संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः

वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः

समराङ्गणसूत्रधार हा भारतीय वास्तुशास्त्र सम्बन्धित ज्ञानकोशीय ग्रन्थ आहे, ज्याची रचना धार राज्याचे परमार राजा भोज (1000–1055 इ.स.) यांनी केली होती.


अथामरगणैः सार्धमाजगाम पितामहः ।
दुःखच्छेदाय मर्त्यानामादाय नृपतिं पृथुम् ॥१॥
स तानूवे प्रभुर्वोऽसौ मरुतामिव वासवः ।
दण्डधारी च दुष्टानां प्रभावे लोकपालवत् ॥२॥
प्रतापतापितारातिसिंहः सिंहपराक्रमः ।
युष्माकमाधिपत्येऽसावभिषिक्तो मया पृथुः ॥३॥
रक्षाकृत्सर्वशिष्टानामुच्छेत्ता दुष्टचेतसाम् ।
वृत्तितो भीतिहर्ता च भविष्यत्येष वो नृपः ॥४॥
भवद्भिरेतदायत्तैर्भवितव्यं ममाज्ञया ।
करिष्यत्येष वो नीत्या चातुर्वर्ण्याश्रमस्थितीः ॥५॥
उक्त्वेति ब्रह्मणि गते नाथमासाद्य तेऽथ तम् ।
अवोचन् दुःखिता दुःखादस्मात् त्रायस्व नः प्रभो ॥६॥
कल्पद्रुमामरत्यक्तान् द्वन्द्वार्तिक्लान्तचेतसः ।
व्यसनार्णवनिर्मग्नान् पाहि नः पृथिवीपते ॥७॥
अथो पृथुरुवाचैतान् मा भैष्टसुखमास्यताम् ।
दुःखान्यपहरिष्यामि करिष्ये च सुखानि वः ॥८॥
ततः स चतुरो वर्णानाश्रमांश्च व्यभाजयत् ।
तेषु ये वेदनिरताः स्वाचाराः संयतेन्द्रि याः ॥९॥
सूरयश्चावदाताश्च ब्राह्मणास्तेऽभवंस्तदा ।
यजनाध्ययने दानं याजनाध्यापनार्थिताः ॥१०॥
धर्मास्तेषां विमुच्यान्त्यांस्त्रींस्तुल्याः क्षत्रवैश्ययोः ।
ये तु शूरा महोत्साहाः शरण्या रक्षणक्षमाः ॥११॥
दृढव्यायतदेहाश्च क्षत्रियास्त इहाभवन् ।
विक्रमो लोकसंरक्षाविभागो व्यवसायिता ॥१२॥
एतेषामयमप्युक्तो धर्मः शुभफलोदयः ।
निसर्गान्नैपुणं येषां रतिर्वित्तार्जनं प्रति ॥१३॥
श्रद्धादाक्ष्यदयावन्तो वैश्यांस्तानकरोदसौ ।
चिकित्सा कृषिवाणिज्ये स्थापत्यं पशुपोषणम् ॥१४॥
वैश्यस्य कथितो धर्मस्तद्वत्कर्म च तैजसम् ।
नातिमानभृतो नातिशुचयः पिशुनाश्च ये ॥१५॥
ते शूद्र जातयो जाता नातिधर्मरताश्च ये ।
कलारम्भोपजीवित्वं शिल्पिता पशुपोषणम् ॥१६॥
वर्णत्रितयशुश्रूषा धर्मस्तेषामुदाहृतः ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थस्तथा यतिः ॥१७॥
इत्याश्रमाः पृथक् तेन चत्वारः प्रविभाजिताः ।
गुरुशुश्रूषणं भैक्षं व्रतचर्याग्निकर्म च ॥१८॥
स्वाध्यायश्चाभिषेकश्च धर्मोऽयं ब्रह्मचारिणः ।
पूजाग्न्यतिथिदेवानां स्ववृत्त्या जीवनं दमः ॥१९॥
असमानर्षिगोत्रेषु विवाह ऋतुगामिता ।
परस्य स्त्रीषु वैमुख्यं परानुग्रहशीलता ॥२०॥
विनिवृत्तिरकार्येभ्यो धर्मोऽयं गृहिणां कृतः ।
देवतातिथिसत्कारो ब्रह्मचर्यं वने स्थितिः ॥२१॥
वल्काजिनजटाचीरधारणं शयनं भुवि ।
उपोषणैर्व्रतैर्देहकर्शनं नियमैस्तथा ॥२२॥
आहारोऽकृष्टपच्यैश्च धर्मोऽयं वनवासिषु ।
वैराग्यमिन्द्रि यजयश्चिन्तात्यागः प्रशान्तता ॥२३॥
आकिञ्चन्यमनारम्भो यतिधर्मः सदा स्मृतः ।
क्षमत्वं गुर्वधीनत्वं शौचं स्वाध्यायनित्यता ॥२४॥
विशुद्धिर्व्यवहारेषु शिष्यधर्मोऽयमीरितः ।
शुचित्वं वाङ्मनःकायैः पतिशुश्रूषणं क्षमा ॥२५॥
पूजनं पतिपूज्यानां स्त्रीधर्मः शौचमेव च ।
एवं वर्णाश्रमान् सम्यक् कृत्वा वर्णांस्तदुद्भान् ॥२६॥
विभज्य तेषां वैन्येन ते ते धर्माः प्रकीर्तिताः ।
वृत्तिं कर्माणि चैतेषां पृथगुद्दिश्य सोऽभ्यधात् ॥२७॥
स्वधर्मावस्थितानां वो भावि लोकद्वये सुखम् ।
य एतां स्थितिमुल्लङ्घ्य मोहादन्यद्विधास्यति ॥२८॥
तस्याहं यमवत्क्रुद्धः करिष्याम्यनुशासनम् ।
युक्तानां कर्मसु स्वेषु वृत्त्यर्थं भवतामहम् ॥२९॥
खेटकग्रामवेश्मानि विधास्यामि पुराणि च ।
इत्युक्त्वा तानथो कोट्या कार्मुकस्य पृथुर्नृपः ॥३०॥
विषमां साधयामास पृथिवीं पृथुविक्रमः ।
तत्सङ्क्लेशेन गौर्भूत्वा नश्यन्ती तेन मेदिनी ॥३१॥
विधेर्नियोगाद्दुदुहे साधु सस्यानि भूतये ।
कल्पितास्तेन शैलानां सरितामन्तरेषु च ॥३२॥
समेषु चावकाशेषु पुरादीनां विभक्तयः ।
तेन सीराग्रकृष्टेयं धान्यैरुप्तैर्यथाविधि ॥३३॥
ससस्या क्रियते क्षोणी भगवत्यम्बुदागमे ।
इत्युद्भवो निगदितः प्रथमो नृपस्य
धर्मेण सार्धमपि चाश्रमवर्णभेदाः ।
प्रोक्ताः कृषिव्यतिकरोऽपि च दर्शितस्ते ।
कार्त्स्न्येन वत्स शृणु देशविभागभूमिम् ॥३४॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP