संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| ५१ ते १०० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ यन्त्रविधानं नामैकत्रिंशोऽध्यायः - ५१ ते १०० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार Templयन्त्रविधानं नामैकत्रिंशोऽध्यायः - ५१ ते १०० Translation - भाषांतर न विस्तरान्न सङ्क्षेपात्साम्प्रतं संप्रचक्ष्महे ।कस्यचित्सा क्रिया साध्या कालः कस्यापि कस्यचित् ॥५१॥शब्दः कस्यापि चोच्छ्रायो रूपस्पर्शौ च कस्यचित् ।क्रियास्तु कार्यस्य वशादनन्ताः परिकीर्तिताः ॥५२॥तीर्यंगूर्ध्वमधः पृष्ठे पुरतः पार्श्वयोरपि ।गमनं सरणं पात इति भेदाः क्रियोद्भवाः ॥५३॥कालो मुहूर्तकाष्ठाद्यैर्भिन्नो भेदैरनेकधा ।शब्दो विचित्रः सुखदो रतिकृद्भीषणस्तथा ॥५४॥उच्छ्रायस्तु जलस्य स्यात्क्वचिद्भूजेऽपि शस्यते ।गीतं नृत्यं च वाद्यं च पटहो वंश एव च ॥५५॥वीणा च कांस्यतालश्च तृमिला करटापि च ।यत्किञ्चिदन्यदप्यत्र वादित्रादि विभाव्यते ॥५६॥समस्तमपि तद्यन्त्राज्जायते कल्प्लनावशात् ।नृत्ये तु नाटकं चोक्षस्ताण्डवं लास्यमेव च ॥५७॥राजमार्गश्च देशी च यन्त्रात् सर्वं प्रसिध्यति ।तथा जात्यनुगाश्चेष्टा विरुद्धा यास्तु जातितः ॥५८॥ताः सर्वा अपि सिध्यन्ति सम्यग्यन्त्रस्य साधनात् ।भूचराणां गतिर्व्योम्नि भूमौ व्योमचरागमः ॥५९॥चेष्टितान्यपि मर्त्यानां तथा भूमिस्पृशामिव ।जायन्ते यन्त्रनिर्माणाद्विविधानीप्सितानि च ॥६०॥यथासुरा जिता देवैर्यथा निर्मथितोऽम्बुधिः ।हिरण्यकशिपुर्दैत्यो नृसिंहेन हतो यथा ॥६१॥धावनं हस्तियुद्धं च गजानामगडोऽपि च ।नानाप्रकार या चेष्टा नानाधारागृहाणि च ॥६२॥दोलाकेल्यो विचित्राश्च तथा रतिगृहाणि च ।चित्रा सेन च कुट्यश्च स्वयंवाहकसेवकाः ॥६३॥सभाश्च विविधाकाराः सत्या मायाः प्रकल्पिताः ।एवंप्रायाणि चान्यानि यन्त्रात्सिध्यन्ति कल्पनात् ॥६४॥विधाय भूमिकाः पञ्च शय्या त्वादिभुवि स्थिता ।प्रतिप्रहरमन्यासु सर्पन्ती याति पञ्चमीम् ॥६५॥एवंप्रायाणि चित्राणि सम्यक् सिध्यन्ति यन्त्रतः ।क्रमेण त्रिशतावर्तं स्थाले दन्ता भ्रमन्त्यसौ ॥६६॥तन्मध्ये पुत्रिका कॢप्ता प्रति नाडिं प्रबोधयेत् ।वह्नेश्च दर्शनं तोये वह्निमध्याज्जलोद्गतिः ॥६७॥अवस्तुतोऽपि वस्तुत्वं वस्तुतोऽपि तथान्यथा ।निःश्वासेन वियद् याति श्वासेनायाति मेदिनीम् ॥६८॥क्षीरोदमध्यगा शय्या प्रतीष्टाधः फणाभृता ।गोलश्च सूतिविहितः सूर्यादीनां प्रदक्षिणम् ॥६९॥परिभ्राम्यत्यहोरात्रं ग्रहाणां दर्शयन् गतिम् ।गजादिरूपे रथिकरूपतां गमितः पुमान् ॥७०॥भ्रान्त्वा नादिकया तस्याः पर्यन्ते हन्ति भोजनम् ।दीपिकापुत्रिका कॢप्ता क्षीणं क्षीणं प्रयच्छति ॥७१॥दीपे तैलं प्रनृत्यन्ती तालगत्या प्रदक्षिणम् ।यावत्प्रदीयते वारि तावत्पिबति सन्ततम् ॥७२॥यन्त्रेण कल्पितो हस्ती न तद्गच्छत्प्रतीयते ।शुकाद्याः पक्षिणः कॢप्तास्तालस्यानुगमान्मुहुः ॥७३॥जनस्य विस्मयकृतो नृत्यन्ति च पठन्ति च ।पुत्रिका वा गजेन्द्रो वा तुरगो मर्कटोऽपि वा ॥७४॥वलनैर्वर्तनैर्नृत्यंस्तालेन हरते मनः ।येनैव वर्त्मना क्षेत्रं ध्रियते तेन तत्पयः ॥७५॥यात्यायाति पुनस्तद्वद्गर्तात्पुष्करिणीष्वपि ।फलके कानि तिष्ठन्ति धावन्त्यनुमतानि च ॥७६॥धातां ददति युध्यन्ते निर्यान्त्यश्रमनावृतम् ।नृत्यन्ति गायन्ति तथा वंशादीन् वादयन्ति च ॥७७॥निरुद्धमुक्तस्य वशान्मरुतो यन्त्रभङ्गिभिः ।याश्चेष्टा दिव्यमानुष्यस्ता एवात्र न केवलम् ॥७८॥दुष्करं यद्यदन्यच्च तत्तद्यन्त्रात्प्रसिध्यति ।यन्त्राणां घटना नोक्ता गुप्त्यर्थं नाज्ञतावशात् ॥७९॥तत्र हेतुरयं ज्ञेयो व्यक्ता नैते फलप्रदाः ।कथितान्यत्र बीजानि यन्त्राणां घटना न यत् ॥८०॥तस्माद्व्यक्तीकृतेष्वेषु न स्यात्स्वार्थो न कौतुकम् ।वस्तुतः कथितं सर्वं बीजानामिह कीर्तनात् ॥८१॥अभ्यूह्यं स्वधिया प्राज्ञैर्यन्त्राणां कर्म यद्यथा ।यन्त्राणि यानि दृष्टानि कीर्तितान्यत्र तान्यपि ॥८२॥नन्द्यानि यस्मात्तान्यातो विज्ञेयान्युपदेशतः ।एतत्स्वबुद्ध्यैवास्माभिः समग्रमपि कल्पितम् ॥८३॥अग्रतश्च पुनर्ब्रूमः कथितं यत्पुरातनैः ।बीजं चतुर्विधमिह प्रवदन्ति यन्त्रे- ।ष्वम्भोग्निभूमिपवनैर्निहितैर्यथावत् ।प्रत्येकतो बहुविधं हि विभागतः स्या- ।न्मिश्रैर्गुणैः पुनरिदं गणनामपास्येत् ॥८४॥किमेतस्मादन्यद्भवति भुवने चित्रमपरं ।किमन्यद्वा तुष्ठ्यै भवति किमु वा कौतुककरम् ।किमन्यद् वा कीर्त्तेर्भवनमपरं कामसदनं ।किमस्मात्पुण्यं वा किमिव च परीतापशमनम् ॥८५॥एतेऽत्यर्थं प्रीतिदा बीजयोगाः संजायन्ते योजिताः सूत्रधारैः ।भ्रान्त्या नान्यश्चित्रकृद्दारुकॢप्तं चक्रं दोलाद्यं पुनः पञ्चमं तत् ॥८६॥पारम्पर्यं कौशलं सोपदेशं शास्त्राभ्यासो वास्तुकर्मोद्यमो धीः ।सामग्रीयं निर्मला यस्य सोऽस्मिंश्चित्राण्येवं वेत्ति यन्त्राणि कर्तुम् ॥८७॥चित्रैर्युक्तं ये गुणैः पञ्चरूपं जानन्त्येनं यन्त्रशास्त्राधिकारम् ।ये वा कृत्स्नं योजयन्तेऽत्र सम्यक्तेषां कीर्त्तिर्द्यां भुवं चावृणोति ॥८८॥अङ्गुलेन मितमङ्गुलपादेनोच्छ्रितं द्विपुटकं तनुवृत्तम् ।संविधेयमृजु मध्यगरन्ध्रं श्लिष्टसन्धि दृढताम्रमयं तत् ॥८९॥दारवेषु विहगेषु तदन्तः क्षिप्तमुद्गतसमीरवशेन ।आतनोति विचलन्मृदुशब्दं शृण्वतां भवति चित्रकरं च ॥९०॥सुश्लिष्टखण्डद्वितयेन कृत्वा सरन्ध्रमन्तर्मुरजानुकारम् ।ग्रस्तं तथा कुण्डलयोर्युगेन मध्ये पुटं तस्य मृदु प्रदेयम् ॥९१॥पूर्वोक्तयन्त्रे विधिनोदरेऽस्य क्षिप्तेऽथ शय्यातलसंस्थमेतत् ।ध्वनिं ततः सञ्चलनादनङ्गक्रीडारसोल्लासकरं करोति ॥९२॥अस्मिञ् शय्यातलविनिहिते मुञ्चति व्यक्तरागं ।चित्राञ्शब्दान् मृगशिशुदृशां यान्ति भीत्येव मानः ।किञ्चैतासां दयितमभितो निर्भरप्रेमभाजां ।प्रौढिं गच्छन्त्यधिकमधिकं मन्मथक्रीडितानि ॥९३॥पटहमुरजे वेणुः शङ्खो विपञ्च्यथ काहला ।डमरुटिविले वाद्यातोद्यान्यमून्यखिलान्यपि ।मधुरमधिकं यच्चित्रं च ध्वनिं विदधात्यलं ।तदिह विधिना रुद्धोन्मुक्तानिलस्य विजृम्भितम् ॥९४॥लघुदारुमयं महाविहङ्गं दृढसुश्लिष्टतनुं विधाय तस्य ।उदरे रसयन्त्रमादधीत ज्वलनाधारमधोऽस्य चातिपूर्णम् ॥९५॥तत्रारूढः पूरुषस्तस्य पक्षद्वन्द्वोच्चालप्रोज्झितेनानिलेन ।सुप्तस्वान्तः पारदस्यास्य शक्त्या चित्रं कुर्वन्नम्बरे याति दूरम् ॥९६॥इत्थमेव सुरमन्दिरतुल्यं सञ्चलत्यलघु दारुविमानम् ।आदधीत विधिना चतुरोऽन्तस्तस्य पारदभृतान् दृढकुम्भान् ॥९७॥अयःकपालाहितमन्दवह्निप्रतप्ततत्कुम्भभुवा गुणेन ।व्योम्नो झगित्याभरणत्वमेति सन्तप्तगर्जद्र सराजशक्त्या ॥९८॥वृत्तसन्धितमथायसयन्त्रं तद्विधाय रसपूरितमन्तः ।उच्चदेशविनिधापिततप्तं सिंहनादमुरजं विदधाति ॥९९॥स कोऽप्यस्य स्फारः स्फुरति नरसिंहस्य महिमा ।पुरस्ताद्यस्यैता मदजलमुचोऽपि द्विपघटाः ।मुहुः श्रुत्वा श्रुत्वा निनदमपि गम्भीरविषमं ।पलायन्ते भीतास्त्वरितमवधूयाङ्कुशमपि ॥१००॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP