संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| २०१ ते २५० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः - २०१ ते २५० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः - २०१ ते २५० Translation - भाषांतर उपर्युपरि भागान् हि हीनाः स्युः क्रमशोभवः ।भद्रे रथिकयोर्मध्ये सिंहकर्णो विधीयते ॥२०१॥एतस्य चोच्छ्रयो भागैः पञ्चभिः परिकीर्तितः ।पार्श्वस्थे सिंहकर्णस्थरथिके ये निवेशते ॥२०२॥तयोरुपरि षड्भागं विस्तृतं शिखरं भवेत्विधेयमुच्छ्रयेणैतत्त्रिभागान् सप्ताथवाधिकान् ॥२०३॥पक्षयोरुभयोस्तस्य रथिके तदूर्ध्वतः ।सिंहं निवेशयेद्दिक्षु निखिलास्वप्ययं विधिः ॥२०४॥मूलकर्णे ततश्चार्धं शिखरं दशविस्तृतम् ।एकादशोच्छ्रितं कार्यं क्रमवृत्त्या मनोरमम् ॥२०५॥चतुर्गुणेन सूत्रेण वेणुकोशं ततो लिखेत् ।पूर्वोक्ता सातरंभागेरमुष्या विभजेत्त्रिभिः ॥२०६॥ग्रीवार्धभागमुत्सेधादण्डकं भागमुच्छ्रितम् ।पद्मशीर्षं तथार्धेन कलशश्चांशकोदयः ॥२०७॥देवानामालयः स स्यादिन्द्र नीलोऽयमीरितः ।इन्द्र नीलः ।एतस्यैव यदोर्ध्वस्थं शिखरं क्रियतेऽन्यथा ॥२०८॥चतुर्थी रथिका चास्य दीयतेऽतिमनोरमा ।पूर्वोक्तेन विधानेन पादं वि---वर्जिता ॥२०९॥शिखरस्याष्टविस्तारो नव भागास्तथोच्छ्रयः ।इन्द्र नीलस्य सदृशं शेषमन्यद्विधीयते ॥२१०॥महानीलोऽयमाख्यातः प्रासादस्त्रिदशालयः ।महानीलः ।इन्द्र नीलस्य संस्थाने दिक्सूत्रेषु समन्ततः ॥२११॥सर्वतोभद्र शिखरं हित्वानिवेशयेत् ।विधिरेष समस्तासु ककुप्सु प्रविधीयते ॥२१२॥भद्रे षु वर्धमानस्य विन्यासं परिवर्जयेत् ।व्यासोच्छ्रितैः सिंहकर्णैर्भद्र मस्य विभूषयेत् ॥२१३॥महानीलस्य सदृशं सर्वमस्य प्रकल्पयेत् ।इन्द्र गोपनिभाकारः प्रासादो भूधरः स्मृतः ॥२१४॥सुरेश्वरस्य कर्तव्यो नान्येषां कथमप्यसौ ।भूधरः ।भूधरस्य तु संस्थाने तद्रू पे समवस्थिते ॥२१५॥भद्रे भद्रे पुनः प्राज्ञो वर्धमानं निवेशयेत् ।चतुर्भागमितव्यासं सार्धचतुःसमुच्छ्रितम् ॥२१६॥रत्नकूटः समाख्यातः प्रासादः श्रीपतेरयम् ।रत्नकूटः ।चतुरश्रीकृते क्षेत्रे विंशत्या भाजितेंऽशकैः ॥२१७॥कुर्याद्विभागविस्तारा रथिकाः पञ्च कर्णगाः ।पञ्चोपरि पुनः पञ्च दद्यादेकां तदूर्ध्वतः ॥२१८॥प्रथमा भूमिका चास्य कार्या भागत्रयोच्छ्रिता ।पादपादविहीनास्तु क्रमेणापरभूमयः ॥२१९॥भद्र कर्णान्तरस्थे द्वे रथिके ये तदूर्ध्वतः ।शिखरं दशविस्तारं कुर्यात्सार्धदशोच्छ्रितम् ॥२२०॥मूलकर्णानुसारेण शिखरं तत्र यद्भवेत् ।तस्य द्वादशविस्तारं त्रयोदशसमुच्छ्रितम् ॥२२१॥भद्रं विभूषयेत्पत्रैः सिंहकर्णैर्मनोरमैः ।पञ्चव्यासेन सूत्रेण वेत्रकोशं समालिखेत् ॥२२२॥स्कन्धकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत् ।पद्मशीर्षं तथा ग्रीवां सार्धभागेन कारयेत् ॥२२३॥कुर्याद्भागेन भागेन कुम्भं चामलसारकम् ।नवभागोच्छ्रितां जङ्घां तदर्धखरपिण्डकाम् ॥२२४॥वरण्ड्यन्तरपत्रं च कुर्याद्भागद्वयेन च ।वैदूर्योऽयं समाख्यातः प्रासादो दानवद्विषः ॥२२५॥वैडूर्यः ।एतस्यैव यदा भद्रे भद्रे स्याद्वर्धमानकः ।पद्मरागस्तथैव स्याद्कार्योऽयं पद्मरागतः ॥२२६॥पद्मरागः ।पद्मरागस्य भद्रे षु वर्धमानं विवर्जयेत् ।भद्र स्य पार्श्वद्वितये प्रदद्याद्र थिकाद्वयम् ॥२२७॥व्यासोच्छ्रायैश्च भद्रा णि सिंहकर्णैर्विभूषयेत् ।यदन्यदस्य तत्सर्वं पद्मरागसमं भवेत् ॥२२८॥वज्रकोऽयं समाखातो विधेयस्त्रिपुरद्विषः ।वज्रकः ।वज्रकस्यैव भद्रे षु पूर्ववद्र थिकास्थितौ ॥२२९॥षड्भागविस्तृतं तत्र शिखरं विनिवेशयेत् ।सप्तभागसमुत्सेधं दिक्षु सर्वास्वयं विधिः ॥२३०॥मुकुटोज्ज्वल इत्युक्तः प्रासादोऽयं सुरालयः ।मुकुटोज्ज्वलः ।अस्यैव तु यदा स्थाने भद्रे भद्रे चतुर्दिशम् ॥२३१॥सिंहकर्णं परित्यज्य वर्धमानो विधीयते ।ऊर्ध्वाभवतृतीयायाः सप्तोच्छ्रायषडायताः ॥२३२॥ऐरावतोऽयं कर्तव्यः प्रासादस्त्रिदशेसतिः ।ऐरावतः ।ऐरावतस्य संस्थाने प्रासादे पूर्ववत्स्थिते ॥२३३॥वर्धमानं विहायोर्ध्वे यदा सिंहो निवेश्यते ।शिखराणि च चत्वारि दिक्षु सर्वासु वर्जयेत् ॥२३४॥क्षेत्रायार्विस्तारं गर्भवेश्म निवेशयेत् ।चतुर्भागायतं भद्रं निर्गमेण विभाजितम् ॥२३५॥भद्र त्रयं प्रयुञ्जीत भित्तिभागेन वेष्टितम् ।द्वारोच्छ्रयं सविस्ताराद्वरार्धेन समुच्छ्रयः ॥२३६॥गवाक्षास्तत्र कर्तव्यो यथा द्वारं लङ्घ्यते ।मध्ये चतुष्किका कार्या द्विभागायामविस्तृता ॥२३७॥प्रासादो राजसंसोऽयं ब्रह्मादीनां प्रशस्यते ।राजहंसः ।राजहंसस्य संस्थाने तृतीये रथिकोपरि ॥२३८॥यदारशिखरं सप्तसमुच्छ्रायं षडायतम् ।स्यात्तदा गरुडो नाम गरुडध्वजवल्लभः ॥२३९॥प्रासादः सर्व --- कारयितुस्तथा ।गरुडः ।अस्यैव मूलशिखरं त्यक्त्वा भागद्वयोन्मितम् ॥२४०॥क्रियन्ते रथिकाः पूर्णे तदूर्ध्वं मूलमञ्जरी ।क्रियते द्वादशोच्छ्राये दशभागायता यदा ॥२४१॥तदा स्याद्वृषभौ नाम वृषभध्वजवल्लभः ।वृषभः ।सतार्धहस्तविस्तारं ज्येष्ठं मेरुं प्रकल्पयेत् ॥२४२॥मध्यमे हस्तसंख्या स्यात् षट्द्विकालाधिकः ।दशत्रिगुतिआ! संख्या प्रोक्ता कनीयसि ॥२४३॥चतुरश्रीकृते क्षेत्रे भागविंशति भाजिते ।विस्तारार्धं भवेद्गर्भंगृहं भित्त्या समन्वितम् ॥२४४॥भागप्रमितविस्तारा गर्भभित्तिर्विधीयते ।सार्धद्विभागान्या भित्तिस्तद्वदेवान्धकारिका ॥२४५॥द्विभागा रथिका कार्या कर्णे कर्णे विजानता ।चतुर्भागा रथा भद्रे ष्वेतदर्धेन निर्गता ॥२४६॥भद्र कर्णान्तयोः कार्या यदाष्टांशजलान्तरम् ।भद्रा णां रथिकाः कार्याः पार्श्वयोरुभयोस्तथा ॥२४७॥रथिकानां च सर्वासां स्वभद्रं विस्तरार्धतः ।शृङ्गं भद्रं यथैवैकं तथा सर्वाणि कारयेत् ॥२४८॥दिक्सूत्रेषु सर्वेषु वर्धमानं निवेशयेत् ।अष्टभागोच्छ्रिता जङ्घा खुरपिण्डं तदर्धतः ॥२४९॥ये खलान्तरपत्रे च स्यातां भागद्वयोद्गते ।प्रथमा रथिकास्तत्र त्रयोच्छ्रिताः ॥२५०॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP