नगरादिसंज्ञा नामाष्टादशोऽध्यायः
समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।
नगरं मन्दिरं दुर्गं पुष्करं साम्परायिकम् ।
निवासः सदनं सद्म क्षयः क्षितिलयस्तथा ॥१॥
यत्रास्ते नगरे राजा राजधानीं तु तां विदुः ।
शाखानगरसंज्ञानि ततोऽन्यानि प्रचक्षते ॥२॥
शाखानगरमेवाहुः कर्वटं नगरोपमम् ।
ऊनं कर्वटमेवेह गुणैर्निगम उच्यते ॥३॥
ग्रामः स्यान्निगमादूनो ग्रामकल्पो गृहस्त्वसौ ।
गोकुलावासमिच्छन्ति गोष्ठमल्पं तु गोष्ठकम् ॥४॥
उपस्थानं भवेद् राज्ञां यत्र तत्पत्तनं विदुः ।
बहुस्फीतवणिग्युक्तं तदुक्तं पुटभेदनम् ॥५॥
विधाय कुटिका यत्र पत्रशाखातृणोपलैः ।
पुलिन्दाः कुर्वते वासं पल्ली स्वल्पा तु पल्लिका ॥६॥
नगरं वर्जयित्वान्यत्सर्वं जनपदः स्मृतः ।
नगरेण समं कृत्स्नं राष्ट्रं देशोऽथ मण्डलम् ॥७॥
आवासः सदनं सद्म निकेतो मन्दिरं मतम् ।
संस्थानं निधनं धिष्ण्यं भवनं वसतिः क्षयः ॥८॥
अगारं संश्रयो नीडं गेहं शरणमालयः ।
निलयो लयनं वेश्म गृहमोकः प्रतिश्रयः ॥९॥
गृहस्योपरिभूमिर्या हर्म्यं तत्परिकीर्तितम् ।
तस्यारोहणमार्गो यः सोपानं तत्प्रचक्षते ॥१०॥
काष्ठकैर्यत्र रचितं स्थूणयोरधिरोहणम् ।
सा निःश्रेणिरिति प्रोक्ता सोपानैर्विपुलैः पदैः ॥११॥
स्मृतः काष्ठविटङ्कोऽसौ यत्काष्ठैः संवृतं गृहम् ।
सुधालिप्ततलं हर्म्यं सौधं स्यात्कुट्टिमं च तत् ॥१२॥
वर्षाभयेन या छन्न तालशाकदलादिभिः ।
स्मृताभिगुप्तिरन्तस्था सर्वोपरि गृहस्य सा ॥१३॥
वातायनं तु भित्तीनामवलोकनमुच्यते ।
लघुर्वातयनो यः स्यादवलोकनकं हि तत् ॥१४॥
हर्म्यस्य मध्ये यच्छिद्रं स उ लोक इति स्मृतः ।
हर्म्यप्राकारकः स स्यात्कण्ठा हर्म्यतलस्य या ॥१५॥
वितर्दिकाष्ठमाला स्यात्सर्वतश्छदमूलगा ।
तत्स्तम्भेषु मृगा ये तु ते स्युरीहामृगा इति ॥१६॥
निर्यूहो हर्म्यदेशाद्यः काष्ठानामुपनिर्गमः ।
वलीकमिति विज्ञेयं काष्ठं छेदाद्विनिर्गतम् ॥१७॥
छन्नैश्चतुर्भिः पार्श्वैर्यत्तच्चतुश्शालमुच्यते ।
त्रिभिस्त्रिशालं तत्प्राहुर्द्वाभ्यां तत्स्याद्द्विशालकम् ॥१८॥
एकशालकमेकेन च्छन्नेन गृहमुच्यते ।
गृहमेकं तु यच्छन्नं सर्वं शालेति सा स्मृता ॥१९॥
शालानां यत्पुनर्मध्यं वापी पुष्करिणी च सा ।
संछन्ना चापि यस्य स्यात्तद्गर्भगृहमुच्यते ॥२०॥
गृहे महाजनस्थानं त्रिकुड्यं यत्प्रकल्पितम् ।
उपस्थानं तदत्राहुः स्याच्चोपस्थानकं लघु ॥२१॥
प्रासादस्तु स एव स्यादल्पा प्रासादिका स्मृता ।
दीर्घप्रासादिका यासौ वलभीत्यभिधीयते ॥२२॥
शालाग्रे वलभी या स्यादलिन्देति वदन्ति ताम् ।
शालां विना तु वलभी वलभेति निगद्यते ॥२३॥
अल्पाल्पास्तु चतुष्कुड्या ये तेऽपवरका मताः ।
गृहे चाभ्यन्तरस्थानं शुद्धान्त इति कीर्त्यते ॥२४॥
प्रतोलीं तां विदुर्लोकः सुरङ्गामिव यां वसेत् ।
सा कक्षेत्युदिता तज्ज्ञैर्यदवस्थान्तरं गृहे ॥२५॥
यदुपस्थानकं नाम ये चापवरकास्तथा ।
ते कोष्ठका या तु कण्ठा कुड्यं भित्तिश्चयश्च सा ॥२६॥
भक्तशाला भवेद्या तु तन्महानसमुच्यते ।
यच्छन्नं द्वारदेशे तु तमाहुर्द्वारकोष्ठकम् ॥२७॥
प्रवेशनमिति प्राहुर्द्वारनिर्गमनं तथा ।
जलनिर्गमनस्थानं विज्ञेयमुदकभ्रमः ॥२८॥
भवनस्याङ्गणं यत्तु तदाहुर्भवनाजिरम् ।
वनाजिरं वनमही त्वाश्रमाजिरमाश्रमे ॥२९॥
उत्तरोदुम्बरस्याधः श्लिष्टां मध्ये च कुड्ययोः ।
तज्ज्ञास्तां देहलीत्याहुः कपाटाश्रयमेव च ॥३०॥
कपाटं द्वारपक्षः स्यात्कपाटपुटमेव च ।
पक्षः पिधानावरणो द्वारसंवरणं तथा ॥३१॥
कपाटं संपुटस्ते द्वे कपाटयुगलं च तत् ।
कलिका द्वारबन्धार्था या स्यात्तामर्गलां विदुः ॥३२॥
सा स्यादर्गलसूचीति यदि दीर्घा प्रमाणतः ।
पुराणां सा तु परिघः फलिहो गजवारणम् ॥३३॥
छिद्रै र्गवाक्षप्रतिमैश्छिद्रि तं सर्वतस्तु यत् ।
फलकं तद्गवाक्षः स्याज्जालमित्यपि कथ्यते ॥३४॥
हर्म्यद्वारे गृहद्वारे तथा हर्म्यावलोकने ।
प्राकारान्तरपृष्ठे तु या च प्रासादिका भवेत् ॥३५॥
पार्श्वयोरुभयोरेषां फलकद्वयमुच्छ्रितम् ।
उपर्युपरि संक्षिप्तमर्धचन्द्र द्वयाकृति ॥३६॥
आनने द्वे यथा चास्मिन् श्लिष्टैरग्र्यैर्महाधरैः ।
तयोरुपरि सन्धौ च तारकाकृति मण्डलम् ॥३७॥
तत्तोरणमिति प्रोक्तं यच्च तेन परिष्कृतम् ।
सुवर्णतोरणं च स्यान्मणितोरणमेव च ॥३८॥
पुष्पतोरणमप्येतत्क्रियते पुष्पकादिभिः ।
तोरणाग्रे ठकारो यः सिंहकणः स उच्यते ॥३९॥
नाम्ना संयमनानीति गृहसञ्चरभूमयः ।
गृहस्य पार्श्वे यद्यस्मिंस्तत्तत्संयमनं विदुः ॥४०॥
भित्तेर्यद्वाथ दारूणां तरङ्गाग्रवदानतम् ।
मरालपाली सा हर्म्यात्प्रणाली निर्गमोऽम्भसः ॥४१॥
स चा प्राकार इत्युक्तः कण्ठः स्यादङ्गणस्य यः ।
द्वारस्य तु समीपं यत्प्रद्वारं तदिहोच्यते ॥४२॥
यदिष्टकचितं मूले द्वारस्य भवति स्थलम् ।
दीर्घं वा ह्रस्वमथवा तदास्थलकमिष्यते ॥४३॥
मूत्रभूमिरमेध्येति वर्चस्कोऽवस्करस्तथा ।
गृहाच्च भित्तिसामान्यं बाह्यं परिसरो मतः ॥४४॥
विस्तीर्णमुच्छ्रितं यत्स्याद्वेश्म सोऽट्ट उदाहृतः ।
संक्षिप्तमेतदेवोक्तं तज्ज्ञैरट्टालकाख्यया ॥४५॥
तदेवात्यन्तसंक्षिप्तमट्टालीति निगद्यते ।
अट्टाली या तु नात्युच्चा तामत्राट्टालिकां विदुः ॥४६॥
एकनाडीगतच्छिद्रैः काष्ठनालैः परिश्रितम् ।
यत्र काष्ठप्रणालीति छदपृष्ठेऽम्बु धावति ॥४७॥
स्तम्भशीर्षकरूपाणि काष्ठमूलाश्रितानि च ।
सुषिराणि प्रयत्नेन काष्ठनाडीमुखान्तरैः ॥४८॥
रूपाणामथ तेषां तु स्तननासामुखाक्षिभिः ।
नानास्थानस्थितानां च वृषवानरदंष्ट्रिणाम् ॥४९॥
कृतसूक्ष्मान्तरच्छिद्रैः प्रवर्षति समन्ततः ।
तद्धारागृहमित्युक्तं धारागारादिनामभृत् ॥५०॥
कांस्यैर्लोहैस्तथा पट्टैर्निर्मृष्टादर्शनिर्मलैः ।
निचिता यस्य भित्तिः स्यात्तद्दर्पणगृहं विदुः ॥५१॥
पक्षद्वारं तदत्राहुर्यन्महाद्वारतोऽपरम् ।
यत्प्राकाराश्रितं द्वारं पुरे तद्गोपुरं विदुः ॥५२॥
निर्गताश्चोच्छ्रिताश्चैव प्राकारस्यान्तरान्तरा ।
उपकार्या इति प्रोक्ताः क्षेमाश्चाट्टालका मताः ॥५३॥
चयप्रकारशालाः स्युः पुरीसंवरणाभिधाः ।
प्राकारादनुपालास्तु प्राकार उपनिष्कलाः ॥५४॥
क्रीडागृहं यदारामे तदुद्यानं प्रचक्षते ।
तीरेऽम्भसो जलोद्यानं जलवेश्माम्बुमध्यगम् ॥५५॥
क्रीडागृहं यदत्रोक्तं क्रीडागारं तदुच्यते ।
विहारभूमिराक्रीडभूमिरित्यभिधीयते ॥५६॥
देवधिष्ण्यं सुरस्थानं चैत्यमर्चागृहं च तत् ।
देवतायतनं प्राहुर्विबुधागारमित्यपि ॥५७॥
छन्नं भवेद्यत्तु महाजनस्य स्थानं सभा सा कथिता च शाला ।
गवां पुनर्मन्दिरमत्र गोष्ठमाचक्षते वास्तुनिवेशविज्ञाः ॥५८॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे नगरकर्वटग्रामगृहायतनसंज्ञा नामाष्टादशोऽध्यायः ।
N/A
References : N/A
Last Updated : November 26, 2017
TOP