मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः
समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।
इदानीं मण्डपानष्टौ ब्रूमः प्रासादसंस्थितान् ।
प्रासादं कल्पयेद्पूर्वं भागशुद्धं सुलक्षणम् ॥१॥
संवृतो वा भवेदेष व्यतिरिक्तोऽथवा क्वचित् ।
चतुरश्रो विभागैश्च घटंतेः य समंवृतः ॥२॥
पशुभागैर्विघटते व्यतिरिक्तः स कीर्तितः ।
गर्भो गर्भसमः शस्तः सोन्यघटोषमावहेत् ॥३॥
एवं निवेशयेदग्रे मण्डपान्येव सद्मतः ।
भजेच्छतपदाख्येन ज्येष्ठमध्यदनीयसः ॥४॥
मण्डपांस्तेषु भद्रः स्यान्नन्दनाख्यस्तथापरः ।
महेन्द्रो वर्धमानश्च स्वस्तिकः सर्वभद्र कः ॥५॥
महापद्मोऽष्टमश्चैषां गृहराजः प्रकीर्तितः ।
एते यथार्थनामानो लक्ष्मैतेषां प्रचक्ष्महे ॥६॥
प्रासादद्विगुणायामः पादोनद्विगुणायतः ।
कार्यो यस्तथा व्यर्थमग्रतः सुरमन्दिरात् ॥७॥
प्रासादोच्छ्रायतुल्यं वा कार्या मण्डपविस्तृतिः ।
शुकनासान्विताः कार्यास्ते चालिन्दसमन्विताः ॥८॥
अलिन्दः सर्वतोभागनिर्गता लावविस्तृताः ।
कदाचित्सार्धभागेन निष्क्रान्ता भागविस्तृता ॥९॥
--- भिर्भाजयेद्भागैर्भद्रं प्राज्ञः समन्ततः ।
शृङ्गाणि स्युर्द्विभागानि सहितान्युदकान्तरैः ॥१०॥
भागं प्रमा --- रादामूलतलमस्तकम् ।
शृङ्गेषु रथिका कार्या भागपादेन निर्गता ॥११॥
भागेनैकेन निष्क्रान्तं विस्तृतं चतुश्वतान् ।
मध्यभद्रं विधातव्यमाशासु चतसृष्वपि ॥१२॥
पीठं प्रासादपीठस्य नात्र कुर्वीत मण्डपे ।
तलपट्टे भवेच्छोकनाशोयाक्षितिरङ्गिका ॥१३॥
तलपट्टमधस्तस्या मण्डपस्य निवेशयेत् ।
कर्तव्यमेवमग्रेऽग्रे निम्नं निम्नतरं ततः ॥१४॥
अथवा तत्समं दद्यात्स्थपतिः शास्त्रवित्तमः ।
चतुभागायतद्वारं षड्द्वारुकसमन्वितम् ॥१५॥
अग्रभद्रं विधातव्यं चतुस्तम्भविभूषितम् ।
पृष्ठतश्च भवेदेवं संसृतिश्चैत्रमण्डपे ॥१६॥
संसृतेः शुकनासा स्याद्भूमिताः पृष्ठभद्र कम् ।
शेषं तथैव कर्तव्यं विधानं मण्डपस्य तु ॥१७॥
स भित्तिभिः परिक्षिप्तः कर्तव्यः पार्श्वयोर्द्वयोः ।
भागेन कल्पयेद्भित्तिं गवाक्षैरुपशोभिताम् ॥१८॥
वातायनाश्च कर्तव्याः सह चन्द्रा वलोकनैः ।
प्रासादद्वारवद्द्वारविस्तारो मण्डपे भवेत् ॥१९॥
सपादः सत्रिभागो वा सार्धः सौम्याथवा भवेत् ।
ऊर्ध्वद्वारविधिः कार्यो मूलद्वारानतिक्रमात् ॥२०॥
जालव्यालकपोतालीमत्तवारणकैर्युताः ।
भ्रमनिर्मापितैः स्तम्भैः कर्तव्याश्च गवाक्षकाः ॥२१॥
वातायनं तदर्धेन पादोनं द्वावलोकनम् ।
