संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः

द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


अथ द्वासप्ततेर्ब्रूमस्त्रिशालानां यथाक्रमम् ।
अभिघानानि कार्त्स्न्येन लक्षणानि पृथक्पृथक् ॥१॥
मुख्यानि तेषु चत्वारि कथ्यन्ते तानि नामतः ।
हिरण्यनाभं सुक्षेत्रं चुल्ली पक्षघ्नमेव च ॥२॥
हिरण्यनाभमुत्कृष्टं हीनमुत्तरशालया ।
तत्स्याद्धनप्रदं भर्तुः सुक्षेत्रं पूर्वया विना ॥३॥
सुक्षेत्रं लक्षणोपेतमृद्धिवृद्धिप्रदं विभोः ।
चुल्ली दक्षिणया हीना शालया वित्तनाशिनी ॥४॥
पक्षघ्नं पश्चिमाहीनं वैरकृत्कुलनाशनम् ।
अलिन्दयोगादेतेषां लघुप्रस्तारयोगतः ॥५॥
मूषायोगाच्च भेदाः स्युरष्टादश पृथक्पृथक् ।
जाम्बूनदं हिरण्याख्यं रुक्माख्यं हेमसंज्ञितम् ॥६॥
कनकं काञ्चनं स्वर्णं सुवर्णं च ततः परम् ।
सन्तापसंज्ञं सारं च तथा चामीकराह्वयम् ॥७॥
तपनं तापनीयं च शातकुम्भमथापि च ।
हिरण्यनाभं कल्याणं भूषणं भूतिभूषणम् ॥८॥
भेदा हिरण्यनाभस्येत्यष्टादश भवन्त्यमी ।
नागं सूर्यप्रभाख्यं च मत्तवारणकं तथा ॥९॥
चतुर्थं केसरीत्युक्तं वासवं चेन्द्र मेव च ।
हरिंहँ सं सारसाण्डं कुञ्जरं तोयदं तथा ॥१०॥
मेघमालाभिधानं च धारासारं महोदरम् ।
कर्दमं नामतश्चान्यत् सुक्षेत्रं प्रकरं तथा ॥११॥
सुक्षेत्रानुगतान्याहुस्तथान्यद्धान्यपूरकम् ।
चुल्लीभेदानथ ब्रूमस्तेषामाद्यं भुजङ्गमम् ॥१२॥
निर्जीवाख्यं विहङ्गं च नकुलं पन्नगाह्वयम् ।
शतच्छिद्रं च सर्पं च कोपसंज्ञं भगन्दरम् ॥१३॥
उद्वेजनाख्यं सन्न्यासं निस्तोषं करुणाननम् ।
वारणं दारणं चुल्ली ककुदं कन्दरं तथा ॥१४॥
इति चुल्लीप्रभेदेषु मन्दिराणि दशाष्ट च ।
ब्रूमः पक्षघ्नसंबद्धगृहनामानि सम्प्रति ॥१५॥
राक्षसं ध्वान्तसंहारं देवारि सुरदारुणम् ।
घोषणं व्याघ्रशार्दूले शोषणाख्यं विशोषणम् ॥१६॥
मत्तदं च निरानन्दं शाकुनं विघ्ननिर्घृणे ।
रिपुसंहदपक्षघ्ने सुतघ्न वैरिपूरणम् ॥१७॥
इत्यष्टादश पक्षघ्नभेदाः प्रोक्ता यथाक्रमम् ।
हिरण्यनाभभेदेषु धन्यं जाम्बूनदं गृहम् ॥१८॥
आद्याद्याभिश्चतसृभिर्मूषाभिरुपलक्षितम् ।
यत्राद्याद्वित्रिपञ्चम्यो हिरण्यं नाम तच्छुभम् ॥१९॥
पञ्चम्याद्याद्वितुर्याभिः स्याद्रुक्मं रुक्मदं गृहम् ।
आद्यात्रितुर्यापञ्चम्यो यत्र तद्धेमसंज्ञितम् ॥२०॥
द्वित्रितुर्यापञ्चमीभिः कनकं कनकावहम् ।
साद्याभिर्द्वित्रिषष्ठीभिः काञ्चनं काञ्चनप्रदम् ॥२१॥
आद्याद्वितुर्याषष्ठीभिः स्वर्णं स्वर्णविवृद्धये ।
सुवर्णमाद्यात्रिचतुःषष्ठीभिः स्यात्सुवर्णदम् ॥२२॥
स्याद्द्वित्रितुर्याषष्ठीभिः सन्तापं तापशान्तिकृत् ।
आद्याद्विपञ्चमीषष्ठ्यो यत्र तत्सारमुत्तमम् ॥२३॥
चामीकरं त्रिषष्ठ्याद्यापञ्चमीभिर्गृहोत्तमम् ।
द्वित्रिषट्पञ्चमीभिः स्यात्तपनं नाम मन्दिरम् ॥२४॥
षट्तुर्याद्यापञ्चमीभिस्तापनीयमुदाहृतम् ।
शातकुम्भं द्विषट्पञ्चचतुर्थीभिर्भवेद्गृहम् ॥२५॥
हिरण्यनाभं त्रिचतुःपञ्चषष्ठीभिरीरितम् ।
कल्याणमाद्यात्रिचतुःपञ्चषष्ठीभिरुच्यते ॥२६॥
षट्पञ्चद्वित्रितुर्याभिर्भवेद् भूषणसंज्ञितम् ।
आद्याद्वित्रिचतुःपञ्चषष्ठीभिर्भूतभूषणम् ॥२७॥
अथ सुक्षेत्रभेदानां लक्षणान्यभिदध्महे ।
यत्राद्याद्वित्रितुर्याभिस्तन्नागं नाम मन्दिरम् ॥२८॥
यत्राद्याद्वित्रिपञ्चम्यस्तत्सूर्यप्रभमुच्यते ।
आद्याद्वितुर्यापञ्चम्यो यत्र तन्मत्तवारणम् ॥२९॥
आद्यात्रितुर्यापञ्चम्यो यत्र तत्केसरीं विदुः ।
वासवं पञ्चमीतुर्याद्वितीयाभिस्तदुच्यते ॥३०॥
षष्ठ्याद्यात्रिद्वितीयाभिरिन्द्र मन्दिरमीरितम् ।
आद्याद्वितुर्याषष्ठीभिर्हरिसंज्ञमुदाहृतम् ॥३१॥
आद्यात्रितुर्याषष्ठीभिर्हंससंज्ञं निवेशनम् ।
षष्ठीद्वित्रिचतुर्थीभिः सारसं नामतो भवेत् ॥३२॥
आद्याद्विपञ्चषष्ठीभिः कथयन्तीह कुञ्जरम् ।
आद्यात्रिपञ्चषष्ठीभिर्विज्ञेयं तोयदं गृहम् ॥३३॥
मेघमालं त्रिषट्पञ्चद्वितीयाभिरुदाहृतम् ।
धारासारं चतुःपञ्चषडाद्याभिर्भवेद्गृहम् ॥३४॥
द्विचतुःपञ्चषष्ठीभिर्महोदरमिति स्मृतम् ।
कर्दमं नाम षट्पञ्चत्रितुर्याभिर्जयावहम् ॥३५॥
षट्पञ्चतुर्यात्र्याद्याभिः सुक्षेत्रं स्याद्धनप्रदम् ।
द्वित्रिषट्पञ्चतुर्याभिर्भवेत्प्रकरमृद्धिदम् ॥३६॥
आद्याभिश्च षडेताभिर्विज्ञेयं धान्यपूरकम् ।
अष्टादशैते सुक्षेत्रगृहभेदाः प्रकीर्तिताः ॥३७॥
आद्याद्वित्रिचतुर्थीभिर्मूषाभिः स्याद्भुजङ्गमम् ।
निर्जीवमाद्यापञ्चत्रिद्वितीयाभिर्निवेशनम् ॥३८॥
आद्याद्विपञ्चतुर्याभिर्वहन्तीभिर्विदन्तीह विहङ्गमम् ।
पञ्चाद्यात्रिचतुर्थीभिर्मूषाभिर्नकुलं विदुः ॥३९॥
पञ्चद्वित्रिचतुर्थीभिः पन्नगं नामतो भवेत् ।
शतच्छिद्रं षडाद्यात्रिद्वितीयाभिर्भवेद्गृहम् ॥४०॥
आद्याद्वितुर्याषष्ठीभिः सर्पमित्यभिधीयते ।
आद्यात्रिषट्चतुर्थीभिः कोपमित्यभिशब्दितम् ॥४१॥
षट्चतुस्त्रिद्वितीयाभिर्भवेद्वेश्म भगन्दरम् ।
आद्याद्विपञ्चषष्ठीभिरुद्वेजनमुदाहृतम् ॥४२॥
सन्न्यासमाद्यापञ्चत्रिषष्ठीभिर्भवनाधमम् ।
द्वित्रिषट्पञ्चमीभिस्तु निस्तोयमभिधीयते ॥४३॥
तुर्याद्यापञ्चषष्ठीभिः करुणाननमुच्यते ।
द्विचतुःपञ्चषष्ठीभिर्वारणं मुखवारणम् ॥४४॥
त्रिचतुःपञ्चषष्ठीभिर्दारणं श्रीविदारणम् ।
चुल्ल्याद्यात्रिचतुःपञ्चषष्ठीभिर्वित्तनाशनम् ॥४५॥
षट्पञ्चद्वित्रितुर्याभिः ककुदं नाम मन्दिरम् ।
कन्दरं षट्चतुःपञ्चत्रिद्व्याद्याभिर्गृहाधमम् ॥४६॥
अथाष्टादश कथ्यन्ते भेदाः पक्षघ्नसंश्रयाः ।
तेषु राक्षसमाद्याद्वित्रिचतुर्थीभिरुच्यते ॥४७॥
पञ्चाद्याद्वितृतीयाभिर्ध्वान्तसंघातमीरितम् ।
पञ्चाद्याद्विचतुर्थीभिर्देवारीति निगद्यते ॥४८॥
आद्यात्रिपञ्चतुर्याभिर्विज्ञेयं देवदारुणम् ।
पञ्चत्रिद्विचतुर्थीभिर्घोषणं दुःखघोषणम् ॥४९॥
षडाद्याद्वितृतीयाभिर्व्याघ्रमित्यभिधीयते ।
आद्याद्वितुर्याषष्ठीभिः शार्दूलं स्यान्निवेशनम् ॥५०॥
आद्यात्रितुर्याषष्ठीभिः शोषणं पुत्रशोषणम् ।
षट्तुर्याद्वितृतीयाभिर्विजानीयाद्विशोषणम् ॥५१॥
आद्याद्विपञ्चषष्ठीभिर्मत्तदं नाम मन्दिरम् ।
निरानन्दाख्यमाद्यात्रिपञ्चषष्ठीभिरुच्यते ॥५२॥
पञ्चषड्द्वितृतीयाभिः शाकुनं नामतो भवेत् ।
विघ्नमाद्याचतुःपञ्चषष्ठीभिर्विघ्नवर्धनम् ॥५३॥
निर्घृणं षट्चतुःपञ्चद्वितीयाभिरसौख्यकृत् ।
त्रिचतुःपञ्चषष्ठीभिर्वदन्ति रिपुसंहदम् ॥५४॥
षट्पञ्चतुर्यात्र्याभिः पक्षघ्नं सुतनाशनम् ।
षट्पञ्चद्वित्रितुर्याभिः सुतघ्नं स्सुतसूदनम् ॥५५॥
षट्पञ्चद्वित्रितुर्याद्या यत्र तद्वैरिपूरणम् ।
पक्षघ्नस्यानुगान्येवं गृहाण्यष्टादश क्रमात् ॥५६॥
चतुराद्यास्त्रिशालेषु मूषा बाह्या न चान्तरा ।
स्याद्विनाद्यां द्वितीयां च त्रिशालं पञ्चभद्र कम् ।
बाह्यतः क्रममुत्सृज्य त्रिशालविधिरीरितः ॥५७॥
हिरण्यनाभादिनिकेतनानां चतुष्टयस्यैवममी प्रकाराः ।
द्विसप्ततिः कृत्स्नतयोपदिष्टाः प्रत्येकमष्टादशभेदकॢप्ताः ॥५८॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे द्वासप्ततित्रिशाललक्षणं नामैकविंशोध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP