संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| १५१ ते २२० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ द्राविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः - १५१ ते २२० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार द्राविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः - १५१ ते २२० Translation - भाषांतर पट्टिका पद्मपूर्वा च विधातव्या स्तरं स्तरम् ।कुर्वीत घण्टामुपरि चतुर्भागां विचक्षणः ॥१५१॥तदर्धमूर्ध्वतः कुम्भं छेदमर्धेन तस्य च ।जङ्घा षड्भागिका कार्या मात्ता गेन सुन कारयेन ॥१५२॥लशुनं भरणं कुम्भं गण्डमुच्छालवाडके ।हीरकं चेति कुर्वीत भागिकानि पृथक्पृथक् ॥१५३॥सार्धभागं भवेत्पट्टः पट्टिकार्धस्तरोच्छ्रिता ।वसन्तं भागमेकं स्याद्वसन्ताख्या च पट्टिका ॥१५४॥कपोतं त्रिस्तरं कुर्याच्छेदं त्र्यंशोनशंसकाम् ।मण्डको मकरश्चैव पट्टिका छेदकण्ठकौ ॥१५५॥कण्ठं पट्टी च वेदी च च्छेदश्च स्यात्स्तरं स्तरम् ।द्वितीयो द्विस्तरः कण्ठो भागिकी पट्टिका भवेत् ॥१५६॥तथैव पद्मंज्ञा च स्यादुच्छ्रायेण पट्टिका ।घण्टां कुर्याच्चतुर्भागां कुम्भमर्धेन तस्य च ॥१५७॥छेदमेकेन भागेन जङ्घाम --- र्धभागिकीम् ।मालामेकेन भागेन लशुनं सार्धभागिकम् ॥१५८॥तथैव भरणं कुर्यात्कुम्भोच्छाले स्तरं स्तरम् ।हीरकं भागिकं कुर्यात्पट्टं सार्धस्तरं ततः ॥१५९॥पट्टिकार्धस्तरं कार्या वसन्तं च स्तरं ततः ।कपोतं द्विस्तरं कुर्याद्वेदीमर्धस्तरं तथा ॥१६०॥यथा छेदस्तथा मण्डो मकरश्च विधीयते ।पट्टिकार्धस्तरं कार्या छेदोऽप्यर्धस्तरं भवेत् ॥१६१॥भागं कण्ठः पट्टिका च वेदी कार्या द्विभागिकी ।छेदो भागेन कर्तव्यः कण्ठश्चान्यस्त्रिभागिकः ॥१६२॥पट्टिकां पद्मपत्रीं च विदधीत स्तरं स्तरम् ।तुङ्गस्य चलनं कार्यं द्विभागिकमनन्तरम् ॥१६३॥घण्टा कार्या समुत्सेधात् त्रयस्त्रिंशद्विभागिकी ।सर्वतोभद्र संयुक्ता चन्द्र शालाविभूषिता ॥१६४॥कुर्वीत त्रिस्तरं पद्मं चित्रपत्रसमन्वितम् ।तस्योपरि भवेत्कुम्भश्चतुर्दशविभागिकः ॥१६५॥ग्रीवा द्विभागिका कार्या कर्णश्चैव तथाविधः ।बीजपूरं ततः कार्यां साभासंयुक्तमर्धतः ॥१६६॥पद्मचक्रं त्रिशूलं वा विधातव्यं यथोचितम् ।प्रोत्तुङ्गग्राससंयुक्तं --- मकरमेढकैः ॥१६७॥सोत्तुङ्गकूटाके कुर्यादेवं दिक्षु विदिक्षु च ।भूमौ भूमौ विधातव्या शाला साध्यलतोरणम् ॥१६८॥कोणे कोणे च --- करा भद्रे करिक्यकरानपि ।--- कूटैस्त्रिभिर्युक्तं चतुर्भिश्च जलान्तरैः ॥१६९॥कुर्वीत सर्वतोभद्र मेवंलक्षणलक्षितम् ।एवं पद्मो महापद्मः स्वस्तिको वर्धमानकः ॥१७०॥सर्वतोभद्र इत्येते समारभ्यैकभूमिकान् ।पञ्चभूमिकपर्यन्तं कार्याः साधारणक्रियाः ॥१७१॥एतैर्विंशतिभागैश्च प्रासादाः पूर्वसूचिताः ।पीठादारभ्य घण्टान्तं पञ्चैते लक्षणान्विताः ॥१७२॥षड्भूमिकादिको ब्रूमो यावद्द्वादशभूमिकम् ।पञ्चभूमिकः ।अथ षड्भौममेकान्तं त्रिंशद्धस्तं प्रचक्ष्महे ॥१७३॥चत्वारिंशत्कराः सैकास्तस्योच्छ्रायो विधीयते ।पीठं प्रकल्पयेत् तस्य सार्धहस्तद्वयोच्छ्रितम् ॥१७४॥जङ्घा समुच्छ्रये कार्या सार्धहस्तचतुष्टयम् ।कूटप्रस्तारमस्याहुः सोर्धहस्तोच्छ्रितं बुधाः ॥१७५॥जङ्घा द्वितीया तु भवेत्तस्य हस्तचतुष्टयम् ।द्वितीयकूटस्योत्सेधं सार्धहस्तं प्रकल्पयेत् ॥१७६॥घण्टा तृतीया चतुरो हस्तास्तार्धाद्विवर्जिता ।तृतीयकूटप्रस्तारं कुर्याद्भूयोऽपि पूर्ववत् ॥१७७॥जङ्घा भवेच्चतुर्थी स सार्धां त्रे करत्रयम् ।पूर्वमानेन कुर्वीत कूटप्रस्तारमूर्ध्वतः ॥१७८॥हस्तत्रयं विधातव्या जङ्घोच्छ्रायेण पञ्चमी ।कूटप्रस्तारकं कुर्यात्सार्धहस्तोच्छ्रितं ततः ॥१७९॥षष्ठीहस्तत्रयं जङ्घा पादहीनं विधीयते ।प्राग्वत्प्रस्तारकूटं तु कपोतं त्रिकरोच्छ्रितम् ॥१८०॥तस्योपरि भवेद्घण्टा हस्तपञ्चकमुच्छ्रिता ।कर्तव्यं पद्ममुपरि सुविचित्रं षडङ्गुलम् ॥१८१॥कुर्याद्भागैकविंशत्या कुम्भमाद्भरणैतम् ।षड्भूमिकोऽयमाख्यातः कथ्यते सप्तभूमिकः ॥१८२॥षड्भूमिकः ।पञ्चत्रिंशत्करः प्रोक्तो विस्तारात्सप्तभूमिकः ।सार्धात्तेकान्नपञ्चाशत्कर्ण नित्योर्च्छ्रिता करात् ॥१८३॥त्रिहस्तं पीठमुत्सेधाज्जङ्घा पञ्चकरोच्छ्रिता ।सार्धहस्तोच्छ्रितः कूटप्रस्तारोऽस्य विधीयते ॥१८४॥द्विहस्तो वेदिकाबन्धो जङ्घोच्छ्रायश्चतुष्करः ।सार्धहस्तसमुत्सेधः कूटविप्रस्तार इष्यते ॥१८५॥साधहस्तोच्छ्रिता वेदी जङ्घा सार्धकरत्रयम् ।सार्धहस्तोच्छ्रितः कूट प्रस्तारः परिकीर्तितः ॥१८६॥सपादहस्ता वेदी स्याज्जङ्घा त्र्यंशं करत्रयम् ।सार्धहस्तस्तु कूटस्य प्रस्तारः स्यात्समुच्छ्रयात् ॥१८७॥हस्तं स्याद्वेदिकाबन्धो जङ्घांशो हि करद्वयम् ।सपादहस्तः कूटस्य प्रस्तारो वेदिका करम् ॥१८८॥पादोनद्विकरा जङ्घा कूटं पादयुतः करः ।हस्तमात्रोच्छ्रिता वेदी जङ्घा सार्धकरोच्छ्रिता ॥१८९॥कूटप्रस्तारको हस्तं कपोतः स्यात्करत्रयम् ।सपद्मशीर्षघण्टा तु सार्धं स्याद्धस्तपञ्चकम् ॥१९०॥एवमेष समुद्दिष्टः प्रासादः सप्तभूमिकः ।सप्तभूमिकः ।अथाष्टभूमिकं ब्रूमः प्रासादं शुभलक्षणम् ॥१९१॥चत्वारिंशत्करांस्तस्य विस्तारं परिकल्पयेत् ।उच्छ्रायः सप्तपञ्चाशत्कराः स्युस्त्रिंशवर्जिताः ॥१९२॥नवहस्तान् प्रकुर्वीत सार्धान्प्रथमभूमिकाम् ।द्वितीयाष्टौ सपादोर्धास्तृतीयाष्टौ करान् भवेत् ॥१९३॥चतुर्थी सप्तहस्ता तु षट्करा पञ्चमी भवेत् ।पञ्चहस्ता ततः षष्ठी चतुर्हस्ता तु सप्तमी ॥१९४॥ततोऽष्टमी त्रिहस्ता स्याद्वेदीबन्धः करद्वयम् ।घण्टां चतुष्करां कुर्यादेवं स्यादष्टाभूमिकः ॥१९५॥अष्टभूमिकः ।अथोच्यते हस्तमानात्प्रासादो नवभूमिकः ।विस्तारादेकपञ्चाशदुच्छ्रित्या स्याद्द्विसप्ततिः ॥१९६॥कर्णप्रमाणं तस्योक्ता विस्तारोऽस्य चनुच्छ्रितिः ।पञ्चहस्ता भवेद्घण्टा वेदिबन्धस्तदर्धतः ॥१९७॥कुर्याद्धस्तत्रयं सार्धं नवमीमस्य भूमिकाम् ।अष्टमीं चतुरः सार्धान् सपादान् पञ्च सप्तमीम् ॥१९८॥षष्ठीं षट् पादहीनांश्च सपादोनाम पञ्चमीम् ।अष्टौ चतुर्थी पादोनान् हस्तात्राच तृतीयकाम् ॥१९९॥विलोमेनैककथितः प्रासादो नवभूमिकः ।नवभूमिकः ।इदानीमभिधास्यामः प्रासादं दशभूमिकम् ॥२००॥एकोनाशीतिरुत्सेधः सपादा विस्तृतिः पुनः ।षट्पश्चाशत्कराः कर्णमानाद्ब्रूमोऽथ भागशः ॥२०१॥एकादशकरोत्सेधा काया प्रथमभूमिका ।सार्धान् दश द्वितीया स्यात्तृतीया तु करान् दश ॥२०२॥सार्धानष्टौ चतुर्थी तु सप्तसार्धस्व पञ्चमी ।षष्ठी सप्तकरा प्रोक्ता सप्तमी षट्करा भवेत् ॥२०३॥पञ्चहस्ताष्टामी ज्ञेया नवमी तु चतुष्करा ।त्रिहस्ता दशमी कार्या वेदी सांशं करद्वयम् ॥२०४॥--- प्रमाणेन सार्धं करचतुष्टयम् ।एवमेष समुद्दिष्टो विन्यासो दशभूमिके ॥२०५॥दशभूमिकः प्रासादः ।ब्रूमः समासादभीथैकादशभूमिकम् ।पञ्चषष्टिकरः कार्यो द्विनवत्युच्छ्रितश्च सः ॥२०६॥कर्णमानेन विज्ञेयः प्रासादः शास्त्रवेदिभिः ।प्रथमा भूमिका तस्य चतुर्दशकरा भवेत् ॥२०७॥द्वितीया द्वादशार्धं च तृतीयैकाडशोच्छ्रिता ।नव सार्धांश्चतुर्थी स्यात्सपादानष्ट पञ्चमी ॥२०८॥सप्तहस्ता भवेत्षष्ठी षड्ढस्ता सप्तमी ततः ।पञ्चहस्ताष्टमी सार्धांश्चतुरो नवमी करान् ॥२०९॥चतुर्हस्ता तु दशमी सार्धमेकादशी त्रयम् ।सपादद्विकरा वेदी घण्टा सार्धचतुष्करा ॥२१०॥प्रासादः कथितः सम्यगित्येकादशभूमिकः ।एकादशभूमिकः ।ब्रूमो द्वादशभौमं स सप्तषष्टिकरायतः ॥२११॥उच्छ्रायात्पञ्चनवतिहस्तः स्यात्कर्णमानतः ।आद्या चतुर्दशकरा भूमिकास्य विधीयते ॥२१२॥द्वितीयैकादशकरान् तृतीयार्धयुतान् दश ।दश हस्तांश्चतुर्थी स्यादष्टौ सार्धांस्तु पञ्चमी ॥२१३॥सार्धसप्तकरा षष्ठी सप्तहस्ता च सप्तमी ।अष्टमी षट्करा पञ्चहस्ता तु नवमी भवेत् ॥२१४॥दशमी स्याच्चतुर्हस्ता त्रिहस्तैकादशी क्षितिः ।द्वादशी द्वौ करौ सार्धौ वेदीबन्धः करद्वयम् ॥२१५॥चतुर्हस्ता भवेद्घण्टा सर्वालङ्कारभूषिता ।स्तम्भकर्णस्य मानेन कुम्भं कुर्याद्विचक्षणः ॥२१६॥उच्छालं द्विगुणं स्तम्भात् हीरसार्धसङ्गुणाम् ।इत्येते द्रा विडाः सम्यक्प्रासादा द्वादशोदिताः ॥२१७॥एषां पद्ममहापद्मस्वस्तिका वर्धमानकः ।सर्वतोभद्र लतास्तलबन्धान्निवेशयेत् ॥२१८॥आरभ्यन्तामरेकस्या च द्वादशभूमिकात् ।ऊर्ध्वमानं च कर्तव्यं सामान्यं तेषु पञ्चसु ॥२१९॥द्वादशभूमिकः ।पीठमूलच्छन्दकभूमिकाभि-र्विनिर्मिता द्रा विडनामधेयाः ।प्रासादमुख्याः कथिता यथा यथा-वेत्यं स्वल्पिविभिरुच्यतेऽसौ ॥२२०॥इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे द्रा विडप्रासादाध्यायो नाम द्विषष्टितमः । N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP