भूमिखंडः - अध्यायः १२५
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
सूत उवाच-
वेनस्याज्ञां सुसंप्राप्य पृथुः परमधार्मिकः
संबभ्रे सर्वसंभारान्नानापुण्यान्नृपात्मजः ॥१॥
निमंत्र्य ब्राह्मणान्सर्वान्नानादेशोद्भवानपि
अथ वेन इयाजासावश्वमेधेन भूपतिः ॥२॥
दानान्यदाद्ब्राह्मणेभ्यो नानारूपाण्यनेकशः
जगाम वैष्णवं लोकं सकायो जगतीपतिः ॥३॥
विष्णुना सह धर्मात्मा नित्यमेव प्रवर्तते
एतद्वः सर्वमाख्यातं चरित्रं तस्य भूपतेः ॥४॥
सर्वपापप्रशमनं सर्वदुःखविनाशनम्
पृथुरेव स धर्मात्मा राजा पृथ्वीं प्रशासति ॥५॥
त्रैलोक्येन समं पृथ्वीं दुदोह नृपसत्तमः
प्रजास्तु रंजितास्तेन पुण्यधर्मानुकर्मभिः ॥६॥
एतत्ते सर्वमाख्यातं भूमिखण्डमनुत्तमम्
प्रथमं सृष्टिखंडं तु द्वितीयं भूमिखंडकम् ॥७॥
भूमिखंडस्यमाहात्म्यं कथयिष्याम्यहं पुनः
अस्य खंडस्य वै श्लोकं यः शृणोति नरोत्तमः ॥८॥
दिनस्यैकस्य वै पापं तस्य चैव प्रणश्यति
यो नरो भावसंयुक्तोऽध्यायं संशृणुते सुधीः ॥९॥
तस्य पुण्यं प्रवक्ष्यामि श्रूयतां द्विजसत्तमाः
दत्तस्य गोसहस्रस्य ब्राह्मणेभ्यः सुपर्वणि ॥१०॥
यत्फलं तत्प्रजायेत विष्णुस्तस्य प्रसीदति
अस्य पद्मपुराणस्य पठमानस्य नित्यशः ॥११॥
कलौयुगे तु विघ्नाश्च न जायंते नरस्य वै
व्यास उवाच-
कस्मात्कलौ न जायंते शृण्वानस्य च पद्मज ॥१२॥
नरस्य पुण्ययुक्तस्य नाना विघ्नाः सुदारुणाः
ब्रह्मोवाच-
मखस्याप्यश्वमेधस्य यत्फलं परिकथ्यते ॥१३॥
तत्फलं दृश्यते तात पुराणे पद्मसंज्ञके
अश्वमेधमखः पुण्यः कलौ नैव प्रवर्तते ॥१४॥
पुराणं चापि यत्तद्वदश्वमेधसमं किल
अश्वमेधस्य यत्पुण्यं स्वर्गमोक्षफलप्रदम् ॥१५॥
न भुंजंति नराः पापाः पापमार्गेषु संस्थिताः
पुराणस्यास्य पुण्यस्य पद्मसंज्ञस्य सत्तम ॥१६॥
अश्वमेधसमं पुण्यं न भुंजंति कलौ नराः
कलौ युगे नरैः पापैर्गंतव्यं नरकार्णवम् ॥१७॥
कस्माच्छ्रोष्यंति तत्पुण्यं चतुर्वर्गप्रसाधनम्
येन श्रुतमिदं पुण्यं पुराणं पद्मसंज्ञकम् ॥१८॥
सर्वं हि साधितं तेन चतुर्वर्गस्य साधनम्
अश्वमेधादयो यज्ञास्तस्मान्नष्टा महामते ॥१९॥
कलौ युगे गताः स्वर्गे सवेदाः सांगसस्वराः
यः कोपि सत्वसंपन्नः श्रद्धावान्भगवत्परः ॥२०॥
श्रोतुमिच्छति धर्मात्मा सपुत्रो भार्यया सह
श्रवणार्थं महाश्रद्धा पूर्वं तस्य प्रजायते ॥२१॥
शृण्वानस्य नरस्यापि महाविघ्नो न संचरेत्
अश्रद्धा जायते पूर्वं पाठकस्य नरस्य च ॥२२॥
लोभश्च जायते तस्य शृण्वानस्य द्विजोत्तम
प्रेषितो विष्णुदेवेन महामोहः स दारुणः ॥२३॥
अकरोत्स विनाशं तु शृण्वतश्चास्य नित्यशः
दूषकाः कुत्सकाः पापाः संभवंति दिने दिने ॥२४॥
ज्ञातव्यं तु सुबुद्धेन विघ्नरूपं ममाधुना
संजातं दृश्यते व्यास तथा होमं समाचरेत् ॥२५॥
वैष्णवैश्च महामंत्रैर्विष्णुसूक्तैः सुपुण्यदैः
विष्णोरराटमंत्रेण सहस्रशीर्षकेण च ॥२६॥
इदं विष्णु सुमंत्रेण आब्रह्मेण पुनः पुनः
त्र्यंबकेन च मंत्रेण होममेवं समाचरेत् ॥२७॥
बृहत्साम्ना सुमंत्रेण द्वादशाक्षरकेण च
यस्य देवस्य यो होमस्तस्य मंत्रेण होमयेत् ॥२८॥
अष्टोत्तरतिलाज्यैश्च पालाशैः समिधैरपि
ग्रहाणामपि कर्त्तव्यं स्थापनं पूजनं द्विज ॥२९॥
विघ्नेशं पूजयेत्तत्र शारदां च सुरेश्वरीम्
जातवेदां महामायां चंडिकां क्षेत्रनायकम् ॥३०॥
तिलैश्च तंदुलैराज्यैस्तेषां मंत्रसमुद्यतैः
एवं होमः प्रकर्त्तव्यो ब्राह्मणेभ्यो ददेद्धनम् ॥३१॥
यथासंभाविकां तात दक्षिणां धेनुसंयुताम्
ततो विघ्नाः प्रणश्यंति पुराणं सिद्धिमाप्नुयात् ॥३२॥
एवं न कुरुते यो हि तस्य विघ्नं वदाम्यहम्
तस्यांगे जायते रोगो बहुपीडाप्रदायकः ॥३३॥
भार्या शोकः पुत्रशोको धनहानिः प्रजायते
नानाविधान्महारोगान्भुंजते नात्र संशयः ॥३४॥
यस्य गेहे नास्ति वित्तमुपवासं समाचरेत्
एकादशीं सुसंप्राप्य पूजयेन्मधुसूदनम् ॥३५॥
षोडशैश्चोपचारैश्च भावयुक्तेन चेतसा
ब्राह्मणान्भोजयेत्पश्चाद्यथावित्तानुसारतः ॥३६॥
केशवाय ततो दत्वा संकल्पं हविषान्वितम्
स्वयं कुर्यात्ततः प्राज्ञो भोजनं सह बांधवैः ॥३७॥
पुत्रैस्तु भार्यया युक्तस्ततः सिद्धिमवाप्नुयात्
पुराणसंहितापूर्णा श्रोतव्या धर्मतत्परैः ॥३८॥
चतुर्वर्गस्य वै सिद्धिर्जायते तस्य नान्यथा
सपादं लक्षमेकं तु ब्रह्माख्यं पुष्करं शृणु ॥३९॥
कृते युगे तु निष्पापाः शृण्वंति मनुजा द्विज
लक्षस्यार्द्धं ततः कृत्स्नं पुराणं पद्मसंज्ञकम् ॥४०॥
श्लोकानां तु सहस्राभ्यां द्वाभ्यामेव तथाधिकम्
त्रेतायुगे तथा प्राप्ते यदा श्रोष्यंति मानवाः ॥४१॥
चतुर्वर्गफलं भुक्त्वा ते यास्यंति हरिं पुनः
द्वाविंशतिसहस्राणि संहितापद्मसंज्ञिता ॥४२॥
द्वापरे कथिता विप्र ब्रह्मणा परमात्मना
द्वादशैव सहस्राणां पद्माख्या सा तु संहिता ॥४३॥
कलौ युगे पठिष्यंति मानवा विष्णुतत्पराः
एकोर्थश्चैकभावश्च चतुर्ष्वपि प्रवर्तितः ॥४४॥
संहितास्वेव विप्रेंद्र शेषाख्यानप्रविस्तरः
द्वादशैव सहस्राणि नाशं यास्यंति सत्तम ॥४५॥
कलौ युगे तु संप्राप्ते प्रथमं हि भविष्यति
भूमिखंडं नरः श्रुत्वासर्वपापैः प्रमुच्यते ॥४६॥
मुच्यते सर्वदुःखेभ्यः सर्वरोगैः प्रमुच्यते
अन्यत्सर्वं परित्यज्य जपं दानं तथा श्रुतम् ॥४७॥
श्रोतव्यं हि प्रयत्नेन पद्माख्यं पापनाशनम्
प्रथमं सृष्टिखंडं तु द्वितीयं भूमिखंडकम् ॥४८॥
तृतीयं स्वर्गखंडं च पातालं तु चतुर्थकम्
पंचमं चोत्तरं खंडं सर्वपापप्रणाशनम् ॥४९॥
यः शृणोति नरो भक्त्या पंचखंडान्यनुक्रमात्
गोप्रदानसहस्रस्य मानवो लभते फलम् ॥५०॥
महाभाग्येन लभ्यंते पंचखंडानि भूसुराः
श्रुतानि मोक्षदानि स्युः सत्यं सत्यं न संशयः ॥५१॥
इति श्रीपद्मपुराणे भूमिखंडे पंचपंचाशत्सहस्रसंहितायां वेनोपाख्याने पंचविंशत्यधिकशततमोऽध्यायः ॥१२५॥
N/A
References : N/A
Last Updated : October 29, 2020
TOP