सार्धद्विभागिका ।तासां परस्परं ज्ञेयो भागभागं विधीयते ॥२६॥षड्भागात् विस्तृतं कार्यं शिखरं सप्तमोच्छ्रितम् ।षड्भिर्दशभिर्भागैः स्यान्मूलजा स्कन्धविस्तृतिः ॥२७॥ग्रीवार्धभागमुत्सेधादण्डकं भागमुच्छ्रितम् ।मूलसूत्रानुसारेण च्छेदः संयुज्यते यथा ॥२८॥अस्य रेखा तथा कार्या सर्वश्रेयःप्रसाधनी ।मेरोरस्य च शृङ्गाणि सिंहकर्णैर्विभूषयेत् ॥२९॥मञ्जरीं पद्मकोशाग्रतुल्यां सर्वत्र कारयेत् ।जयं लक्ष्मीं यशः कीर्त्तिं सर्वाणीष्टफलानि च ॥३०॥करोति सर्वतो भद्रं सर्वतोभद्र कः कृतः ।सर्वतोभद्रः ।चतुरश्रीकृते क्षेत्रे विभागशतभाजिते ॥३१॥विमानं विभजेत् प्राज्ञः श्रेयःपुष्टिसुखावहम् ।भद्रै श्चतुर्भिस्तत्कुर्यात्कर्णप्राग्ग्रीवकैस्तथा ॥३२॥पञ्चभूमिर्भवत्येष यदि वा त्रिविधा भवेत् ।हस्तास्त्रिंशद्भवेज्ज्येष्ठो मध्यमः पञ्चविंशतिः ॥३३॥स्याडेकविंशतिर्हस्तात्कनीयान् षोडशाथवा ।जातिशुद्धो भवेदेको मञ्जर्या वै परो भवेत् ॥३४॥मिश्रकोऽन्यो विमानानामिति संख्या त्रिधोदिता ।ज्येष्ठो मिश्रकनिर्माणः स च कौलाशभद्र कृत् ॥३५॥मध्यमो जातिशुद्धः स्यात्कनीयान् मञ्जरीयुतः ।पञ्चभागयुतं भद्रं विस्तरेण प्रकीर्तितम् ॥३६॥कर्णप्राग्ग्रीवविस्तारः कर्तव्यो भागसंमितः ।भागार्धं क्षोभणे कार्यं तलिपं तझलान्तरं ॥३७॥गुप्तकर्णं तु कर्तव्यं यदिच्छेल्लक्षणान्वितम् ।तस्माद्भद्र स्य निष्कंशं भागेनैकेन कारयेत् ॥३८॥मिश्रकस्य चतुर्भागं भद्रं कुर्याद्विचक्षणः ।पञ्चभागोच्छ्रिता जङ्घा खुरपिण्डकया सह ॥३९॥द्विभा रथिका कार्या भूमिः स्याच्चतुरंशका ।द्वितीयार्धांशहीना च तृतीया भूमिरिष्यते ॥४०॥चतुर्थे तु त्रिभिर्भागैरर्धहीना तु पञ्चमी ।उदयो भूमिकाया यः कूटं कुर्यात्तदर्धतः ॥४१॥अर्धेन कुम्भिकां कुर्यादुच्छालकसमन्विताम् ।ऊर्ध्वभवस्तु पञ्चम्या वेदिका भागमुच्छ्रिता ॥४२॥घण्टा षड्भागविस्तारा कार्या भागद्वयोच्छ्रिता ।घण्टोत्सेधं त्रिभिर्भागैर्विभजेत्तदनन्तरम् ॥४३॥भागिकानि प्रकुर्वीत कण्ठग्रीवाण्डकानि च ।भागं कण्ठप्रदेशः स्याद्दण्डिकायाः समुच्छ्रितिः ॥४४॥घण्टार्धेन विधातव्या द्विभागा कलशोच्छ्रितिः ।सूरसेनादिकं सर्वं कर्तव्यं पूर्ववत्तथा ॥४५॥भद्रं मनोरमैश्चेह सिंहकर्णैर्विभूषयेत् ।पञ्चव्यासेन सूत्रेण पद्मकोशं समालिखेत् ॥४६॥लतातयो भवेदेषां लताभिस्तं प्रकल्पयेत् ।मिश्रको मिश्रितैरङ्गैः शुद्ध स्याद्भूमिकान्वितः ॥४७॥विमानः ।नन्दनस्य भवेत्सीमा द्वात्रिंशद्धस्तनिर्मितः ।अष्टाष्टकविभागेन चतुःषष्टिपदो हि सः ॥४८॥भागैश्चतुर्भिर्गर्भोऽस्य शेषं भित्त्यन्धकारिका ।भद्रं गर्भसमं कार्यं तदूर्ध्वेनास्य निर्गमः ॥४९॥द्वौ रथौ पार्श्वतो भूयः सर्वतः कर्णसूत्रतः ।पञ्चभागोच्छ्रिता जङ्घा मेखला भागसंमिता ॥५०॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP