संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| १५१ ते २१२ समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ इन्द्र ध्वजनिरूपणं नाम सप्तदशोऽध्यायः - १५१ ते २१२ समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार इन्द्र ध्वजनिरूपणं नाम सप्तदशोऽध्यायः - १५१ ते २१२ Translation - भाषांतर सर्वाशासंपदः श्रेष्ठा जायन्ते नैरृताश्रिते ।न स्याद्गर्भो वृथा तद्वद्वधबन्धभयं न च ॥१५१॥श्रिते प्राचेतसीमाशामस्मिञ्शूद्र जयो भवेत् ।क्षुत्तृष्णाग्निभयं न स्याद्वृष्टिरिष्टा च जायते ॥१५२॥द्रुमसस्यफलर्द्धिः स्यात्केतौ वायोः श्रिते दिशम् ।चतुष्पदविवृद्धिश्च रोगोच्छित्तिश्च जायते ॥१५३॥चतुर्णामपि वर्णानां सम्पत्स्यात्सौम्यदिग्गते ।विशेषात्सा द्विजेन्द्रा णां तथा सिध्यन्ति चाध्वराः ॥१५४॥ऐशीमाशां श्रिते धर्मपरो भवति पार्थिवः ।वृद्धिर्जनपदस्य स्यात्तथा पाषण्डिनामपि ॥१५५॥यदि किञ्चिद्व्रजेत्पूर्वं रज्ज्वाकृष्टः शतक्रतुः ।विजिगीषोर्नरेन्द्र स्य तदा यात्रा प्रसिध्यति ॥१५६॥प्रतिष्ठां लभते भूमौ भ्रमं भित्त्वा यदि ध्वजः ।सशैलकाननामुर्वीं तदा जयति पार्थिवः ॥१५७॥दिक्सर्पणे फलं प्रोक्तमित्यव्यङ्गस्य वज्रिणः ।विपरीतं तदेवोक्तं व्यङ्गस्य निखिलं पुनः ॥१५८॥यदि स्वलङ्कृतः पूर्वं योज्यमानः शतक्रतुः ।उत्क्षिप्तो रज्जुयन्त्रेण स्तोकमर्धे स्थितोऽपि वा ॥१५९॥शय्यायां यदि वा भूमावुत्सङ्गे वा पतत्यसौ ।तदा नृपं राजदारान् कुमारं वा विनाशयेत् ॥१६०॥उत्थितोऽर्धोत्थितो वापि यदि क्षुभ्यति कम्पते ।स्थानान्तरं व्रजेद्वापि सञ्चरेद्वा कथञ्चन ॥१६१॥विगृह्यते तदा भूपो भ्रश्यति स्थानतोऽपि वा ।भयाज्जनपदो वास्य चलत्येव न संशयः ॥१६२॥आकृष्टासु यदाष्टासु च्छिद्यते कापि रज्जुषु ।अमात्यमरणं तत्स्यादेकैकांशेन निश्चितम् ॥१६३॥मूलमध्याग्रभागे वा प्रोच्छ्रितो यदि भज्यते ।पौरसेनापतिनृपान् क्रमशो हन्त्यसौ तदा ॥१६४॥छत्रार्कवेणुगुल्मेन्द्र शीर्षकण्ठगुणा यदि ।पतन्ति भूमाविन्द्रो वा तदा हन्ति महीपतिम् ॥१६५॥नृपो वधमवाप्नोति तैर्भग्नैः पततैर्धुतैः ।अभग्नैर्विधुतैरेतैः क्षयं व्रजति साधनम् ॥१६६॥क्रमशो हन्युरादर्शवैजयन्तीन्दुतारकाः ।पतन्त्यो दृक्चमूनाथपुरोधःस्त्रीर्महीपतेः ॥१६७॥माल्यैर्विभूषणैर्यानैः शस्त्रवस्त्रफलाशनैः ।यान्ति केतुच्युतैरेतै राज्ञस्तान्येव संक्षयम् ॥१६८॥शीर्यते शक्रपिटकं कूटेभ्यः शक्रवेश्म वा ।यस्यां ककुभि तत्राहुर्हानिं पूर्वे विपश्चितः ॥१६९॥भङ्गे मृगालीलकटाक्षार्गलानामनुक्रमात् ।पीडा सञ्जायते वेश्यानृपतिश्रेष्ठिरक्षिणाम् ॥१७०॥भग्ना भ्रमाक्षपादैर्वा मल्लमातृकुमारिकाः ।राष्ट्रं हन्युर्नरेन्द्र स्य प्रियामातृसुतान् क्रमात् ॥१७१॥निर्घातोऽशनिरुल्का वा ध्वजे यदि पतेत् तदा ।अनावृष्टिभयं राज्ञः पराजयमथादिशेत् ॥१७२॥कुर्वन्ति मक्षिकाः शक्रे मधुच्छत्रं समुच्छ्रिते ।यस्मिंस्तत्र द्विषद्रो धं षण्मासाच्चादिशेत्पुरे ॥१७३॥मक्षिका वा खगा वा चेद्भ्रमेयुः पार्श्वतो हरेः ।प्रदक्षिणा बहिष्थानमासाद्याहुस्तदा मृतिम् ॥१७४॥गृध्रश्येनकपोताश्चेल्लीयन्ते शक्रमूर्धनि ।तदा कुर्वन्ति दुर्भिक्षविग्रहक्षितिपक्षयान् ॥१७५॥यदि केतौ निलीयन्ते कुररोलूकवायसाः ।राज्ञः क्रमात्तदा हन्युर्मन्त्रिपुत्रपुरोधसः ॥१७६॥मयूरो यदि वा हंसः समाश्रयति वासवम् ।समस्तलक्षणोपेतस्तदा स्यान्नृपतेः सुतः ॥१७७॥चक्री बलाका हंसी वा यदि केतौ निलीयते ।तदा नरपतिर्भार्यामवाप्नोत्यतिसुन्दरीम् ॥१७८॥खगैः सुवृष्ठिर्जलजैः सुभिक्षं स्यात्फलाशिभिः ।विष्ठाशिभिश्च दुर्भिक्षं भीतिः स्यात्पिशिताशिभिः ॥१७९॥यदि चित्रपटन्यस्ताः सुरयक्षोरगोत्तमाः ।विचित्राकृतिभिर्युक्ता वाहनायुधभूषणैः ॥१८०॥अष्टौ च ककुभो मूर्ताः प्रनृत्ताश्चाप्सरोगणाः ।सग्रहास्तारका मेघाः स्फीता नद्यस्तथाब्धयः ॥१८१॥वाप्यः पङ्केरुहच्छन्ना हंसवन्ति सरांसि च ।फलपुष्पावतंसानि वनान्युपवनानि च ॥१८२॥देवतायतनान्याद्यगोपुराणि पुराणि च ।भवनान्यतिशुभ्राणि शयनासनवन्ति च ॥१८३॥प्रहृष्टाः पार्थिवा भृत्या बलवाहनशालिनः ।पौरा जानपदा लोकाः क्रीडाभाजः कुमारकाः ॥१८४॥चत्वारो मुदिता वर्णा नटनर्तकशिल्पिनः ।सगोव्रजलतागुल्मद्रुमौषधिभृतो नगाः ॥१८५॥मृगपक्षिगणाः शस्ता मङ्गलान्यखिलानि च ।विचित्रापानवसुधाः फलभक्षाश्च पक्षिणः ॥१८६॥यथानिवेशं शोभन्ते तदा देशे पुरेऽपि च ।क्षेमारोग्यसुभिक्षाणि जयं राज्ञश्च निर्दिशेत् ॥१८७॥एतेषां कुट्टने पाते छेदे नाशेऽथवा हृतौ ।प्लोषे वाप्यशुभं वाच्यं यथायोनि यथादिशम् ॥१८८॥स्थिते वा पतिते वापि चित्रपट्टे भुवस्तले ।उपप्लवो नरेन्द्र स्य भवेज्जनपदस्य च ॥१८९॥राजते यद्यलङ्कारः सकलो यावदुत्सवम् ।अनस्तोऽविप्लुतश्चोर्वीं तदा कृत्स्नां जयेन्नृपः ॥१९०॥नटनर्तकसङ्घेषु प्रनृत्यत्सु पठत्सु च ।शुभे शुभं समादेश्यमितरस्मिन्नशोभनम् ॥१९१॥ये वर्गाः सम्प्रहृष्यन्ति मङ्गल्या गजवाजिनः ।सुवेषचेष्टालङ्काराः शुभं तेष्वादिशेद्ध्रुवम् ॥१९२॥अमङ्गलैषिणो ये स्युर्विकृता दीनचेतसः ।पुरुषा योषितो वापि निर्दिशेत् तेषु वैशसम् ॥१९३॥प्रभिन्नकरटा नागा बृहन्तस्तोयदा इव ।अदीनाश्च स्वतन्त्राश्च नृपतेर्विजयावहाः ॥१९४॥आलिखन्तः खुरैः क्षोणीं दक्षिणैर्हृष्टचेतसः ।हेषमाणा हयाश्चापि शंसन्ति नृपतेर्जयम् ॥१९५॥सतडिद्गर्जिताम्भोदा वृष्टिश्चेज्जायते तदा ।महीपतेर्जयं विद्यात्सुभिक्षं क्षेममेव च ॥१९६॥अथार्धरात्रे सम्प्राप्ते रोहिण्यां दशमेऽहनि ।शक्रस्य पातमिच्छन्ति मुनयः प्रतिवत्सरम् ॥१९७॥ततः समाजे निर्वृत्ते शक्रकेतौ प्रतिष्ठिते ।गन्धतोयैश्च पुष्पैश्च विदधीताम्बुसेवनम् ॥१९८॥अमेध्यैर्वस्त्रखण्डैर्वा भस्मकेशास्थिकर्दमैः ।यदा क्रीडन्ति मनुजा दुर्भिक्षं जायते तदा ॥१९९॥विप्राः प्राच्यां विलम्बेयुः पतन्तं वासवध्वजम् ।सुभिक्षं क्षेममारोग्यमन्यथा स्याद्विपर्ययः ॥२००॥अष्टाङ्गोक्तो ध्वजाङ्गे यो विशेषः सोऽथ कथ्यते ।पुरे ब्रह्मपुरात् प्राच्यामिन्द्र स्थानं विधीयते ॥२०१॥मात्राशयेन हस्तेन प्रमाणं तस्य कीर्तितम् ।चतुःषष्टिसमायामं चतुरश्रं समन्ततः ॥२०२॥एकाशीतिपदेनैव भजेत्क्षेत्रं विभागतः ।क्षेत्रस्यार्धेन कुर्वीत ध्वजायामं प्रमाणतः ॥२०३॥ततो वृद्धिर्विधातव्या हस्ते हस्तेऽङ्गुलं बुधैः ।अर्धाङ्गुलं वा वृद्धिः स्याद्ध्वजस्येन्द्र स्य कुत्रचित् ॥२०४॥तावद्वृद्धिर्विधातव्या यावत्क्षेत्रसमोऽङ्गुलैः ।ततः प्रमाणमाद्यं यत्तत्पुनर्विनियोजयेत् ॥२०५॥प्रमाणमङ्गुलैः केतोः स्याच्चत्वारिंशता मितम् ।तस्य संवत्सरे वृद्धिः कर्तव्या द्व्यङ्गुलैर्बुधैः ॥२०६॥ब्रह्मस्थाने च कुर्वीत ब्रह्मावर्त्तं विचक्षणः ।ब्रह्मणोऽनन्तरं प्राच्यां भवेद्दैवतमर्यमा ॥२०७॥तत्र यन्त्रस्य पादौ स्तः समुच्छ्रायेण षट्पदौ ।तस्यैव पश्चिमे भागे मित्रो भवति देवता ॥२०८॥ततः प्रभृति यन्त्रस्य वामवेधो नतो भवेत् ।पूर्वापरं च निम्नं स्यादेष यन्त्रविधिः स्मृतः ॥२०९॥यन्त्रस्य पश्चिमे भागे वरुणो दैवतं भवेत् ।वरुणस्य पदान्ते च वंशस्थे द्वे कुमारिके ॥२१०॥खानिले चतुरो हस्तान् दशहस्तोच्छ्रिते च ते ।रुद्र स्थाने च कर्तव्या कुमारी सुप्रतिष्ठिता ॥२११॥सोमयोगे चतुर्थी स्यादापभागे च पञ्चमी ।षष्ठी च सवितुर्भागे यमभागे च सप्तमी ॥२१२॥इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे इन्द्र ध्वजनिरूपणं नाम सप्तदशोऽध्यायः । N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP