संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
महदादिसर्गश्चतुर्थोऽध्यायः

महदादिसर्गश्चतुर्थोऽध्यायः

समराङ्गणसूत्रधार हा भारतीय वास्तुशास्त्र सम्बन्धित ज्ञानकोशीय ग्रन्थ आहे, ज्याची रचना धार राज्याचे परमार राजा भोज (1000–1055 इ.स.) यांनी केली होती.


N/Aजयस्येति समाकर्ण्य विश्वकर्मा च तद्वचः ।
जगाद गर्जदम्भोदध्वनिगम्भीरया गिरा ॥१॥
साधु वत्स त्वया सम्यक् प्रज्ञयातिविशुद्धया ।
प्रश्नोऽयमीरितो वास्तुविद्याब्जवनभास्करः ॥२॥
स त्वं निधाय प्रश्नानां समुदायममुं हृदि ।
वदतो मेऽवधानेन शृणु यद्ब्रह्मणोदितम् ॥३॥
इदमासीद्युगान्ताग्निप्लुष्टं संवर्तकादिभिः ।
समुत्सृजद्भिरम्भांसि विश्वमेकार्णवीकृतम् ॥४॥
तमोभूते ततस्तस्मिन् भोगपर्यङ्कमाश्रितः ।
हरिः सुष्वाप सलिले कृत्वोदरगतं जगत् ॥५॥
अथास्य नाभावम्भोजमभूत् तस्मिन्नगायत ।
सर्वज्ञानाश्रयः श्रीमांश्चतुर्वक्त्रः सुरेश्वरः ॥६॥
स कदाचिद् दधच्चेतः प्रजासृष्टिं प्रति प्रभुः ।
महान्तमसृजत् तत्र पूर्वं विश्वस्य हेतवे ॥७॥
त्रिधाहङ्कृतमेतस्मान्मनोऽभूत् सात्त्विकादतः ।
राजसादपि चाक्षाणि तन्मात्राणि च तामसात् ॥८॥
तेभ्यः पञ्च महाभूतान्याविरासन्ननुक्रमात् ।
व्योमादीनि धरान्तानि स्वैः स्वैर्युक्तानि तैर्गुणैः ॥९॥
अधरोत्तरभावश्च सम्यगेषामथोच्यते ।
आदौ पृथ्वी ततोऽधस्तादापस्तासां च पावकः ॥१०॥
तस्याप्यधस्तात्पवनस्ततः खमवकाशदम् ।
भूतादिस्थं वियत्सोऽपि महता परिवारितः ॥११॥
महांश्च विशति व्यक्तं व्यक्तमव्यक्तकं पुनः ।
ग्राह्यग्राहकभावेन व्यक्तो भूतसमुद्भवः ॥१२॥
आधाराधार्यभावश्च यथार्थौ च स्थितिव्ययौ ।
महाभूतानि सदुणान्येवं सृष्ट्वा ततः प्रभुः ॥१३॥
मनः पुनरसौ सर्गे भौतिके सम्यगादधौ ।
सुरासुरान् सगन्धर्वान् यक्षरक्षांसि पन्नगान् ॥१४॥
नागान् मुनीनप्सरसो मनसा समजीजनत् ।
अर्केन्दू चक्षुषो जातौ गगनभ्रमणक्षमौ ॥१५॥
गात्रेभ्योऽपि च नक्षत्रचक्रमस्मादजायत ।
इन्द्रि येभ्यश्च पञ्चभ्योऽभूत्ताराग्रहपञ्चकम् ॥१६॥
ग्रहत्वं पुनरेतेषामिन्द्रि यग्रहणाद्विदुः ।
सुरेन्द्र चापचिह्नानां विद्युद्वलयशालिनाम् ॥१७॥
भीमाशनिभृतां चासीत्केशेभ्योऽम्बुमुचां भवः ।
विश्वमापूरयन् कृत्स्नमाविरासीत्तदिच्छया ॥१८॥
त्रिलोकीपावनस्तिर्यग्गामी चण्डः समीरणः ।
ततश्चण्डानिलोद्धूतमुपर्यर्कांशुतापितम् ॥१९॥
वायुभिः शोषमानीतं जगाम घनतां पयः ।
तस्योपरिष्टादम्भोधेरधः कुण्डलितं वपुः ॥२०॥
विष्णोः सज्यात्वमभ्येत्य धत्तेऽनन्तोऽखिलां भुवम् ।
न तप्तं येषु येष्वम्भः प्रदेशेष्वर्करश्मिभिः ॥२१॥
नीतं न वानिलैः शोषं तत्र तत्राब्धयोऽभवन् ।
महाम्भोवीचिसङ्घाता विक्षिप्ताश्चण्डमारुतैः ॥२२॥
यत्र यत्रापुरैक्यं ते तत्र तत्राद्र योऽभवन् ।
निश्चलत्वार्थमवनिश्चर्मवद्वितताथ तैः ॥२३॥
शैलैः कीलैरिव स्थानेष्वाचिता तेषु तेष्वियम् ।
वृद्धिं गताद्रि निःष्यन्दैर्भूभृतां प्रविभागजा ॥२४॥
निम्नगाभूत्ततोऽम्भोधेः कान्ता निम्नानुसारिणी ।
मेदिन्यन्तेषु जलधिपर्यन्तेषु विनिर्ययुः ॥२५॥
अम्भांसि यत्र यत्रासंस्ते द्वीपाश्चित्ररूपिणः ।
सनिम्नगाम्बुधिद्वीपा विभक्ताखिलभूधरा ॥२६॥
व्यक्ता बभूव कृत्स्नैवं भूमिर्भूतानि बिभ्रती ।
स चक्रे रौरवादीनां निरयाणामधः क्षितेः ॥२७॥
स्वकर्मफलभुक्त्यर्थं स्थानं दुष्कृतकर्मणाम् ।
जरायुजाण्डजोद्भिज्जस्वेदजैः सह स प्रभुः ॥२८॥
चतुर्धेत्यसृजल्लोके भूतग्रामं चराचरम् ।
द्वेधा जरायुजास्तत्र मनुष्याः पशवस्तथा ॥२९॥
ग्राम्याः सप्ताभवंस्तेषु सप्तारण्यकृतालयाः ।
पुमान् गौस्तुरगच्छागौ मेषो वेगसरः खरः ॥३०॥
ग्रामवासैकनिरताः सप्तैते परिकीर्तिताः ।
सिंहद्विपोष्ट्रमहिषाः शरभो गवयः कपिः ॥३१॥
अरण्यगोचरा जीवाः सप्तैते वत्स निर्मिताः ।
धर्माधर्मविवेकित्वाच्छ्रेयान् ग्राम्येषु पूरुषः ॥३२॥
अरण्यचारिषु श्रेष्ठः सिंहः शौर्यबलादिभिः  ।
सुपर्णा भुजगाः कीटा येऽपि च स्युः पिपीलिकाः ॥३३॥
चतुर्धेत्यण्डजन्मानो जन्मिनस्ते प्रकीर्त्तिताः ।
क्लेदकेशसमुद्भूताः कृमियूकादिजन्तवः ॥३४॥
सर्वेऽपि स्वेदजन्मानस्ते प्रजापतिना कृताः ।
उद्भिज्जाः पञ्चधा भूत्वा निर्दिष्टाः स्थावराश्च ते ॥३५॥
द्रुमा वल्ल्यश्च गुल्माश्च वंशाः सतृणजातयः ।
छन्नान्तःकरणत्वं च स्वस्थानात्त्यागितापि च ॥३६॥
छिन्नप्ररोहिता चैषां वैशेषिकगुणत्रयम् ।
गायत्री भूतसंज्ञैषां चतुर्विंशतिपर्विका ॥३७॥
ज्ञात्वैनां पुरुषः पुण्यां भवति स्वर्गभाजनम् ।
भुवनभूजलवह्निमरुद्वियत्प्रमुख एष भवस्तव कीर्त्तितः ।
वंसुमतीपरिमाणविनिश्चयं कथयतः शृणु सम्प्रति वत्स मे ॥३८॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे महदादिसङ्गाध्यायश्चतुर्थः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP