रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः - १ ते ५०
समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।
अथातः सम्प्रवक्ष्यामि प्रासादाञ्शिखरान्वितान् ।
रुचकादींश्चतुःषष्टिं नामलक्षणतः क्रमात् ॥१॥
पूर्वं यानि विमानानि पञ्चोक्तान्यभवंस्ततः ।
तदाकारभृतः सर्वे प्रासादाः पञ्चविंशतिः ॥२॥
शिखरैर्विविधाकारैरेकेनाण्डेन भूषिताः ।
केचिदण्डत्रयोपेताः केचित्पञ्चाण्डकान्विताः ॥३॥
ईषद्भेदेन ते ज्ञेयाः प्रासादाः सर्वकामदाः ।
सौवर्णा राजताश्चै व देवानां सततं प्रियाः ॥४॥
मणिमुक्ताप्रवालाद्यैर्भूषणैः सुविभूषिताः ।
रीतिकाताम्रभोषाद्यैः पिशाचोरगरक्षसाम् ॥५॥
देवलोका भवन्त्येते कामस्वच्छन्दचारिणः ।
पाताले चापि निर्दिष्टाः पाषाणैः स्फटिकैस्तथा ॥६॥
इष्टकाकाष्ठपाषाणैर्मर्त्यलोकेऽपि नन्दकाः ।
सुखदाश्च भवन्त्येते कर्तुः कारयितुस्तथा ॥७॥
लक्षणेनान्वितानेतान् कथयामो यथाविधि ।
पुराणां भूषणार्थाय भुक्तिमुक्तिप्रदा नृणाम् ॥८॥
रुचको भद्र कश्चैव हंसो हंसोद्भवस्तथा ।
प्रतिहंसस्तथा नन्दो नन्द्यावर्तो धराधरः ॥९॥
वर्धमानोऽद्रि कूटश्च श्रीवत्सोऽथ त्रिकूटकः ।
मुक्तकोणो गजश्चैव गरुडः सिंह एव च ॥१०॥
भवश्च विभवश्चैव पद्मो मालाधरस्तथा ।
वज्रकः स्वस्तिकः शङ्कुर्मलयो मकरध्वजः ॥११॥
इत्येते नामतः प्रोक्ताः प्रासादाः पञ्चविंशतिः ।
एतेषां रूपनिर्माणं कथयामो यथाविधि ॥१२॥
रुचकाष्टादशैषां चतुरश्राः प्रकीर्तिताः ।
भवश्च विभवश्चैव चतुरश्रायतोऽथवा ॥१३॥
पद्मो मालाधरश्चैव वृत्तावेतावुदाहृतौ ।
मलयो मकराख्योऽथ द्वौ तु वृत्तायताविमौ ॥१४॥
वज्रकः स्वस्तिकः शङ्कुरित्थमष्टाश्रयस्त्रयः ।
ललिताः कथिता ह्येते ब्रूमोऽन्यान्मिश्रकानथ ॥१५॥
सुभद्रो योकिटश्च सर्वतोभद्र एव च ।
सिंहकेसरिसंज्ञोऽन्यश्चित्रकूटो धराधरः ॥१६॥
तिलकाख्यः स्वतिलकस्तथा सर्वाङ्गसुन्दरः ।
नवामी मिश्रकाः प्रोक्ताः कथ्यन्ते साधकारिकाः ॥१७॥
केसरी सर्वतोभद्रो नन्दनो नन्दिशालकः ।
नन्दीशो मन्दिराख्यश्च श्रीवृक्षश्चामृतोद्भवः ॥१८॥
हिमवान् हेमकूटश्च कैलासः पृथिवीजयः ।
इन्द्र नीलो महानीलो भूधरो रत्नकूटकः ॥१९॥
वैडूर्यः पद्मरागश्च वज्रको मुकुटोत्कटः ।
ऐरावतो राजहंसो गरुडो वृषभस्तथा ॥२०॥
मेरुः प्रासादराजश्च देवानामालयो हि सः ।
संयोगे तु संधारान् कथयामो यथाविधि ॥२१॥
लतात्रिपुष्कराख्यौ च पञ्चवक्त्रश्चतुर्मुखः ।
नवात्मकश्च निर्गूढः प्रासादाः पञ्च संज्ञिताः ॥२२॥
आद्यः पञ्चाण्डकः कार्यः प्रासादः केसरीति यः ।
सर्वतोभद्र को यस्तु विधेयः स नवाण्डकः ॥२३॥
त्रयोदशाण्डकस्तु स्यान्नन्दनो नाम यो भवेत् ।
नन्दिशालस्तु यः प्रोक्तः स स्यात्सप्तदशाण्डकः ॥२४॥
अण्डकैरेकविंशत्या नन्दीशः परिवारितः ।
पञ्चविंशाण्डकोपेतं मन्दरं कारयेद्बुधः ॥२५॥
श्रीवृक्षः शस्यते चैतेष्वेकोनत्रिंशताण्डकैः ।
स्यात्त्रयस्त्रिंशताण्डैस्तु प्रासादो ह्यमृतोद्भवः ॥२६॥
अण्डकैः क्रियते सप्तत्रिंशता हिमवानपि ।
सैकया हेमकूटस्तु स्याच्चत्वारिंशताण्डकैः ॥२७॥
पञ्चचत्वारिंशताण्डैः कैलासो नाम नामतः ।
भवत्येकोनपञ्चाशदण्डकः पृथिवीजयः ॥२८॥
इन्द्र नीलश्च यः प्रोकारः पञ्चशताण्डकैः ।
सप्तपञ्चाशता युक्तो महानीलस्तथाण्डकैः ॥२९॥
एकषष्ट्यण्डकोपेतः प्रासादो भूधरो भवेत् ।
पञ्चषष्ट्यण्डकैर्युक्तो रत्नकूटः प्रशस्यते ॥३०॥
नवषष्ट्यण्डकः कार्यो वैदूर्यः शुभलक्षणः ।
त्रिसप्तत्यण्डकयुतः पद्मरागो विधीयते ॥३१॥
अण्डकैः सप्तसप्तत्या प्रासादो विजयाभिधः ।
एकाशीत्यण्डकोपेतो विधेयो मुकुटोत्कटः ॥३२॥
ऐरावतस्तु पञ्चाशीत्यण्डकः परिकीर्तितः ।
नवाशीत्यण्डकैर्युक्तो राजहंसः प्रशस्यते ॥३३॥
नवत्या सप्तयुतया प्रासादो वृषभोऽण्डकैः ।
शतेनैकोत्तरेणाण्डैर्मेरुः प्रासादराट्स्मृतः ॥३४॥
हरेर्हिरण्यगर्भस्य --- भास्करस्य च ।
मेरुरेष विधातव्यो नान्यस्य त्रिदिवौकसः ॥३५॥
मेरोः प्रासादराजस्य देवानामालयस्य च ।
कर्ता क्षत्रिय एवास्य वैश्यस्य स्थपतिर्भवेत् ॥३६॥
एवं विधीयमानेऽस्मिन् मेरौ द्वावपि नन्दतः ।
वास्तुशास्त्रविधिज्ञोऽपि क्षत्रियः स्थपतिर्यदि ॥३७॥
तदास्य सत्यं शौचं च विक्रमश्च विनश्यति ।
ईश्वरोऽपि यदा विप्रो मेरुप्रासादकृद्भवत् ॥३८॥
कर्तुः कारयितुः पीडा पूजा चास्य न तादृशी ।
ब्राह्मणः स्थपतिश्चास्य वास्तुशास्त्रे विशारदः ॥३९॥
वणिक्कर्मणि वर्तेत धनवानपि यद्यसौ ।
सर्वविप्रेषु निर्दिष्टः कर्ता स्थपतिरेव सः ॥४०॥
तत्रस्था देवताः सर्वास्तस्य वृद्धिः कथञ्चन ।
वास्तुशास्त्रविधिज्ञोऽपि तत्तत्कारयिता यदि ॥४१॥
राजापि क्षत्रियः कर्ता मेरुर्भवेत् तदा ।
राष्ट्रभङ्गो भवेत्तस्य प्रजा यान्ति दिशो दश ॥४२॥
क्षत्रियेण नरेन्द्रे ण कर्ता स्थपतिना यदि ।
मेरोः पूजा भवेत्तत्र क्षत्रियोऽप्यक्षयं पदम् ॥४३॥
एकैकस्य च यन्मानं सकर्णस्य च यद्वशम् ।
प्रासादानां च सर्वेषां तत्सम्यगभिधीयते ॥४४॥
चतुरश्रीकृते क्षेत्रे चतुर्भागविवर्जिते ।
भागिका सर्वतो भित्तिः शेषं गर्भगृहं भवेत् ॥४५॥
तस्याग्रतः पुनः कार्यो भागद्वयविनिर्गतः ।
विस्तारेण त्रिभागश्च प्राग्ग्रीवः स्तम्भभूषितः ॥४६॥
पीठोत्सेधस्य भागेन भवेज्जङ्घा द्विभागिका ।
भागार्ध---तरं पत्रं पादेन स्याद्वरण्डिका ॥४७॥
सपादांश्चतुरो भागान् शिखरस्योच्छ्रयः स्मृतः ।
त्रिगुणेन च सूत्रेण पद्मकोशं समालिखेत् ॥४८॥
स्कन्धकोशान्तरं चास्य भागैः प्रविभजेत्त्रिभिः ।
भवेद्ग्रीवार्धभागेन भागेनामलसारकम् ॥४९॥
पद्मशीर्षं च भागार्धाद्भागेन स्मृतः ।
इत्युक्तो रुचकाख्योऽयं ।
रुचकः ।
भद्र काख्योऽथ कथ्यते ॥५०॥
N/A
References : N/A
Last Updated : November 26, 2017
TOP