पीठमानं नाम चत्वारिंशोऽध्यायः
समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।
देवानां मनुजानां च पीठमानमथोच्यते ।
पीठं कनीयो भागं च सार्धभागं तु मध्यमम् ॥१॥
द्विभागमुत्तमं तत् स्याडेषा पीठसमुच्छ्रितिः ।
महेश्वरस्य विष्णोश्च ब्रह्मणश्चोत्तमं भवेत् ॥२॥
इतरेषां च देवानां कर्तव्यं तन्न धीमता ।
ईश्वरस्य यथाकामं पीठं कार्यं विचक्षणैः ॥३॥
यस्मिन्स्थाने विधातव्यो ब्रह्मा विष्णुस्तथैव च ।
ईश्वरः सर्वतः कार्यो न दोषस्तत्र विद्यते ॥४॥
इतरेषां तु देवानां पीठं भागं समुच्छ्रितम् ।
यस्य येन विभागेन वास्तुमानं विधीयते ॥५॥
तस्य तेनैव भागेन पीठोच्छ्रायो विधीयते ।
मनुजानां च पीठानि वेश्मनां देवपीठकैः ॥६॥
तुल्यानि कुर्यादुपरि कृता वृद्धिकराः सुराः ।
पुरमध्ये तु कर्तव्यं ब्रह्मणो गृहमुत्तमम् ॥७॥
चतुर्मुखं च तत्कार्यं यथा पश्यति तत्पुरम् ।
अधिकं सर्ववेश्मभ्यस्तथा राजगृहादपि ॥८॥
राजवेश्माधिकमपि शस्यतेऽन्यसुरालयात् ।
पञ्चमो लोकपालनां राजा श्रेष्ठतमो यतः ॥९॥
एवमेतानि देवानां पीठान्युक्तान्यशेषतः ।
चातुर्वर्ण्यस्य पीठानि ब्रूमो विप्राद्यनुक्रमात् ॥१०॥
षट्त्रिंशदङ्गुलोत्सेधं पीठं विप्रस्य शस्यते ।
इतरेषां तु वर्णानां ह्रस्वं स्याच्चतुरङ्गुलम् ॥११॥
चातुर्वर्ण्यस्य पीठानि भुङ्क्ते विप्रो गृहाणि च ।
त्रयाणां क्षत्रियो वैश्यो द्वयोः शूद्रः क्रमात्स्वकम् ॥१२॥
एवं विभागं पीठानां स्थपतिः परिकल्पयेत् ।
हितं कारयितुर्वाञ्छन् नृपतेश्च समृद्धये ॥१३॥
प्रमाणे स्थापिता देवाः पूजार्हाश्च भवन्ति हि ।
प्रमाणं पीठानामिदमभिहितं ब्रह्ममुरजि- ।
त्पुरारीणामत्रापरदिविषदां यच्च नियतम् ।
ततो विप्रादीनामपि निगदितं यत्तदखिलं ।
यथौचित्यायोज्यं श्रियमभिलषद्भिः स्थपतिभिः ॥१४॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे पीठमानं नाम चत्वारिंशोऽध्यायः ।
N/A
References : N/A
Last Updated : November 26, 2017
TOP