संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१०१ ते १६०

मेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः - १०१ ते १६०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


कामलान् मल्लकांश्चान्यान् सिंहकर्णात् प्रलोपयेत् ।
प्रासादानां हि सर्वेषां सर्वमेतद्विभूषणम् ॥१०१॥
यस्य यत्रोचितं स्थानं तत्तत्र विनिवेशयेत् ।
निर्मितौ वलभेस्तिर्यक्सूत्रं कुर्वीत सप्तधा ॥१०२॥
पञ्चभागांश्च मुखतस्तेनैवांशेन कल्पयेत् ।
मेखलान्तरपत्रे च जम्भाकुम्भकमेव च ॥१०३॥
पञ्चभागोच्छ्रितं कुर्यात्तद्वच्छिखरमुच्छ्रितम् ।
कीर्तितानि विमानानियान्येव सुरवर्त्मनि ॥१०४॥
तान्येव स्थावरत्वेन प्रासादा इति विश्रुताः ।
महेश्वरस्य कैलासो विष्णोस्तु गरुडाभिधः ॥१०५॥
कार्यः प्रजापतेः पद्मो गणनाथस्य च द्विपः ।
न खल्वेतेऽन्यदेवानां विधातुमुचिताः स्मृताः ॥१०६॥
यस्तु त्रिविष्टपः स स्यात्सर्वदेवनिकेतनः ।
अस्मात्तु येऽन्ये प्रासादाः स्मृतास्तेऽनेकरूपिणः ॥१०७॥
सर्वेषामेव देवानामभेदेन भवन्ति ते ।
जगत्यां विस्तरः कार्यः प्रासादोच्छ्रयसंमितः ॥१०८॥
गर्भोर्धेनोच्छ्रयस्तस्याः शुभदः परिकीर्तितः ।
मण्डपस्य षडंशार्धो पञ्चमांशादथ स्मृतः ॥१०९॥
कर्णप्रासादकाः कार्याः प्रासादस्य त्रिभागतः ।
पूर्वापरमुखाः कार्या एते याम्योत्तराननाः ॥११०॥
ऐन्द्रे याम्ये वारुणे च कौबेरे च यथाक्रमम् ।
दिग्भागेषु चतुर्ष्वेषु वलभीं विनिवेशयेत् ॥१११॥
गर्भविस्तारविस्तीर्णां द्वौ त्रिभागौ मुखायताम् ।
इति बाह्यपरीवारे जङ्घा प्रासादमानतः ॥११२॥
तीर्यंगायतमारोप्य सूत्रं गर्भेण मण्डपे ।
गुरुकक्षोऽथ कर्तव्या गवाक्षस्तम्भसंयुताः ॥११३॥
प्रासादविस्तरात्कार्यो द्विगुणो मण्डपः सदा ।
मण्डपस्यसविस्ताराजगती द्विगुणा बहिः ॥११४॥
कर्णप्रासादकाः कार्याः प्रासादस्यार्धतोऽपि वा ।
तेषामध्यर्धतः कुर्याद्वलभीनां निवेशनम् ॥११५॥
अनेन क्रमयोगेन बाह्याद्बाह्यं सुसंवृतम् ।
यदा हि शोभते राजा केयूराङ्गदकुण्डलैः ॥११६॥
तथा प्रासादराजोऽयं शोभते भूषणैर्निजैः ।
ध्वास्यार्हास्यातिसौम्यस्य श्रीकीर्तिविजयावहः ॥११७॥
अनेन विधिना न्यस्तः प्रासादः स्यात्सदा नृणाम् ।
आदित्यं पूर्वतो न्यस्येत्कुमारं पूर्वदक्षिणे ॥११८॥
दक्षिणे मातृदेवैस्तु गजास्यं दक्षिणोपरि ।
विन्यसेद्वारुणे गौरी वायव्येऽपि च चण्डिकाम् ॥११९॥
विष्णुं कुबेरदिग्भागे तथैशान्यां महेश्वरम् ।
अन्येषामपि देवानां कथ्यते तु क्रमोऽधुना ॥१२०॥
तत्रैशान्यां दिशि न्यस्येदीशानं लोकनायकम् ।
दानवानां निहन्तारं पूर्वस्यामपि वासवम् ॥१२१॥
वैश्वानरं तथाग्नेय्यां धर्मराजं च दक्षिणे ।
नैरृत्यां निरृतिं न्यस्येत्प्रतीच्यां तु प्रचेतसम् ॥१२२॥
वायुं वायव्यदिग्भागे कुबेरमपि चोत्तरे ।
अष्ठौ ह्येते महात्मानो लोकपालाः प्रकीर्तिताः ॥१२३॥
पालयन्ति जगत्सर्वं स्वस्वस्थाने प्रतिष्ठिताः ।
पुरकर्कटदुर्गेषु ग्रामेषु नगरेषु च ॥१२४॥
क्रमेणानेन विन्यस्ताः स्युः प्रजानां सुखावहाः ।
न यत्र देवताबाधस्तत्र द्वारं प्रकल्पयेत् ॥१२५॥
प्रासादस्यानुसारेण भवेद् द्वारं शुभावहम् ।
अथातः प्रोच्यते सम्यग्द्वारमानमनुक्रमात् ॥१२६॥
ज्येष्ठमध्यकनिष्ठानां द्र व्यं स्तम्भानुसङ्गतम् ।
भवेद्द्वारां प्रासादे षोडशाङ्गुलम् ॥१२७॥
द्विकरे द्विगुणं तत् स्यात्त्रिकरे द्विकरं शुभम् ।
चतुष्करे चतुःषष्टिरङ्गुलानि प्रशस्यते ॥१२८॥
अत ऊर्ध्वं प्रतिकरं त्र्यङ्गुला वृद्धिरिष्यते ।
द्वारोदयकरैस्तुल्यान्यङ्गुलानि नियोजयेत् ॥१२९॥
षोह्याजयवान्यालर्ध ध्रुवके चतुरङ्गुले ।
विस्तारो द्विगुणस्तस्य स्तम्भपिण्डं स एव हि ॥१३०॥
एकद्वित्रिचतुष्पञ्चषट्सप्तककरावधि ।
द्वारविस्तारभागेन स्तम्भः सम्यग्विधीयते ॥१३१॥
चतुर्भागेन कर्तव्या सीमास्तम्भः प्रमाणतः ।
तथा स्तम्भस्य बाहुल्याच्चतुर्भागविर्भागविना ॥१३२॥
भागौ तत्र कर्तव्यौ हीरग्रहणमुच्छ्रितम् ।
भागत्रयेण कर्तव्यः पट्टस्य च समुच्छ्रयः ॥१३३॥
भागेनैकेन नीस्यातव्यविस्तारं भत्रिभागरच्यकिम् ।
पट्टहस्ते विधातव्यमङ्गुलद्वयनिर्गमम् ॥१३४॥
---ड---स्तारः स्तम्भतुल्यः प्रशस्यते ।
एकैकमङ्गुलं पट्टपार्श्वयोरधिकस्ततः ॥१३५॥
पट्टदस्य विस्तारः कार्यञ्चतुर्भागविभाजितः ।
भागेनैह्केन चोत्सेधस्तुलाधारणमिष्यते ॥१३६॥
तुलाधारणकोत्सेधाच्चतुर्भागविभाजितात् ।
भागमेकं परित्यज्य पिण्डस्तस्य विधीयते ॥१३७॥
मात्राहीना भवेन्मेढ्यां तावन्न्यस्येच्छलान्तले ।
द्वौ भागौ मूलभागेन जयन्तीपिण्डविस्तरौ ॥१३८॥
इति हीरग्रहादीनां समासाल्लक्ष्मकीर्तनम् ।
पञ्चांशाभ्यधिकं स्तम्भविस्तारस्थेन कुम्भिका ॥१३९॥
कुर्वीत स्तम्भतः सार्धा गर्ग कुम्भस्य विस्तृतीः ।
अथवा स्तम्भकर्णेन स्तम्भाग्रद्विगुणा क्वचित् ॥१४०॥
पादोनस्तम्भविस्तारादग्रकुम्भे समुच्छ्रितिः ।
स्तम्भविस्तारकर्णाद्वा यद्वा पिण्डोऽग्रकुम्भके ॥१४१॥
तस्य भागान् प्रवक्ष्यामो यथाकुम्भं स युज्यते ।
विभक्तोऽत्र त्रिधा पिण्डो भागेनैकेन पुत्तली ॥१४२॥
चतुर्भिस्तस्य मध्यस्य पद्मं समालिखेत् ।
उच्छाले पञ्चधा भक्ते त्रिभिरावर्तनं --- ॥१४३॥
वर्तनं योषव्येत्किञ्चिन्न च खल्वं समाचरेत् ।
वर्तने कुम्भकुम्भौ तु सूत्रं दत्त्वा सुतानितम् ॥१४४॥
पद्मानालासमा स स्यान्न भवेत्पङ्किवर्जिता ।
नवाधोच्चाहा लके भक्ते वीरगण्डस्तु भागिकः ॥१४५॥
एकेनैकेन भागेन विधेया पट्टिकट्टिका ।
ध्वसंछाकाल कर्तव्यं भागद्वितयसंमितम् ॥१४६॥
तलकुम्भकपिण्डं तु पञ्चधा प्रविभाजयेत् ।
भागेनैकेन पद्मं स्याद्भागेन कलशं लिखेत् ॥१४७॥
द्वाभ्यां समालिखेत् कुम्भं भागेनैकेन पट्टिकाम् ।
वर्तमाना चत्रा कार्या शोभा स्यादस्य यावतः ॥१४८॥
एष कुम्भक्रमः प्रोक्तः स्तम्भपादे व्यवस्थितः ।
तलपट्टस्य पिण्डस्तु भागपट्टसमो भवेत् ॥१४९॥
द्र व्येष्वत्र हि सर्वेषु सम्यक्शोभा विवक्षिता ।
न्यूनातिरिक्तमप्यस्मान्मानेष्वङ्गुलमाचरेत् ॥१५०॥
द्वारामुदयविस्तारो द्र व्यसंस्थानमेव च ।
पूर्वमेव यथोद्दिष्टं तथा सर्वमनुस्मरेत् ॥१५१॥
पिण्डेन त मूलशाखाया द्वितीया प विधीयते ।
सपायते सपादन प्रत्ययदेनाथ सार्धनरूपशाखा प्रशस्यते ॥१५२॥
अर्धेन मूलशाखाः समा चैव बाह्यशाखा शाखां प्रकल्पयेत् ।
ऊर्ध्वपञ्चमशाखाया सप्तमी नवमी च सा ॥१५३॥
रूपशा --- स्यान्न न्यूना नाधिकापि च ।
विस्तरार्धं तु कर्तव्यः सर्वासामेव निर्गमः ॥१५४॥
शाखाविस्तारविस्तीर्णात्तरङ्गानि कारयेत् ।
सार्धेन ध्रुवशाखानां पिण्डेनोदुम्बरोदयः ॥१५५॥
उदुम्बरस्य पिण्डेन सिंहवक्राणि कारयेत् ।
तदर्धं विलसन्धिः स्यात्तत्समा भूमिरङ्गिका ॥१५६॥
तलन्याससमः पट्टः पिण्डपूर्वव्यवस्थितः ।
कूटाकारैर्विचित्रैश्च शोभनै रूपकर्मभिः ॥१५७॥
पत्रजातैरनेकैश्च कण्ठं कुर्याद्यथेप्सितम् ।
पाचकः कटुतीक्ष्णाद्यैरनुसाररसैर्यथा ॥१५८॥
अन्वीक्ष्य विपचेत्तद्वत्स्थपतिः सर्वमाचरेत् ।
यदुक्तं यदनुक्तं च तत्समग्रमपि स्फुटम् ॥१५९॥
युक्तं समालोच्य यथाशोभं समाचरेत् ।
आरभ्य मेरोरिति षोडशैते प्रासादमुख्याः कथिता यथावत् ।
संक्षेपतो लक्ष्म तथा जगत्यां द्वारादिसम्बन्धि च दारुमानम् ॥१६०॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे मेर्वादिषोडशप्रासादलक्षण जगतीलक्षण द्वारादिकला नाम पञ्चपञ्चाशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP