अथाश्वशाला नाम त्रयस्त्रिंशोऽध्यायः - ५१ ते ७९
समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।
तथास्थितानामश्वानां दक्षिणेन दिवाकरः ।
उदेत्यनन्तरं याति तान् विधाय प्रदक्षिणम् ॥५१॥
प्रयाति वामतोऽश्वं च स्थाप्यास्तेनोत्तरामुखाः ।
चन्द्रा र्कौ प्रतिहर्षन्ते तथा बध्नीत वाजिनः ॥५२॥
नृपतिश्च जयं सिद्धिं पुत्रानायुश्च विन्दति ।
अरोगाश्च भवन्त्यश्वा वर्धयन्ति च सन्ततिम् ॥५३॥
दक्षिणाभिमुखान्कुर्यान्न सन्नाह्यान्न चाग्रगान् ।
पितृकार्याद्यतोऽन्यत्र दक्षिणा वर्जितैव दिक् ॥५४॥
अस्यामेव दिशि प्रेता यतः सर्वे प्रतिष्ठिताः ।
उदेति वामतो याति चास्तं दक्षिणतो रविः ॥५५॥
सोमश्च पृष्ठे भवति तेनाश्वा दैवपीडिताः ।
ग्रहैर्विकारैर्विविधैः पीड्यन्तेऽरातिविह्वलाः ॥५६॥
भयेन व्याधिभिश्चार्ता ग्रासं नेच्छन्ति खादितुम् ।
पराजयमतुष्टिं च स्वामिनोऽनर्थसङ्गतिम् ॥५७॥
कुर्वन्त्यतो न बध्नीयात्कथञ्चिद् दक्षिणामुखान् ।
पश्चिमाभिमुखानां च बद्धानां वाजिनां सदा ॥५८॥
उदेति पृष्ठतो भानुः पुरतोऽस्तं प्रयाति च ।
न भवेद्विजयस्तेन भर्तुस्तत्पृष्ठवर्तिनः ॥५९॥
शक्रस्य पृष्ठवर्तित्वात्प्रातिलोम्याच्च भास्वतः ।
कुप्यन्ति व्याधयस्तेषां तूर्णं देहविनाशनाः ॥६०॥
तैस्ते ध्यायन्ति वेपन्ते जले त्रासं प्रयान्ति च ।
यवसं नाभिनन्दन्ति क्षमां मुञ्चन्ति सर्वथा ॥६१॥
दिशोऽभिमुखमाग्रेय्या बध्यन्ते यदि वाजिनः ।
व्यथन्ते रक्तपित्तोत्थैस्तदा रोगैरनेकधा ॥६२॥
जायन्ते स्वामिनो बन्धवधहृच्छोषादायिनः ।
वाजिनां च भवेत्तत्र वह्निदाहकृतं भयम् ॥६३॥
भर्तुः पराजयो विघ्नः स्याच्च देहस्य संशयः ।
नैरृत्याः ककुभो वाहा बध्यन्ते संमुखं यदि ॥६४॥
तदा न तेऽभिनन्दन्ति खादनं पानभोजने ।
यथा यथा क्षितिं पादैर्दारयन्ति पुनः पुनः ॥६५॥
हेषन्ते वीक्ष्य बहुशो मनुष्यान् पक्षिणः पशून् ।
भ्रमयन्ति च गात्राणि नैरृतीं चाभितः स्थिताः ॥६६॥
तथा तथैषां कुपिता नाशं कुर्वन्ति राक्षसाः ।
बध्यन्ते यदि वाज्ञानाद्वायव्याभिमुखं हयाः ॥६७॥
तदा ते वातिकै रोगैः पीड्यन्ते प्रतिवासरम् ।
चलः कायो भवेद्भर्तुः क्लेशश्चाश्वोपजीविनाम् ॥६८॥
नराणां च भवेन्मृत्युर्दुर्भिक्षप्रभवं भयम् ।
ऐशान्यभिमुखं बद्धाः प्रणश्यन्ति तुरङ्गमाः ॥६९॥
सूर्योदयस्याभिमुखं बद्धानां चेदमादिशेत् ।
निबध्यन्ते यदा वाहा ब्राह्मीं दिशमुपाश्रिताः ॥७०॥
बध्यन्ते ते ग्रहैर्दिव्यैर्व्याधिभिश्च विचिन्तनाः ।
कव्यहव्यक्रियास्तत्र भर्तुर्न विजयावहाः ॥७१॥
द्विजानामुपतापाय जायन्ते तत्र वाजिनः ।
अनुवंशं च शालायां स्थानमश्वस्य नेष्यते ॥७२॥
स्वामिनस्तदजीर्णाय स्यान्नाशाय च वाजिनाम् ।
स्थाने प्रशस्ते तुरगान् सर्वथा वासयेदतः ॥७३॥
न च धार्याः क्षणमपि रोगिणः कल्यसन्निधौ ।
कल्यानामपि रोगाः स्युर्यतो रोगिसमाश्रयात् ॥७४॥
हयागारस्य पूर्वेण कार्यं भेषजमन्दिरम् ।
तस्यैव वामतः सर्वसंभारान् परिकल्पयेत् ॥७५॥
वाजिनां भेषजार्थाय भाण्डानि च विनिक्षिपेत् ।
अगदानोषधीः स्नेहान् वर्तीश्च लवणानि च ॥७६॥
भेषजागारसविधे कुर्याच्चारिष्टमन्दिरम् ।
भवनं व्याधितानां च कार्यं वासाय वाजिनाम् ॥७७॥
सुगुप्तं तच्च कर्तव्यं पूर्वनिर्दिष्टवेश्मवत् ।
संबद्धं च विधातव्यमेतद्वेश्मचतुष्टयम् ॥७८॥
सुधाबन्धदृढैः कुड्यैः सप्राग्ग्रीवोच्चतोरणम् ।
चत्वार्यपि विशालानि सुगमानि च कारयेत् ।
वेश्मस्वेवंविधेष्वश्वान् स्थापितान् परिपालयेत् ॥७९॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे अश्वशाला नाम त्रयस्त्रिंशोऽध्यायः ।
N/A
References : N/A
Last Updated : November 26, 2017
TOP