भूमिखंडः - अध्यायः ११८
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
कपिंजल उवाच-
गंगामुखे पुरा तात रोदमाना वरांगना
नेत्राभ्यामश्रुबिंदूनि पतंति च महाजले ॥१॥
गंगामध्ये निमज्जंति भवंति कमलानि च
पुष्पाणि दिव्यरूपाणि सौगंधानि महांति च ॥२॥
तस्यास्तात सुनेत्राभ्यां किमर्थं प्रपतंति च
गंगोदके महाभाग निर्मला अश्रुबिंदवः ॥३॥
अस्थिचर्मावशेषस्तु जटाचीरधरः पुनः
तानि सौगंधयुक्तानि पद्मानि विचिनोति सः ॥४॥
हेमवर्णानि दिव्यानि नीत्वा शिवं समर्चयेत्
सा का नारी समाचक्ष्व स वा को हि महामते ॥५॥
अर्चयित्वा शिवं सोथ कस्मात्पश्चात्प्रदेवति
एतन्मे सर्वमाचक्ष्व यद्यहं वल्लभस्तव ॥६॥
कुंजल उवाच-
शृणु वत्स प्रवक्ष्यामि वृत्तांतं देवनिर्मितम्
चरित्रं सर्वपापघ्नं विष्णोश्चैव महात्मनः ॥७॥
योसौ हुंडो महावीर्यो नहुषेण हतो रणे
तस्य पुत्रस्तु विख्यातो विहुंडस्तप आस्थितः ॥८॥
निहतं पितरं श्रुत्वा सामात्यं सपरिच्छदम्
आयुपुत्रेण वीरेण नहुषेण बलीयसा ॥९॥
तपस्तपति सक्रोधाद्देवान्हंतुं समुद्यतः
पौरुषं तस्य दुष्टस्य तपसा वर्द्धितस्य च ॥१०॥
जानंति देवताः सर्वा दुःसहं समरांगणे
हुंडात्मजो विहुंडस्तु त्रैलोक्यं हंतुमुद्यतः ॥११॥
पितुर्वैरं करिष्यामि हनिष्ये मानवान्सुरान्
एवं समुद्यतः पापी देवब्राह्मणकंटकः ॥१२॥
उपद्रवं समारेभे प्रजाः पीडयते च सः
तस्यैव तेजसा दग्धा देवाश्चेंद्रपुरोगमाः ॥१३॥
शरणं देवदेवस्य जग्मुर्विष्णोर्महात्मनः
देवदेवं जगन्नाथं शंखचक्रगदाधरम् ॥१४॥
ऊचुश्च पाहि नो नित्यं विहुंडस्य महाभयात्
श्रीविष्णुरुवाच-
वर्द्धंतु देवताः सर्वाः सुसुखेन महेश्वराः ॥१५॥
विहुंडं नाशयिष्यामि पापिष्ठं देवकंटकम्
एवमाभाष्य तान्देवान्मायां कृत्वा जनार्दनः ॥१६॥
स्वयमेवस्थितस्तत्र नंदने सुमहायशाः
मायामयं चकाराथ स्त्रीरूपं च गुणान्वितम् ॥१७॥
विष्णुमाया महाभागा सर्वविश्वप्रमोहिनी
चकार रूपमतुलं विष्णोर्मायाप्रमोहिनी ॥१८॥
विहुंडस्य वधार्थाय रूपलावण्यशालिनी
कुंजल उवाच-
स देवानां वधार्थाय दिव्यमार्गं जगाम ह ॥१९॥
नंदनांते ततो मायामपश्यद्दितिजेश्वरः
तया विमोहितो दैत्यः कामबाणकृतांतरः ॥२०॥
आत्मनाशं न जानाति कालरूपां वरस्त्रियम्
तां दृष्ट्वा नवहेमाभां रूपद्रविणशालिनीम् ॥२१॥
लुब्धो विहुंडः पापात्मा तामुवाच वरांगनाम्
कासि कस्य वरारोहे ममचित्तप्रमाथिनि ॥२२॥
संगमं देहि मे भद्रे रक्षरक्ष वरानने
संगमात्तव देवेशि यद्यदिच्छसि सांप्रतम् ॥२३॥
तत्तद्दद्मि महाभागे दुर्लभं देवदानवैः
मायोवाच-
मामेव भोक्तुमिच्छा चेद्दायं मे देहि दानव ॥२४॥
सप्तकोटिमितैश्चैव पुष्पैः पूजय शंकरम्
कामोदसंभवैर्दिव्यैः सौगंधैर्देवदुर्लभैः ॥२५॥
तेषां पुष्पकृतां मालां मम कंठे तु दानव
आरोपय महाभाग एतद्दायं प्रदेहि मे ॥२६॥
तदाहं सुप्रिया भार्या भविष्यामि न संशयः
विहुंड उवाच-
एवं देवि करिष्यामि वरं दद्मि प्रयाचितम् ॥२७॥
वनानि यानि पुण्यानि दिव्यानि दितिजेश्वरः
बभ्राममन्मथाविष्टो न च पश्यति तं द्रुमम् ॥२८॥
कामोदकाख्यं पप्रच्छ यत्रतत्र गतः स्वयम्
कामोदाख्यद्रुमो नास्ति वदंत्येवं महाजनाः ॥२९॥
पृच्छमानः स दुष्टात्मा कामबाणैः प्रपीडितः
पप्रच्छ भार्गवं गत्वा भक्त्या नमित कंधरः ॥३०॥
कामोदकं द्रुमं ब्रूहि कांतं पुष्पसमन्वितम्
शुक्र उवाच-
कामोदः पादपो नास्ति योषिदेवास्ति दानव ॥३१॥
यदा सा हसते चैव प्रसंगेन प्रहर्षिता
तद्धासाज्जज्ञिरे दैत्य सुगंधीनि वराण्यपि ॥३२॥
सुमान्येतानि दिव्यानि कामोदाया न संशयः
हृद्यानि पीतपुष्पाणि सौरभेण युतानि च ॥३३॥
तेनाप्येकेन पुष्पेण यः समर्चति शंकरम्
तस्येप्सितं महाकामं संपूरयति शंकरः ॥३४॥
अस्याश्च रोदनाद्दैत्य प्रभवंति न संशयः
तादृशान्येव पुष्पाणि लोहितानि महांति च ॥३५॥
सौरभेण विना दैत्य तेषां स्पर्शं न कारयेत्
एवमाकर्णितं तेन वाक्यं शुक्रस्य भाषितम् ॥३६॥
उवाच सा तु कुत्रास्ति कामोदा भृगुनंदन
शुक्र उवाच-
गंगाद्वारे महापुण्ये महापातकनाशने ॥३७॥
कामोदाख्यं पुरं तत्र निर्मितं विश्वकर्मणा
कामोदपत्तने नारी दिव्यभोगैरलंकृता ॥३८॥
तथा चाभरणैर्भाति सर्वदेवैः सुपूजिता
त्वया तत्रैव गंतव्यं पूजितव्या वराप्सराः ॥३९॥
उपायेनापि पुण्येन तां प्रहासय दानव
एवमुक्त्वा तु योगींद्र सः शुक्रो दानवं प्रति ॥४०॥
विरराम महातेजाः स्वकार्यायोद्यतोऽभवत् ॥४१॥
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्यानेऽष्टादशाधिकशततमोऽध्यायः ॥११८॥
N/A
References : N/A
Last Updated : October 29, 2020
TOP