क्षणमध्ये प्रकुर्वीत चतुष्कीं विधिवच्छुभाम् ॥२२॥
क्षोभायां बाह्यतो रेखा क्षात्या द्र मं च विवर्जयेत् ।
दारुकर्मविधेर्मध्ये यथा स्यात्कथ्यते तथा ॥२३॥
समैः क्षणैः समैः स्तम्भैः समैश्चालिन्दकैर्युतः ।
समैः कर्णैश्च --- समद्र व्यविधानवान् ॥२४॥
षड्दारुकैस्तिरश्चीनैः कार्याः कैश्चिन्मुखायतैः ।
तुला समतला यद्वा प्रोत्क्षिप्रा मध्यदेशगा ॥२५॥
तुलाषड्दारुकाधीनांस्तदधीनानि तानि वा ।
केचिन्न्थानसंस्थानालीगतिर्युताप ॥२६॥
अथवा मध्यतः कार्या --- स्तम्भालिन्दवेष्टिताः ।
महाधरयुता कार्या चतुष्क्युभयतः समा ॥२७॥
गजतालुलुमाकर्म द्र व्यैः स्यादुत्तरोत्तरैः ।
एते नानाविधाः कार्या द्र व्यैरविकलैस्तथा ॥२८॥
या काचिद्रो चते प्राज्ञस्तामेकां कारयेत्क्रियाम् ।
क्षणान्तराण्यलङ्कुर्यादिल्लीतोरणकैस्तथा ॥२९॥
वज्रबन्धसमायुक्ता घण्टिकापल्लवैर्युताः ।
हारपद्मदलाकीर्णाः शालभञ्जीविराजिताः ॥३०॥
स्तम्भकाश्च विधातव्याः पञ्चाभरणभूषिताः ।
कण्ठकैरतिचित्रैश्च रथकैस्तोरणैः सह ॥३१॥
विधानैर्विचिधाकारै रूपकर्मोपशोभितैः ।
एवंविधा विधातव्या सीमातुल्यास्तुलोदयाः ॥३२॥
प्राग्ग्रीवकेष्वलिन्देषु मध्ये भागे च पार्श्वयोः ।
न तलानि विधीयन्ते यथाकामं क्रिया भवेत् ॥३३॥
सीमाद्वारे यथा वायोः प्रवेशं नैव पीडयेत् ।
तथाद्ध्वरिका कार्या पट्टस्योपर्यवस्थिता ॥३४॥
वेदिव्यालकपोताली मत्तवारणतुलोदयः ।
षड्द्वारुकं --- भद्रे तत्र कुर्वीत बुद्धिमान् ॥३५॥
बाह्यतो मण्डपेऽप्येवं मानतः कर्मतोऽपि च ।
कपोतालीवरण्डीभिस्तथाचान्तरपत्रकैः ॥३६॥
कर्णप्रासादकैश्चित्रैः कर्म स्याद्भद्र मण्डपे ।
उच्छ्रायस्य विवेचीयादशस्त्त्वन्यतमो बुधैः ॥३७॥
शिखरस्य त्रिभागेन पादोनैकेन वा भवेत् ।
उच्छ्रायो मण्डपस्यामः शुकनाससमुच्छ्रिते ॥३८॥
हर्म्यं वा तत्र कुर्वीत चारुकर्णोपशोभितम् ।
भद्र मण्डपलक्षणम् ।
चतुरश्रीकृते क्षेत्रे नन्दनं प्रविभाजयेत् ॥३९॥
भद्रं षड्भागमायामाश्चतुर्भागं तथा पव ।
भागभागं निष्क्रान्ते स्तम्भैः प्राग्ग्रीवकल्पितैः ॥४०॥
पञ्चभागायता ज्ञेया कर्णे भद्रा न्तरस्थिता ।
भित्तिः स्याद्भागविस्तारा सलिलान्तरसंयुता ॥४१॥
एवं चतुर्दिशं कार्यो नन्दनो मण्डपः सदा ।
नन्दनः ।
महेन्द्र स्य तलच्छन्दः कर्णौ लाङ्गलसंयुतौ ॥४२॥
चतुर्भागायतो दिक्षु दारुकर्मविभूषितः ।
द्विभागिकानि शृङ्गाणि क्षोभयेदुदकान्तरैः ॥४३॥
चतुर्भागायतं भाग --- मेकं तु निस्सृतम् ।
एकतश्च मुखं दद्याद्दारुकर्मपरिच्युतम् ॥४४॥
महेन्द्रः ।
नन्दनश्चेद्बहिभद्रै र्जलमार्गैर्विवर्जितः ।
भागद्वितयविस्तारो भागमेकं विनिगतौ ॥४५॥
प्राग्ग्रीवपार्श्वयोअर्दद्यादुच्छ्रायोर्ध्वपदस्थितौ ।
वोतयेनौ वा कुर्वीत वर्धमानस्तथा भवेत् ॥४६॥
वर्धमानः ।
पक्षद्वये नन्दनस्य भद्रे भित्त्याभिवेष्टयेत् ।
गवाक्षकैरलङ्कुर्यान्न कुर्यादुदकान्तरम् ॥४७॥
स्वस्तिकोऽयं समाख्यातः सर्वलक्षणलक्षितः ।
स्वस्तिकः ।
अथाभिधीयते सम्यक्सर्वतोभद्र लक्षणम् ॥४८॥
कर्णे कर्णे लाङ्गले चेत्सार्धभागद्वयायतम् ।
कार्या परस्परं तेषु दारुकर्मविकल्पना ॥४९॥
भागेनैकेन निर्यातं भागषट्केन चायतम् ।
षड्दारुकद्वयं भद्रं कारयेद् बाह्यवस्थितम् ॥५०॥
सर्वतोभद्रः ।
चतुरश्रीकृते क्षेत्रे --- प्राग्भागैर्विभाजयेत् ।
त्यक्त्वा तेस मध्ये कर्णेष्वादध्याल्लाङ्गलानि च ॥५१॥
चतुर्भागान्तरस्थानि षड्दारुयुतानि च ।
कर्तव्यं भागनिष्क्रान्तं दिक्षु भद्र चतुष्टयम् ॥५२॥
चतुष्पदस्तदायामात्सर्वतोऽलिन्दको बहिः ।
प्रतिभद्रा णि कुर्वीत चतुर्भागायतानि च ॥५३॥
निर्गतानिरभागेन दिक्षु स्तम्भान्वितानि च ।
इत्येतैर्लक्षणैर्युक्तो महापद्मः प्रकीर्तितः ॥५४॥
महापद्मः ।
चतुरश्रीकृते क्षेत्रे चतुष्कोणविभूषिते ।
अलिन्दावेष्टितं कुर्यात्प्राग्ग्रीवं मुखसंश्रितम् ॥५५॥
गवाक्षकाश्च कर्तव्यास्तथा चन्द्रा वलोकनाः ।
वातायनास्तथोद्द्योताः समन्ताद्रू पशोभिताः ॥५६॥
गृहराजक्रिया ह्येवं सर्वशोभासमन्विता ।
एवं लक्षणसंयुक्तमतृगोमपि मन्दिरम् ॥५७॥
गृहराजः ।
वृद्वरा शुकनासस्य शुकनासस्य मूलतः ।
कनीयसं मण्डपानां कर्तुरिच्छावशाद्भवेत् ॥५८॥
पार्श्वयोरुभयोस्तुल्यं विदध्यात्तिर्यगायतम् ।
व्यापिचक्षु रघनद्यापि वा --- ॥५९॥
प्रासादमसमं स्थानं विदध्यान्मण्डपं बहिः ।
यथापूर्व द्वारविस्तारविस्तीर्णास्तेषु कार्या गवाक्षकाः ॥६०॥
समा सपादपादोना सार्धा चोच्छ्रितिरायता ।
अष्टाङ्गुलब्रूमोपेता दशांशे द्वारविस्तृते ॥६१॥
विस्तारो मण्डपस्तम्भद्वारोच्छ्रायसमोच्छ्रितिः ।
गर्भव्यासो मण्डपस्य साष्टांशः सांश एव च ॥६२॥
सार्धो वा मण्डपस्यायं गर्भे --- ॥६३॥
।
--- कार्यति शक्त्या ।
यां देवसंयति स सद्मनि देवताना-
मास्तेऽप्सरोगणवृतः शरदां शतानि ॥६४॥
इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे मण्डपाध्यायो नाम षट्षष्टितमः ।
N/A
References : N/A
Last Updated : November 26, 2017
TOP