वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः
समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।
वेद्यश्चतस्रो विज्ञेया या पुरा ब्रह्मणोदिताः ।
वयं ताः संप्रवक्ष्यामो नामसंस्थानमानतः ॥१॥
प्रथमा चतुरश्रा स्यात्सभद्रा च द्वितीयका ।
तृतीया श्रीधरी नाम चतुर्थी पद्मिनी स्मृता ॥२॥
यज्ञकाले तथोद्वाहे देवतास्थापनेषु च ।
नीराजनेषु सर्वेषु वह्निहोमे च नित्यशः ॥३॥
नृपाभिषेचने चैव शक्रध्वजनिवेशने ।
नृपयोग्या भवन्त्येता वर्णानामनुपूर्वशः ॥४॥
चतुरश्रा तु या वेदि नवहस्ता समन्ततः ।
अष्टहस्ता प्रमाणेन सर्वभद्रा प्रकीर्तिता ॥५॥
श्रीधरी सप्त विज्ञेया हस्तान् मानेन वेदिका ।
षड्ढस्ता चैव शास्त्रज्ञैर्नलिनीह विधीयते ॥६॥
चतुरश्रा तु कर्तव्या चतुरश्रा समन्ततः ।
भद्रै स्तु सर्वतोभद्रा भूषणीया चतुर्दिशम् ॥७॥
श्रीधरी चापि विज्ञेया कोणविंशतिसंयुता ।
नलिनीति च विज्ञेया पद्मसंस्थानधारिणी ॥८॥
कर्तव्याः स्वस्वविस्तारादुच्छ्रयेण त्रिभागिकाः ।
कुर्यान्मन्त्रवतीभिस्ता इष्टकाभिस्तु चायताः ॥९॥
चतुरश्रा यज्ञकाले विवाहे श्रीधरी स्मृता ।
देवतास्थापने वेदीं सर्वभद्रां निवेशयेत् ॥१०॥
नीराजने साग्निकार्ये तथा राजाभिषेचने ।
वेदी पद्मावती या च तथा शक्रध्वजोच्छ्रये ॥११॥
चतुर्मुखा तु कर्तव्या सोपानैश्च चतुर्दिशम् ।
प्रतीहारसमायुक्ता चार्धचन्द्रो पशोभिता ॥१२॥
चतुःस्तम्भसमायुक्ता चतुष्कुम्भविराजिता ।
काञ्चनै राजतैस्ताम्रैर्मृन्मयैः कलशैस्तथा ॥१३॥
कोणे कोणे तु विन्यस्तैर्वल्गुवानरभूषितैः ।
स्तम्भप्रमाणं वेदीनां कार्यं छाद्यवशेन च ॥१४॥
एकेन द्वित्रिभिर्वापि च्छाद्यैः सामलसारिकैः ।
स्तम्भमूलानि चाभ्यज्य गुडेन मधुसर्पिषा ॥१५॥
परमान्नेन वाभ्यज्य तान्विन्यस्येद्यथातथम् ।
देवताः पूजयित्वा तु ब्राह्मणान्स्वस्ति वाचयेत् ॥१६॥
चतुर्विधमितीरितं यदिह वेदिकालक्षणं ।
समग्रमपि वर्तते मनसि यस्य तच्छिल्पिनः ।
स याति भुवि पूज्यतामवनिभोक्तुराप्नोति च ।
श्रियं स्थपतिसंसदि स्फुरति चास्य शुभ्रं यशः ॥१७॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः ।
N/A
References : N/A
Last Updated : November 26, 2017
TOP