संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
राजनिवेशो नाम पञ्चदशोऽध्यायः

राजनिवेशो नाम पञ्चदशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


कृते पुरनिवेशेऽथ चतुःषष्टिपदाश्रये ।
नियुक्तपरिखासालगोपुराट्टालकेऽपि च ॥१॥
विभक्तरथ्ये परितः प्रविभाजितचत्वरे ।
क्रमादन्तर्बहिः कॢप्तदेवतायतनस्थितौ ॥२॥
प्रागुदक्प्रवणे देशे प्राग्द्वाराभ्युन्नतेऽथवा ।
यशः श्रीविजयाधायि मैत्रं पदमधिष्ठितम् ॥३॥
यथावर्णक्रमायातं चतुरश्रं समं शुभम् ।
पुरमध्यादपरतोदिक्स्थं कुर्यान्नृपालयम् ॥४॥
दुर्गेषु भूवशात्कार्यं यद्वा दिक्ष्वपरास्वपि ।
विवस्वद्भूधरार्यम्णां कार्यमन्यतमे पदे ॥५॥
त्रिचत्वारिंशता युक्ते ज्येष्ठं स्याद्द्वे धनुःशते ।
मध्यं शतं तु द्वाषष्टिः शतं साष्टकमन्तिमम् ॥६॥
ज्येष्ठे पुरे विधातव्यं ज्येष्ठं राजनिवेशनम् ।
मध्यमे मध्यमं कार्यं कानिष्ठं च कनीयसि ॥७॥
प्राकारपरिखागुप्तं चारुकान्ति समन्ततः ।
तमङ्गभ्रमनिर्यूहसुदृढाट्टालकान्वितम् ॥८॥
एकाशीत्या पदैर्भक्तं विधेयं नृपमन्दिरम् ।
राजमार्गं समाश्रित्य वास्तुद्वारमुदङ्मुखम् ॥९॥
युक्त्यानयैव कर्तव्यमन्यदिक्संश्रयेऽपि च ।
भल्लाटपदवर्त्यस्य गोपुरद्वारमिष्यते ॥१०॥
तत्पुरद्वारविस्तारोच्छ्रायसम्मितमिष्टदम् ।
महेन्द्रं द्वारमिच्छन्ति निविष्टस्य महीधरे ॥११॥
वैवस्वते पुष्पदन्तमर्यणि च गृहक्षतम् ।
अन्येष्वेषामपरतः प्रदक्षिणपदेष्वथ ॥१२॥
अन्यान्यपि स्वासु दिक्षु द्वाराण्येवं प्रकल्पयेत् ।
आभिमुख्ये च सर्वेषां शस्यन्ते गोपुराणि च ॥१३॥
तदीयनगरद्वाराद्विंशत्यंशोज्झितानि वा ।
पक्षद्वाराणि सुग्रीवे जयन्ते मुख्यनाम्नि च ॥१४॥
वितथेऽथ भ्रमांस्तद्वद्विदधीत प्रदक्षिणान् ।
वास्तौ विभक्ते पुरवत्कॢप्तेऽमरपदव्रजैः ॥१५॥
तत्र मैत्रपदस्थाने निवेशायावनीपतेः ।
प्रासादः प्राङ्मुखः कार्यो यथावत्पृथिवीञ्जयः ॥१६॥
श्रीवृक्षं सर्वतोभद्रं मुक्तकोणमथापरम् ।
यमिच्छेन्नृपतिः कुर्यात्प्रासादं शुभलक्षणम् ॥१७॥
शालापरिक्रमोपेतकर्मान्तैरपि चान्वितम् ।
तत्र प्राच्यां भवेद्गेहमादित्यपदसंश्रितम् ॥१८॥
धर्माधिकरणं सत्ये व्यवहारेक्षणाय च ।
भृशे च कोष्ठागारं स्यादम्बरे मृगपक्षिणाम् ॥१९॥
अग्नेः ककुभमाश्रित्य कार्यं वायोर्महानसम् ।
सभाजनाश्रयं पूष्णि विदध्याद्भोजनास्पदम् ॥२०॥
सावित्रे वाद्यशाला स्यात्सवितृस्थाश्च वन्दिनः ।
चर्माणि वितथे कुर्यात्तद्योग्यान्यायुधानि च ॥२१॥
स्वर्णरूप्यादिकर्मान्तान्विदधीत गृहक्षते ।
याम्ये दक्षिणतो गुप्तिं कोष्ठागारं च कल्पयेत् ॥२२॥
प्रेक्षासङ्गीतकानि स्युर्गन्धर्वे वासवेश्म च ।
कार्या वैवस्वते शाला रथानां दन्तिनां तथा ॥२३॥
पश्चिमोत्तरभागस्थां वापीमपि च कारयेत् ।
वायौ सुग्रीवपदयोर्गन्धर्वस्य च बाह्यतः ॥२४॥
कुर्यादन्तःपुरस्थानं प्राकारवलयावृतम् ।
कुर्यात्तद्गोपुरद्वारमुदगास्यं जयाभिधे ॥२५॥
कार्यः स्थपतिना चैव प्रासादश्चापराङ्मुखः ।
क्रीडादोलालयान्भृङ्गे कुमारीभवनं तथा ॥२६॥
नृपान्तःपुरमिच्छन्ति मृगे पित्र्ये त्ववस्करम् ।
नृपस्त्रीणामुपस्थानगृहमिन्द्र पदे विदुः ॥२७॥
सुग्रीवपदसंसक्तमरिष्टारमिष्टदम् ।
द्वास्थसुग्रीवपित्र्यं शपश्चाद्भागे मनोहरा ॥२८॥
विघेयाशोकवनिका स्नानधारागृहाणि च ।
लतामण्डपसंयुक्ताः स्युरत्रैव लतागृहाः ॥२९॥
दारुशैलाश्च वाप्यश्च पुष्पवीथ्यः सुकल्पिताः ।
पुष्पदन्ते भवेद्यन्त्रकर्मान्तः पुष्पवेश्म च ॥३०॥
वरुणस्य पदे कुर्याद्वापीपानगृहाणि च ।
स्यात्कोष्ठागारमसुरे शोषे त्वायुधमन्दिरम् ॥३१॥
भाण्डागारं तु रौद्रा ख्ये विदध्यात्स्थपतिः श्रिये ।
उलूखलशिलायन्त्रभवनं पापयक्ष्मणि ॥३२॥
दारुकर्मान्तमप्याहुः श्रेयसे राजयक्ष्मणि ।
स्यादोषधेरधिष्ठानं रोगे दिशि नभस्वतः ॥३३॥
नागानां शस्यते स्थानं पदे नागस्य सूरिभिः ।
भवन्ति मुख्ये व्यायामनाट्यचित्रगृहाणि च ॥३४॥
गवां स्थानं तथा क्षीरगृहं भल्लाटनामनि ।
उदक्प्रदेशे सौम्यस्य पुरोधःस्थानमिष्यते ॥३५॥
राज्ञोऽभिषेचनं चात्र दानाध्ययनशान्तयः ।
चामरच्छत्रधाम स्यान्मन्त्रवेश्म च भूधरे ॥३६॥
कार्यिणां चात्र कार्याणि स्थितः पश्येन्नराधिपः ।
विधेया मन्दुराश्वानामुत्तरं पार्श्वमाश्रिता ॥३७॥
महीधरपदस्यैव यथावद्दक्षिणामुखी ।
कार्या सर्वत्र चाश्वानां शाला राज्ञो यथागृहम् ॥३८॥
विशतो दक्षिणेन स्याद्वामेन च विषाणिनाम् ।
वेश्मानि राजपुत्राणां विदध्याच्चरकाभिधे ॥३९॥
अत्रैव विद्याधिगमशालाश्चैषां निवेशयेत् ।
नृपस्य मातुरदितिस्थाने कुर्यान्निवेशनम् ॥४०॥
पृथगत्रैव शिबिकाशय्यासनगृहं विदुः ।
नृपद्विपानां शस्ता स्यादापे सदनकल्पना ॥४१॥
अभिषेचनकं स्थानमिहैव स्याद्विषाणिनाम् ।
आपवत्सपदे हंसक्रौञ्चसारसनादिताः ॥४२॥
स्युः फुल्लाब्जवनाः स्वच्छसलिलाः सलिलाशयाः ।
पितृव्यमातुलादीनां कार्यं दितिपदे गृहम् ॥४३॥
अन्येषामपि चात्रैव सामन्तानां महीपतेः ।
ऐशान्यामनलस्थाने वोच्छ्रितस्तम्भवेदिकम् ॥४४॥
कार्यं देवकुलं चारु सुश्लिष्टमणिकुट्टिमम् ।
पर्जन्यस्य पदे होराज्योतिर्विद्गृहमिष्यते ॥४५॥
जये सेनापतेर्वेश्म विधेयं विजयप्रदम् ।
द्वारं प्राकारमाश्रित्य पदेऽर्यम्णः प्रशस्यते ॥४६॥
प्राग्दक्षिणाश्रितं शस्त्रकर्मान्तं शस्त्रमत्र च ।
विभुञ्चेद्ब्रह्मणः स्थानमिन्द्र ध्वजयुतं नृणाम् ॥४७॥
तत्राशुभानि वेश्मानि निवेशाश्चासुखावहाः ।
गवाक्षस्तम्भशोभिन्यो विधेयाश्चानुकामतः ॥४८॥
सभा यथादिक्प्रभवा नृपवेश्माभिगुप्तये ।
सर्वत्र नृपतेः सौधान्नृपसौधस्य सम्मुखा ॥४९॥
पश्चाद्भागाश्रिता यद्वा शाला कार्या विषाणिनाम् ।
इत्यास्पदं सुरपदास्पदकल्पमाद्य- ।
मेतद्यथावदनुतिष्ठति यः सदैव ।
स क्ष्मामिमां भुजबलक्षपितारिपक्षः ।
सप्ताम्बुराशिरशनां नृपतिः प्रशास्ति ॥५०॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे राजनिवेशो नाम पञ्चदशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP