संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते १२०

दिग्भद्रा दिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः - ५१ ते १२०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


सपादैः पञ्चभिर्भागैर्द्वितीया तद्वदेव हि ।
तृतीया तु भवत्यस्य भूमिका पञ्चभागिका ॥५१॥
चतुर्थी भूमिका ज्ञेया सार्धभागचतुष्टया ।
घण्टा तस्योर्ध्वतः कार्या पदत्रयसमुच्छ्रिता ॥५२॥
शुकाघ्रा शूरसेनश्च स्तम्भिकाकूटभक्तयः ।
कलशस्योदयस्तस्य विधेयाश्चास्य पूर्ववत् ॥५३॥
अमुं यः कारयेदन्यः प्रासादं नन्दिवर्धनम् ।
स नन्दिगणसामान्यो जायते नात्र संशयः ॥५४॥
अतः परमथ ब्रूमो विमानं शुभलक्षणम् ।
चतुरश्रीकृते क्षेत्रे विंशत्या भाजिते पदैः ॥५५॥
कोणाः पञ्चपदाः कार्या मध्ये च सलिलान्तरम् ।
कर्णिका सार्धभागेन भागार्धमुदकान्तरम् ॥५६॥
सालोपद्यदविस्तीर्णा सार्धभागेन निर्गता ।
कोणस्य चार्धभागेन कर्णिकानिर्गमः स्मृतः ॥५७॥
गर्भश्चास्य विधातव्यो द्वादशांशकविस्तृतः ।
भित्तिश्चतुष्पदा कार्या दिक्षु सर्वास्ववस्थिता ॥५८॥
ऊर्ध्वमानमथैतस्य ब्रूमस्तद् द्विगुणं भवेत् ।
वेदीबन्धॐऽशकाः पञ्च जङ्घा नवपदोच्छ्रिता ॥५९॥
प्रथमा भूमिका कार्या भागैः षड्भिः समुच्छ्रिता ।
शतपत्रां कपोतालीं मध्ये चास्याः प्रकल्पयेत् ॥६०॥
द्वितीया भूमिका चास्य विधेया पञ्चभिः पदैः ।
अर्धेऽस्याः स्तम्भकोच्छालं कूटं चार्धव्यवस्थितम् ॥६१॥
परस्परपाधेन हमास्तिस्त्रोऽन्यभूमिकाः ।
स्तम्भिकाकूटभरणशूरसेनाः सघण्टकाः ॥६२॥
कलशस्योदयश्चात्र प्राग्वत्कार्या विपश्चिता ।
य इमं कारयेद्भक्त्या विमानाख्यं नृपुङ्गवः ॥६३॥
इह भोगान् स लभते तथा सत्कायदंविधे ।
अथ पद्माप्रियप्रीतिजननः पद्म उच्यते ॥६४॥
चतुरश्रीकृते क्षेत्रे भक्ते षोडशभिः पदैः ।
कोणाश्चतुष्पदाः कार्याः सलिलान्तरभूषिताः ॥६५॥
द्विपदः पञ्जरो ज्ञेयो गर्भे कोणाश्चतुष्पदाः ।
भागःस्यात् षोडशांशेन तदन्ते सलिलान्तरम् ॥६६॥
गर्भः स्यान्नवभिर्भागैर्भित्तिः सार्धपदत्रयम् ।
ऊर्ध्वमानमथ ब्रूमस्तथास्य द्विगुणं भवेत् ॥६७॥
द्वितीया भूमिका ज्ञेया भागैः पञ्चभिरुच्छ्रिता ।
अन्योन्यं तु पदार्धेन हीनं स्याद्भूमिकाद्वयम् ॥६८॥
स्तम्भिकाकूटभरणशुकाघ्राशूरसेनकाः ।
घण्टा कारसविस्तारा भवन्त्येतस्य पूर्ववत् ॥६९॥
पद्मप्रासादमेनं यः कारयेद्भक्तिसंयुतः ।
स श्रीपतिरिव श्रीशो भवत्यवनिमण्डनः ॥७०॥
महाभद्र मथ ब्रूमः प्रासादमतिसुन्दरम् ।
चतुरश्रीकृते क्षेत्रे विंशत्या सैकयाङ्किते ॥७१॥
कोणाश्चतुष्पदाः सार्धद्व्यंशाः प्रत्यङ्गकाः स्मृताः ।
शाला पञ्चपदा कार्या दिक्षु सर्वास्ववस्थिता ॥७२॥
पादोनभागविस्तारं कर्तव्यं सलिलान्तरम् ।
गर्भस्त्रयोदशपदो भित्तयश्च चतुष्पदाः ॥७३॥
ऊर्ध्वमानमथैतस्य ब्रूमस्तद्द्विगुणं भवेत्
वेदी चतुष्पदोत्सेधा जङ्घा स्यादष्टभागिका ॥७४॥
सप्तभागसमुत्सेधा विधेया चादिभूमिका ।
मध्ये सान्तरपत्रास्याः कपोताली पदत्रयम् ॥७५॥
द्वितीयभूमिका चास्य सार्धैः षड्भिः पदैः स्मृता ।
भागभागविहीनास्तु तिस्रोऽन्या भूमिकास्ततः ॥७६॥
घण्टा भागत्रयोत्सेधा पद्मपत्रिकया सह ।
स्तम्भिकाकूटभरणशुकाघ्राशूरसेनकाः ॥७७॥
कलशः कुम्भं नघाः प्राग्वत्तस्य भवन्त्यमी ।
महाभद्र मिमं योऽत्र कारयेद्भक्तिमान् नरः ॥७८॥
स स्वर्गे सुरनारीभिः सेव्यते मदनाज्ञया ।
अथ श्रीवर्धमानस्य लक्ष्म साम्प्रतमुच्यते ॥७९॥
चतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते ।
कोणाः षड्भागिकाः कार्याः शालाः स्युर्नवभागिकाः ॥८०
साधं पदद्वयं कार्यः शालानामत्र निर्गमः ।
कुर्याज्जलान्तरं तत्र मध्यतः कोणशालयोः ॥८१॥
विस्तृतं साधभागेन प्रविष्टमपि भागतः ।
कोणे मध्यं विधातव्यं भागेनैवोदकान्तरम् ॥८२॥
नवांशकॢप्तशालायाः प्रत्यङ्गौ द्वावुदाहृतौ ।
भागद्वितयविस्तारौ भागेनैकेन निर्गतौ ॥८३॥
चतुर्दशपदो गर्भो भित्तिः पञ्चपदा स्मृता ।
ऊर्ध्वमानमथ ब्रूमस्तदस्य द्विगुणं भवेत् ॥८४॥
वेदिका षट्पदोत्सेधा जङ्घैकादशभिः पदैः ।
प्रथमा भूमिका चास्य कार्या सप्तांशकोच्छ्रिता ॥८५॥
पादोनैः सप्तभिर्भागैर्द्वितीया भूमिकेष्यते ।
तृतीया भूमिका षड्भिः सपादैर्जायते पदैः ॥८६॥
पादेन षटका भागेन चतुर्थी भूमिका स्मृता ।
भागं भागं विधातव्यः प्रवेशः प्रतिभूमिकम् ॥८७॥
सपादैः पञ्चभिर्भागैः कार्यौ घण्टासमुच्छ्रयः ।
भागत्रयसमुत्सेधस्तदूर्ध्वे कलशो भवेत् ॥८८॥
सुकाघ्रासूरसेनश्च स्तम्भिकाकूटभक्तयः ।
कार्या पूर्वोक्तमार्गेण विचित्रकर्मोपशोभिताः ॥८९॥
श्रीवर्द्धमानं य इमं प्रासादं कारयेन्नृपः ।
यशः श्रीश्रेयसांगस्य वृद्धि स्यादुत्तरोत्तरा ॥९०॥
पद्मयोनिपृथः सद्मद्मथ कीर्त्त्यते ।
चतुरस्रीकृते क्षेत्रे विंशत्येकोनयान्तिके ॥९१॥
कोणाश्चतुष्पदाः कार्या प्रत्यङ्गा अपि तत्समाः ।
रिवर्त्तनकर्त्तव्या परस्परसमी शुभाः ॥९२॥
शाला नवांशविस्तीर्णा स्यात्पदत्रयनिर्गमा ।
शालालस्ताश्च कर्त्तव्या द्विभागा बालमञ्जरी ॥९३॥
कर्णप्रत्यङ्गयोर्मध्ये बालप्रत्यङ्गयोस्तथा ।
जलान्तराणि कार्याणि तत्प्रमाणस्य मध्यतः ॥९४॥
गर्भः सप्तदशांसः स्याद्भित्तयः षड्भिरंशकैः ।
ऊर्ध्वमानमथैतस्य ब्रूमस्तद्द्विगुणं भवेत् ॥९५॥
वेदी षड्भागिकोत्सेधा जङ्घाभागास्त्रयोदश ।
सप्तभागसमुत्सेधा कर्त्तव्या चादिभूमिका ॥९६॥
षड्भिः सार्धैः द्वितीया स्याद्भागभागोज्झिते परे ।
पञ्चमी स्याच्चतुर्भागा भागार्द्धेन परेत्पृथक् ॥९७॥
प्रवेशः कूटदर्भेण भूमीनां स्यात्परस्परम् ।
भूमिकार्द्धं विधातव्यं स्तम्भिकाभरणान्वितम् ॥९८॥
अपरं कूटशोभातिरर्द्धमस्याविभूषयेत् ।
घण्टापञ्चपदोत्सेधा विस्तृता गर्भमानसः ॥९९॥
सुकाघ्राय परं यत्तु पूर्ववत्तत्प्रकल्पयेत् ।
महापद्माभिधयोत्र प्रासादं कारयेत्सुधीः ॥१००॥
इहामुत्र च निर्द्वद्वः स परं सुखमश्नुते ।
लक्ष्याथ पञ्चशाला प्रासादस्याभिधीयते ॥१०१॥
चतुरस्रीकृते क्षेत्रे अष्टाविंशतिपदान्तिके ।
तस्यार्जनफलाः काराः कोणा पञ्चपदाः स्मृताः ॥१०२॥
प्रत्यङ्गास्त्रिपदाः कार्या भागद्वितयनिर्गता ।
शालाष्टपदविस्तारा पदत्रितयनिर्गमा ॥१०३॥
कोणप्रत्यङ्गयोर्मध्ये शालाप्रत्यङ्गयोस्तथा ।
भागेन विस्तृतं कार्यं प्रविष्टं च जलान्तरम् ॥१०४॥
गर्भः षोडशभिर्भागैः भित्तयोऽपि च षट्पदाः ।
ऊर्द्ध्वमानमथैतस्य ब्रूमस्तद्द्विगुणं भवेत् ॥१०५॥
विधेयो वेदिकाबन्धः सार्धपञ्चपदोच्छ्रयम् ।
जङ्घा चास्य भवेत्कार्या तत्रैकादशभागिका ॥१०६॥
सार्द्धसप्तपदोत्सेधा विधातव्या च भूमिका ।
कपोतपाली कार्यास्य मध्ये भागत्रयोच्छ्रिता ॥१०७॥
अयं भूमिप्रमाणेन स्याद्वितीयाऽपि भूमिका ।
तृतीया सप्तभिर्भागैश्चतुर्थी सार्थषट्पदा ॥१०८॥
पञ्चऋमी षट्पदा कार्या घण्टा पञ्चपदोच्छ्रिता ।
शालास्थानेषु सर्वेषु कर्त्तव्यं पञ्चघण्टाकम् ॥१०९॥
कुमारैः पञ्चभिर्युक्तं पञ्चशालोयमुच्यते ।
शुकाघ्रासूरसेनादि यच्चान्यत् कलशादिकम् ॥११०॥
तदस्य पूर्ववत्कार्य पञ्चशालस्य धीमता ।
पञ्चशालमिमं यस्तु प्रासादं कारयेद्भुवि ॥१११॥
तस्य धन्यस्य सन्तानेऽप्यतुला जायते सुखं ।
अथातः संप्रवक्ष्यामः प्रासादं पृथिवीजयम् ॥११२॥
चतुस्त्रीकृते क्षेत्रेऽष्टाविंशतिपदाङ्किते ।
--- पदाः स्मृताः ।
भागद्वितयविस्ताराः कर्तव्या बालपञ्जराः ॥११३॥
शाला षड्भागविस्तीर्णा भागत्रितयमुच्छ्रिता ।
कोणप्रत्यङ्गयोर्मध्ये शालाप्रत्यङ्गयोस्तथा ॥११४॥
कक्षान्तरे विधातव्यं भागिकं सलिलान्तरम् ।
गर्भः स्याद्दशभिर्भागैर्भित्तिः कार्यास्य षट्पदा ॥११५॥
षट्पदा स्यात्तृतीयात्र --- भागोच्छ्रिताः पराः ।
कर्ण --- स्तिस्रो घण्टा चाष्टपदोच्छ्रिताः ॥११६॥
कूटैरलङ्कृता कार्या शुकाघ्रादि च पूर्ववत् ।
स --- पि चैतेषां प्रासादार्धेन कारयेत् ॥११७॥
घण्टां तु संहतां श्लक्ष्णां बन्धनैरुपशोभिताम् ।
यादृशी कम --- ने कूटेष्वेषां विधीयते ॥११८॥
भद्रे षु तादृशी कार्या कृत्स्नप्रासादसिद्धये ।
य इमं कारयेद्रा जा प्रासादं पृथिवीजयम् ।
भुनक्ति निखिलां पृथ्वीं स सप्ताम्भोधिमालिनीम् ॥११९॥
इतीरिता द्वादश स्यगर्ते ।
प्रासादमुख्याः शुभलक्ष्मयुक्ताः ।
वावाटसंज्ञास्तदमून् विदित्वा ।
लभेत्पूज्यस्थयते नृपेभ्यः ॥१२०॥

इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे वटोकप्रासादो नाम चतुःषष्टितमोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP