संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| ५१ ते १०० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ पुरनिवेशो दशमोऽध्यायः - ५१ ते १०० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार पुरनिवेशो दशमोऽध्यायः - ५१ ते १०० Translation - भाषांतर दृष्ट्वा दृष्ट्वोपभोगार्हान्सरिद्गिरिजलाशयान् ।पक्षद्वाराणि कुर्वीत स्वेच्छया तत्र तत्र च ॥५१॥जलभ्रमान्पुरे कुर्याच्छिलादारुतिरोहितान् ।द्विकरान्करमात्रान्वा साम्भसोऽस्मिन् प्रदक्षिणान् ॥५२॥छिन्नकर्णं विकर्णं च वज्रं सूचीमुखं तथा ।वर्तुल व्यजनाकारं चापाकृतिधरं च यत् ॥५३॥शकटद्विसमं यच्च विस्ताराद्द्विगुणायतम् ।विदिक्स्थं सर्पचक्रं च तत् पुरं निन्दितं भवेत् ॥५४॥छिन्नकर्णे वसंल्लोकः पुरे तस्करतो भयम् ।व्याधिभ्यो वापरेभ्यो वा प्राप्नोतीति विनिर्दिशेत् ॥५५॥विद्विष्टस्वामिता सर्वलोकगर्हानपत्यता ।जायते स्वल्पमायुष्यं विकर्णपुरवासिनाम् ॥५६॥स्त्रीजयं विषरोगांश्च भेदांश्च विविधांस्तथा ।जनो वसन्नवाप्नोति वज्राकृतिधरे पुरे ॥५७॥व्रजन्ति प्राणिनो नाशं क्षुद्व्याधिपरिपीडिताः ।निवसन्तः सदा सूचीमुखाकारधरे पुरे ॥५८॥स्वामिना सह हीयन्ते सर्वतः सञ्चयोज्झिताः ।स्वल्पायुषश्च जायन्ते जना वृत्तपुराश्रयाः ॥५९॥असत्यवादिनः स्वल्पायुषः पवनपीडिताः ।जनाः स्युश्चलचित्ताश्च नगरे व्यजनाकृतौ ॥६०॥दुश्चरित्राङ्गनायुक्तस्तथा बहुनपुंसकः ।चापाकारे पुरे लोको निवसन् भवति ध्रुवम् ॥६१॥रोगशोकानलस्तेनभयं तत्र प्रजायते ।शकटद्विसमाकारं पुरं यद्विनिवेश्यते ॥६२॥आरम्भासिद्धिदं विप्रभयदं ज्ञातिभेदकृत् ।पौराणां स्वामिनश्च स्याद्गजवाजिक्षयावहम् ॥६३॥परैराक्रम्य भुज्येत तत्पुरं बलशालिभिः ।द्विगुणायतसंस्थानं यत्क्वचिद्विनिवेश्यते ॥६४॥जनक्षयोऽग्निदाहश्च स्त्रीकृतानि भयानि च ।पुरे भवति दिङ्मूढे न च निर्योगमेति तत् ॥६५॥शस्त्रानिलपिशाचाग्निभूतयक्षभयार्दिताः ।रुक्पीडिताश्च नश्यन्ति भुजङ्गकुटिले जनाः ॥६६॥पुराणामप्रशस्तानि संस्थानानीदृशानि यत् ।एकस्मिन्नपि तेनैषां न पुरं विनिवेशयेत् ॥६७॥संस्थानमेकमप्येषां प्रमादात्क्रियते यदि ।तदा राष्ट्रं निपीड्येत क्षुद्द्विषद्भीतिमृत्युभिः ॥६८॥शास्त्रज्ञः स्थपतिस्तस्मात्प्रयत्नपरया धिया ।यथावत्कथितं चारु नगरं विनिवेशयेत् ॥६९॥वेदीनिवेशयात्रायां देवागाराभिचारयोः ।नदीकर्मणि मैत्रे च शान्तिं कुर्याच्छ्रमेषु च ॥७०॥यज्ञे पुरनिवेशे च स्थापने प्रयतः सुधीः ।कुर्यात्तथाभ्युदयिकं यद्वान्यदपि किञ्चन ॥७१॥पुरे भीतिकरं शश्वदनायुष्यमपौष्टिकम् ।कृतमप्रयतैः कर्म नृपतिघ्नं च जायते ॥७२॥विहितं यदशास्त्रज्ञैर्यच्च निर्लक्षणैः कृतम् ।कृतमप्रयतैर्यच्च तदशस्तं फलोज्झितम् ॥७३॥शास्त्रज्ञः स्थपतिर्ज्योतिर्विदा तद्वत्पुरोधसा ।अधिष्ठितः पुरे कर्म विदध्याच्छान्तिकेषु च ॥७४॥पुरोहितोऽग्निं जुहुयाद्दद्यान्मौहूर्त्तिकः स्थिरम् ।स्थपतिश्च बलिं दद्याद्योजयेदिति शान्तिकम् ॥७५॥तदा तस्मिन् पुरे शान्तिर्यत्र मर्मस्थिताः सुराः ।पूज्यन्ते सततं पौरैश्चत्वरस्थायिनस्तथा ॥७६॥चतुःप्रकारं स्थापत्यमष्टधा च चिकित्सितम् ।धनुर्वेदश्च सप्ताङ्गो ज्योतिषं कमलालयात् ॥७७॥सामान्यलक्षणोत्पातनिमित्तानि च सर्वशः ।ब्रह्मा विष्णुश्च रुद्र श्च त्यजन्त्येते न तत् पुरम् ॥७८॥नगरस्य विभागोऽयं यथावत्समुदीरितः ।खेटं तदर्धविष्कम्भमाहुर्ग्रामं तदर्धतः ॥७९॥योजनेन पुरात्खेटं खेटाद्ग्रामं प्रचक्षते ।गव्यूतिपरिमाणेन ग्रामाद्ग्रामं प्रचक्षते ॥८०॥द्विक्रोशाद्विषये सीमा तदर्धेन पुरस्य सा ।खेटके पुरसीमाधं ग्रामे खेटार्धतः स्मृता ॥८१॥त्रिंशद्घनूषि विष्कम्भः पुरे दिग्वर्त्मसु स्मृतः ।विंशतिः खेटके मार्गो ग्रामे दश च दर्शितः ॥८२॥नव ग्रामसहस्राणि नवतिश्च प्रचक्षते ।चतुःषष्टिमपि ग्रामान् ज्यायो राष्ट्रं विदुर्बुधाः ॥८३॥दशार्धं च सहस्राणि ग्रामाणां त्रिशती तथा ।ग्रामाश्चतुरशीतिश्च मध्यमं राष्ट्रमीरितम् ॥८४॥सहस्रमेकं ग्रामाणां तद्वच्च शतपञ्चकम् ।द्व्यूना च ग्रामपञ्चाशत् कनीयो राष्ट्रमुच्यते ॥८५॥अध्यर्धसङ्ख्ययैतेषां ज्येष्ठमध्यकनीयसाम् ।विधाय नवधैकैकं विभजेद्विधिवत्सुधीः ॥८६॥राष्ट्रेष्वेवं विभक्तेषु यथाभागं विधानवित् ।निवेशयेत्पुराण्येषु सप्त सप्त यथागमम् ॥८७॥विभागश्च प्रमाणं च लक्षणं चादिमस्य यत् ।जातिवर्णाधिवासश्च यथावत्तदिहोच्यते ॥८८॥सुवर्णकारानाग्नेय्यां तथा वह्न्युपजीविनः ।निवेशयेत् कर्मकरानन्यानपि विधानवित् ॥८९॥वैश्यानामक्षधूर्तानां चक्रिकाणां च दक्षिणे ।नटानां नर्त्तकानां च गृहाणि विनिवेशयेत् ॥९०॥निवेशयेत् सौकरिकान् मेयीकारान् मृगच्छिदः ।कैवर्तान् नैरृताशायां दमनाधिकृतांस्तथा ॥९१॥रथेषु कौशलं येषां येषां स्यादायुधेषु च ।वारुण्यां दिशि तान् सर्वान् पुरस्य विनिवेशयेत् ॥९२॥कर्मस्वधिकृता ये च ये चापि परिकर्मिणः ।शौण्डिका ये च तान् सर्वान् वायोर्दिशि निवेशयेत् ॥९३॥यतीनामाश्रयान् ब्रह्मवत्सानां च तथा सभाम् ।प्रपाश्च पुण्यशालाश्च कुर्याद्दिशि धनेशितुः ॥९४॥घृतविक्रयिणो ये च फलविक्रयिणश्च ये ।निवेशिताः प्रशस्यन्ते पुरस्येशानदिग्गताः ॥९५॥पूर्वभागे बलाध्यक्षान् राज्ञो मुख्यांस्तथा बले ।निवेशयेत्तथाग्नेय्यां बलं नानाविधं सुधीः ॥९६॥श्रेष्ठिनो दक्षिणाशायां तथा देशमहत्तरान् ।याम्येकहारान् कुर्वीत तथा ककुभि निरृतेः ॥९७॥कोशपालमहामात्रादेशिकान् कारुकानपि ।निर्यामकांश्च कुर्वीत सलिलाधिपतेर्दिशि ॥९८॥वायोः ककुभि कुर्वीत दण्डनाथान् सनायकान् ।पुरोहितज्योतिषिकानुत्तरस्यां निवेशयेत् ॥९९॥विप्राः सौम्य दिशो भागे क्षत्रियाः शक्रदिग्गताः ।वैश्यशूद्रा स्तु कर्तव्या दक्षिणापरयोः क्रमात् ॥१००॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP