संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| ५१ ते १०० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः - ५१ ते १०० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः - ५१ ते १०० Translation - भाषांतर भागार्धं द्वारविस्तारः प्रासादस्योच्छ्रितिं पुनः ।कुर्वीत चतुरो भागाञ्छादयेच्चित्रकूटवत् ॥५१॥कार्या द्विभागिकाः शालाः सालिन्दास्तस्य बाह्यतः ।बहिर्भित्तिपरिक्षिप्ताश्चतुर्भागायताः शुभाः ॥५२॥द्वौ द्वौ गवाक्षकौ स्तम्भाः प्रतिशालं भवन्ति षट् ।चतुःस्तम्भधृतैर्युक्ताः कार्या वा धार्मिकालयैः ॥५३॥नन्द्यावर्तोऽयमेवं स्यात्सप्राग्रीवचतुष्टयः ।प्रागु द्वारक्षणोपेतः प्रासादः शुभलक्षणः ॥५४॥नन्द्यावर्तः ।क्षेत्रषड्भागविस्तारे दशभागकृतायतौ ।मध्यादपरभागेऽस्य देवकोष्ठं निवेशयेत् ॥५५॥चतुरंशप्रतिन्यासं चतुरश्रं समन्ततः ।द्वारं तस्य विधातव्यं भागमध्यर्धमुच्छ्रितम् ॥५६॥पादोनं भागविस्तारं सिंहवक्त्रविभूषितम् ।सीमा तस्याग्रतः कार्या देवकोष्ठेन सम्मिता ॥५७॥स्तम्भैः षोडशभिर्युक्ता भागद्वितयमुच्छ्रितैः ।ससीम्नो देवकोष्ठस्य समन्ताद्भित्तिवेष्टितः ॥५८॥अलिन्दो भागिकः कार्यो गवाक्षैरुपशोभितः ।सीम्नोश्चाग्रतः पार्श्वे षड्दारुकयुता बहिः ॥५९॥कार्या द्विरंशाः प्राग्रीवा भागिकालिन्दवेष्टिताः ।द्विद्विस्तम्भधृताः सर्वे पार्श्वतश्चयशोभिताः ॥६०॥अलिन्दास्तु चतुःस्तम्भाः कार्याः प्राग्रीवकाग्रतः ।अवतंसक इत्येष सर्वलक्षणसंयुतः ॥६१॥प्रासादः कथितः सम्यक् ।अवतंसः ।स्वस्तिकः प्रोच्यतेऽधुना ।चतुरश्रीकृते क्षेत्रे षड्भागप्रविभाजिते ॥६२॥प्रासादं कल्पयेन्मध्ये द्विभागायामविस्तृतम् ।द्वारपाशोऽस्य भागार्धविस्तृतो भागिकोदयः ॥६३॥गर्भवेश्म चतुःस्तम्भमलिन्दो भागिदो बहिः ।तस्य स्युर्द्वादश स्तम्भा भागिकोऽलिन्दकोऽपरः ॥६४॥विंशतिस्तम्भसंयुक्तो विधातव्यः समन्ततः ।चयावृतश्च पुरतो भागो वाष्टधरान्वितः ॥६५॥भागमेकैकमुत्सृज्य कर्णाभ्यां भागविस्तृतौ ।भागिकोच्छ्रायनिष्कासौ त्रिदिशं सगवाक्षकौ ।स्वस्तिकोऽयं समाख्यातः प्रासादश्चित्रलक्षणः ॥६७॥स्वस्तिकः ।अथाभिधीयतेऽधुना प्रासादः शुभलक्षणः ।षड्भागभाजिते क्षेत्रे चतुरश्रे समन्ततः ॥६८॥द्विभागायामविस्तारं मध्ये गर्भगृहं भवेत् ।भागद्वयोच्छ्रितैः स्तम्भैर्युतं व्यक्तैः सलक्षणैः ॥६९॥निष्क्रान्तेषु बहिर्भागे गर्भपादेषु योजयेत् ।तोरणानि मनोज्ञानि ककुप्सु चतसृष्वपि ॥७०॥गर्भस्तम्भप्रमाणेन तानि स्तम्भद्वयेन वा ।समुत्क्षप्तानि युक्तानि कलशै रविमण्डलैः ॥७१॥पल्लवैः पत्रजात्यादिविन्यासैश्चाप्यनेकशः ।भूषितास्ये पुनर्मूर्ध्नि मकराणां मुखैरपि ॥७२॥स्तम्भयोरन्तरे दद्यादुभौ मकरपूरिमौ ।अन्योन्याभिमुखे श्लिष्टे कुर्यान्मकरयोर्मुखे ॥७३॥चतुर्णामपि निरिद्ष्टस्तोरणानां मया विधिः ।अलिन्दो भागिकश्चा न्यो बहिर्भागे प्रकीर्तितः ॥७४॥स्युर्भागिकान्यलिन्दान्ते धार्मिकायतनानि च ।वेष्टितानि बहिर्भित्त्या सम्मुखानि परस्परम् ॥७५॥धार्मिकालयभित्तीनां भूमिर्या बाह्यतो भवेत् ।तस्याः षड्दारुकाणि स्युर्भागमात्रोच्छ्रितानि च ॥७६॥प्राग्रीवकैः ससोपानैर्दिक्चक्रैस्तानि भूषयेत् ।अपरस्याः पुनर्भित्तेर्भागद्वयविनिस्सृतम् ॥७७॥मध्ये द्विभागविस्तीर्णं देवकोष्ठं निवेशयेत् ।द्वारपाशं च कुर्वीत तस्योकुं भागमुच्छ्रितम् ॥७८॥तथा भागार्धविस्तारमित्येष क्षितिभूषणः ।प्रासादः कीर्तितः सम्यक् सर्वलक्षणलक्षितः ॥७९॥क्षेत्रस्य चतुरश्रस्य भागान् द्वादश कल्पयेत् ।मध्ये गर्भं चतुःस्तम्भं तस्य कुर्याद् द्विभागिकम् ॥८०॥तद्बहिर्भागिकोऽलिन्दो द्वादशस्तम्भवान् भवेत् ।मध्येऽपरस्यां यौ स्तम्भौ ताभ्यां कुर्वीत तोरणम् ॥८१॥अलिन्दो भागिकः कार्यो भित्त्या भागिकया वृतः ।प्राच्यां षड्दारुकं मध्ये गर्भव्यासोन्मितायति ॥८२॥तृतीयो भागिकोऽलिन्दः स्याद्भित्त्या परिवेष्टितः ।चतुर्भागायतं भूयस्तत्र षड्दारुकं भवेत् ॥८३॥प्राग्रीवं भागविष्कम्भं कुर्याद्भागद्वयायतम् ।अग्रतः स्तोभितं स्तम्भैर्भागान्तस्थचयावृतम् ॥८४॥यथा प्राच्यां तथोदीच्यां याम्यायामपि कीर्तितम् ।दिशि प्रतीच्यां तु पुनर्द्वितीयालिन्दकाद्बहिः ॥८५॥द्विभागायामविष्कम्भं देवकोष्ठं निवेशयेत् ।सपक्षद्वारकं श्रीमद् द्वारपाशोपशोभितम् ॥८६॥भागिकोऽलिन्दकस्तस्माद् बहिर्भित्त्याभिवेष्टितः ।बहिश्चयावृतो वा स्याद् गवाक्षैर्वा विभूषितः ॥८७॥पृथ्वी विजयते यस्मात्तेनासौ पृथिवीजयः ।भूजयः ।यदा पृथ्वीजयस्यैव कर्णप्राग्रीवकावुभौ ॥८८॥कोणेषु भागिकौ स्यातां विज्ञेयो विजयस्तदा ।विजयः ।अयं समन्तादुत्क्षिप्तो बाह्यालिन्दं विना यदा ॥८९॥मध्यमालिन्दसौधस्थं कर्णप्रासादकैश्चितः ।प्रथमालिन्दगर्भौ च समुत्क्षिप्ततरौ ततः ॥९०॥स्यातां छाद्यद्वयच्छन्नौ तदा नन्दोऽभिधीयते ।नन्दः ।चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥९१॥चतुरश्रो भवेन्मध्ये देवकोष्ठो द्विभागिकः ।द्वारबन्धोऽस्य भागोच्चः कार्यो भागार्धविस्तृतः ॥९२॥स्याद् बहिर्द्वादशधरोऽलिन्दको देवकोष्ठतः ।भागिकः स च विज्ञेयो भित्तियुक्तस्ततोऽपरः ॥९३॥अयं द्विभागिकैर्युक्तः प्राग्रीवैर्भागनिर्गमैः ।तथा तृतीयोऽलिन्दः स्यात्समन्ताद्भित्तिवेष्टितः ॥९४॥प्राग्रीवकैश्चतुःस्तम्भैः सप्रवेशैर्विभूषितः ।भागिकी स्याद्बहिर्भित्तिरितरा तु धरैः समा ॥९५॥इत्येष श्रीतरुर्नाम प्रासादः परिकीर्तितः ।श्रीतरुः ।अस्यैव स्तम्भगर्भस्य द्वितीयालिन्दभित्तिषु ॥९६॥षड्दारूणि विधेयानि पूर्वरूपव्यवस्थितेः ।द्वौ द्वौ प्राग्रीवकौ कार्यौ तृतीयालिन्दकाद्बहिः ॥९७॥तौ च द्विन्तरितौ सर्वतो भागनिर्गतौ ।एवं पञ्चांशता स्तम्भैर्द्वाभ्यां च परिवेष्टितः ॥९८॥चतुःस्तम्भैः सप्रवेशैः समन्तादुपनिर्गमैः ।प्रासादोऽयं समाख्यातो नामतः प्रमदाप्रियः ॥९९॥प्रमदाप्रियः ।भागविस्तारविष्कम्भमस्य प्राग्रीवकं यदा ।भिन्नालिन्दाग्रतस्तिर्यग्द्वे शाले तन्मुखं शुभम् ॥१००॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP