संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
२०१ ते २४५

विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः - २०१ ते २४५

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


शालाकः ।
इदानीं वेणुकं ब्रूमश्चतुरश्रं समं शुभम् ।
न कुर्याद्भद्र निष्क्राममात्रच्छत्रात्मनः शुभम् ॥२०१॥
विस्तारद्विगुणोच्छ्रायः कुम्भाग्रं यचेदिष्यत् ।
शिखाद्विगुणमानस्य जङ्घा त्र्यंशेन कल्पते ॥२०२॥
जङ्घात्रिभागमुत्सेधात्कार्या खुरवरण्डिका ।
कपोतान्तरपत्रं च कर्तव्यं साधभागिकम् ॥२०३॥
चतुर्भागोन सूत्रेण वेणुकोशं समालिखेत् ।
सर्वतः शोभनं कुर्यात्तं कपोतविनिर्गमे ॥२०४॥
मुखेऽस्य सिंहकर्णाः स्युश्चन्द्र शालाविवर्जिताः ।
प्रमाणमस्य यत्किञ्चिद्वेणुकं च विधीयते ॥२०५॥
वेणुकम्  ।  ।
इदानीं कुञ्जरं ब्रूमो गजलक्षणलक्षितम् ।
अर्धसूत्रेण तत्साम्नः पृष्ठतो वृत्तमालिखेत् ॥२०६॥
चतुर्भागा भवेज्जङ्घा मेखला सार्धभागिका ।
वृत्ताकारं पृष्ठदेशे तं कुर्वीत विचक्षणः ॥२०७॥
शालासु सिंहकर्णाः स्युः पार्श्वतः पृष्ठतोऽग्रतः ।
कर्णाश्च तस्य कर्तव्याः शृङ्गैः सर्वेऽपि पूरिताः ॥२०८॥
मध्यप्रदेशे वलभी कर्तव्या चातिशोभना ।
यत्किञ्चित्तत्प्रमाणं तु यथैवाद्ये तथा भवेत् ॥२०९॥
कुञ्जरः ।
अथ हर्षं प्रवक्ष्यामश्चतुरश्रं मनोरमम् ।
विस्तारात्सार्ध उत्सेधः स्याद्ध्यटां मस्तकावधेः ॥२१०॥
छाद्यरूपं च कुर्वीत चतुरश्रं चतुर्दिशम् ।
शुकनासं सुखातेन शोभितं परिकर्मणा ॥२११॥
जङ्घामेखलयोश्च---सुरपिण्डस्य चोच्छ्रितिः ।
घण्टाग्रं चन्द्र शाला च च्छाद्यकं च यदृच्छया ॥२१२॥
कुर्यात्प्रमाणमन्यच्च यथैव मनसः प्रियम् ।
हर्षणः ।
इदानीं विजयं ब्रूमः प्रासादं सार्धशोभनम् ॥२१३॥
लतिनो वर्धमानेन --- विभाजयेत् ।
शुकनासोदयं न्यस्येदंशोनशिखरोदयम् ॥२१४॥
अग्रप्राग्ग्रीवकौ कार्यौ रथकौ वामदक्षिणौ ।
कर्तव्योर्ध्वलतश्चापं पूर्णः सर्वतोदिशम् ॥२१५॥
विजयो वर्धमानश्च प्रमाणेन समावुभौ ।
अलिन्दभेदान्नामास्य कृतं विजय इत्यदः ॥२१६॥
महापद्मः ।
ब्रूमोऽथ हर्म्यं प्रासादं तं कुर्यादेकभूमिकम् ।
दारुजं चतुरश्रं च पट्टतुलाभित्तिभिः ॥२१७॥
दण्डच्छाद्यं च कुर्वीत समन्ताच्च चतुष्किकाम् ।
ऊर्ध्वतस्तुम्बिकाक्रान्तं पद्मखण्डविभूषितम् ॥२१८॥
मुखैः पत्रैर्गवाक्षैश्च वेदिकास्तम्भतोरणैः ।
वलभीशालभञ्जीभिः सिंहकर्णैश्च भूषयेत् ॥२१९॥
विस्तारमस्य हर्म्यस्य कुर्यादुच्छ्रयसंमितम् ।
हर्म्यः ।
इदानीमुज्जयन्तस्य लक्षणं सम्प्रचक्ष्महे ॥२२०॥
कुर्याद्भूहर्म्यमानेऽत्र द्वारि मण्डपभूषितम् ।
चतुर्द्वारं च कुर्वीत सर्वतो मण्डपान्वितम् ॥२२१॥
प्रमाणमन्यदप्यस्य हर्म्यस्येवाखिलं भवेत् ।
उज्जयन्तः ।
इदानीमभिधास्यामो गन्धमादनलक्षणम् ॥२२२॥
हर्म्यमानेन कर्तव्यः प्रासादो गन्धमादनः ।
अग्रतः पृष्ठदेशे च मण्डपं तस्य कारयेत् ॥२२३॥
चतुष्कीजालपक्ष्माद्या वामदक्षिणभागयोः ।
प्रमाणमस्य कर्तव्यं यथा हर्म्यस्य कीर्तितम् ॥२२४॥
गन्धमादनः ।
ब्रूमोऽथ शतशृङ्गं स त्रिविष्टपसमो भवेत् ।
विभजेद्भागविंशत्या पञ्च भौमं च कारयेत् ॥२२५॥
---द्विभागानि कूटानि सैकमण्डशतं भवेत् ।
भूमौ भूमौ च शृङ्गाणि भूविस्तारदशांशतः ॥२२६॥
प्रमाणमस्य यत्किञ्चित्तत्त्रिविष्टपवद्भवेत् ।
निरवद्यः ।
विभ्रान्तमथ वक्ष्यामः सर्वतोभद्र सन्निभम् ॥२२७॥
सान्धारं तं प्रकुर्वीत सर्वतो मण्डपैर्युतम् ।
गवाक्षा वेदिजालाद्याः कुर्याद्दिक्षु चतुष्किकाः ॥२२८॥
विभ्रान्तः ।
मनोहरमथ ब्रूमः स भवेन्मण्डपो यथा ।
साच्छाद्यतोरणैर्दिक्षु चतुर्द्वारः समण्डपः ॥२२९॥
वेदिषण्डाम्बुमार्गाद्यैः प्रतोलीद्वारजालिकैः ।
सिंहपीठतलन्यासैः कलशैः परिपूरितः ॥२३०॥
वृत्तस्तम्भस्तुलाच्छन्नो बहिश्छाद्येन भूषितः ।
सिंहव्यालगजैः पत्रैर्मुखे सस्तम्भतोरणैः ॥२३१॥
पुनः कार्यं प्रमाणं तु यथाशोभं विधीयते ।
मनोहरः ।
वृत्तवृत्तायतौ ब्रूमस्तयोः कम्बुसमाकृतिः ॥२३२॥
वृत्तस्तत्र तलन्यासचतुरस्रॐशपञ्चकम् ।
वृत्ताद्यमूर्ध्वतो वृत्तं यथाशोभं समुत्थितम् ॥२३३॥
कुर्यान्मुखायतं चान्यं सिंहकर्णान्वितं मुखे ।
वृत्तवृत्तायतौ ।
चैत्यस्य लक्षणं ब्रूमः स स्याच्छात्रयान्वितः ॥२३४॥
अस्याकारः प्रमाणं च यथा वृत्ते तथा भवेत्  ।
चैत्यः ।
किङ्किणीकमथ ब्रूमः पञ्चाण्डं नवभूमिकम् ॥२३५॥
वृत्तकूटाः शुभाः कार्याः सर्वेऽमी शुभलक्षणाः ।
किङ्किणीकः ।
इदानीं लयनं ब्रूमः स शैलखननाद्भवेत् ॥२३६॥
निःश्रेण्यारोहसोपाननिर्यूहकगवाक्षकान् ।
वेदीभ्रमविटङ्कांश्च प्रतोलीद्वारसंयुतान् ॥२३७॥
उत्कीर्णानाचरे तरप्राग्रीवन्मानं च  ।
लयनम् ।
इदानीं पट्टिसं ब्रूमः प्रासादं वस्त्रसम्भवम् ॥२३८॥
बोहातो जालपादैश्च वेदीषण्डैश्च मण्डितम् ।
कूर्मपृष्ठं प्रदातव्यमिच्छता शुभलक्षणम् ॥२३९॥
पट्टिसः ।
विभवः कथ्यते स स्यात् सुर्यामन्यसमाश्रयः ।
दारवे दारवो योज्यः शैलजे शैलसम्भवः ॥२४०॥
मृन्मये मृन्मयः कार्यश्चयने चयनोद्भवः ।
प्रत्यन्तग्रामखेटेषु दारुस्तम्भैर्विधीयते ॥२४१॥
विभवस्यानुसारेण स कार्यो धार्मिकैस्त्रिभिः ।
विभवः ।
तारागणमथ ब्रूमः स भवेन्मण्डपाकृतिः ॥२४२॥
वस्त्रचीरतुलाशाण्डो डोलाक्रीडाभ्रमैर्गृहैः ।
वस्त्रजैश्चित्ररूपाद्यैर्घण्टादर्पणतोरणैः ॥२४३॥
ध्वजच्छत्रविमानाद्यैः किङ्किणीभिर्विराजितम् ।
यत्किञ्चित्सुन्दरं सर्वं तदत्र विनिवेशयेत् ॥२४४॥
तारागणः ।
अष्टाष्टकैर्द्वे च विशेषयोगात् ।
प्रासादषष्टिश्चतुरन्वितैषा  ।
विमानमुख्याः कथिता य एतान् ।
जातायस्यैस शिल्पिगणाग्रणीः स्यात् ॥२४५॥

इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे विमानादिचतुःषष्टिर्नामैकोनषष्टितमोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP