संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ४७ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ४७ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ४७ Translation - भाषांतर सुकलोवाच-सुदेवा चारुसर्वांगी तामुवाचाथ सूकरीम्पशुयोनिं गता त्वं हि कथं वदसि संस्कृतम् ॥१॥एवंविधं महाज्ञानं कस्माद्भूतं वदस्व मेकथं जानासि वै भर्तुश्चरित्रमात्मनः शुभे ॥२॥शूकर्युवाच-पशोर्भावेन मोहेन मुष्टाहं वरवर्णिनिनिहता खड्गबाणैश्च पतिता रणमूर्धनि ॥३॥मूर्च्छयाभिपरिक्लिन्ना ज्ञानहीना वराननेत्वयाभिषिक्ता येनाहं पुण्यहस्तेन सुंदरि ॥४॥पुण्योदकेन शीतेन तव हस्तगतेन वैअभिषिक्ते हि मे काये मोहो नष्टो विहाय माम् ॥५॥यथा विनाशं तेजोभिरंधकारः प्रयाति सःतथा तवाभिषेकेण मम पापं गतं शुभे ॥६॥प्रसादात्तव चार्वंगि लब्धं ज्ञानं पुरातनम्पुण्यां गतिं प्रयास्यामि इति ज्ञातं मया शुभे ॥७॥श्रूयतामभिधास्यामि पूर्वं वृत्तांतमात्मनःयत्कृतं तु मया भद्रे पापया दुष्कृतं बहु ॥८॥कलिंगाख्ये महादेशे श्रीपुरंनाम पत्तनम्सर्वसिद्धिसमाकीर्णं चतुर्वर्णनिषेवितम् ॥९॥वसति स्म द्विजः कोपि वसुदत्त इति श्रुतःब्रह्माचारपरोनित्यं सत्यधर्मपरायणः ॥१०॥वेदवेत्ता ज्ञानवेत्ता शुचिमान्गुणवान्धनीधनधान्यसमाकीर्णः पुत्रपौत्रैरलंकृतः ॥११॥तस्याहं तनया भद्रे सोदरैः स्वजनबांधवैःअलंकारैस्तु शृंगारैर्भूषितास्मि वरानने ॥१२॥सुदेवानाम मे तातश्चकार स महामतिःतस्याहं दयिता नित्यं पितुश्चापि महामते ॥१३॥रूपेणाप्रतिमा जाता संसारे नास्ति तादृशीरूपयौवनगर्वेण मत्ताहं चारुहासिनी ॥१४॥अहं कन्या सुरूपा वै सर्वालंकारशोभितामां च दृष्ट्वा ततो लोकाः सर्वे स्वजनवर्गकाः ॥१५॥मामेवं याचमानास्ते विवाहार्थे वराननेयाचिताहं द्विजैः सर्वैर्न ददाति पिता मम ॥१६॥स्नेहाच्चैव महाभागे मुमोह स महामतिःन दत्ताहं तदा तेन पित्रा चैव महात्मना ॥१७॥संप्राप्तं यौवनं बाले मयि भावसमन्वितम्रूपं मे तादृशं दृष्ट्वा मम माता सुदुःखिता ॥१८॥पितरं मे उवाचाथ कस्मात्कन्या न दीयतेत्वं कस्मै सुद्विजायैव ब्राह्मणाय महात्मने ॥१९॥देहि कन्यां महाभाग संप्राप्ता यौवनं त्वियम्वसुदत्तो द्विजश्रेष्ठः प्रत्युवाच द्विजोत्तमः ॥२०॥मातरं मे महाभागे श्रूयतां वचनं मममहामोहेनमुग्धोऽस्मि सुताया वरवर्णिनि ॥२१॥यो मे गृहस्थो विप्रो वै भविष्यति शुभे शृणुतस्मै कन्यां प्रदास्यामि जामात्रे तु न संशयः ॥२२॥मम प्राणप्रिया चैषा सुदेवा नात्र संशयःएवमूचे मदर्थे स वसुदत्तः पिता मम ॥२३॥कौशिकस्य कुले जातः सर्वविद्याविशारदःब्राह्मणानां गुणैर्युक्तः शीलवान्गुणवाञ्छुचिः ॥२४॥वेदाध्ययनसंपन्नं पठमानं हि सुस्वरम्भिक्षार्थं द्वारमायांतं पितृमातृविवर्जितम् ॥२५॥तं दृष्ट्वासमनुप्राप्तं रूपं वीक्ष्य महामतिःतं प्रोवाच पिता एवं को भवान्वै भविष्यति ॥२६॥किं ते नाम कुलं गोत्रमाचारं वद सांप्रतम्समाकर्ण्य पितुर्वाक्यं वसुदत्तमुवाच सः ॥२७॥कौशिकस्यान्वये जातो वेदवेदांगपारगःशिवशर्मेति मे नाम पितृमातृविवर्जितः ॥२८॥संति मे भ्रातरश्चान्ये चत्वारो वेदपारगाःएवं कुलं समाख्यातमाचारः कुलसंभवः ॥२९॥एवं सर्वं समाख्यातं पितरं शिवशर्मणाशुभे लग्ने तिथौ प्राप्ते नक्षत्रे भगदैवते ॥३०॥पित्रा दत्तास्मि सुभगे तस्मै विप्राय वै तदापितृगेहे वसाम्येका तेन सार्धं महात्मना ॥३१॥नैव शुश्रूषितो भर्ता मया स पापया तदापितृमातृसुद्रव्येण गर्वेणापि प्रमोहिता ॥३२॥अंगसंवाहनं तस्य न कृतं हि मया कदारतिभावेन स्नेहेन वचनेन मया शुभे ॥३३॥क्रूरबुद्ध्या हि दृष्टोसौ सर्वदा पापया मयापुंश्चलीनां प्रसंगेन तद्भावं हि गता शुभे ॥३४॥मातापित्रोश्च भर्तुश्च भ्रातॄणां हितमेव चन करोम्यहमेवापि यत्रयत्र व्रजाम्यहम् ॥३५॥एवं मे दुष्कृतं दृष्ट्वा शिवशर्मा पतिर्ममस्नेहाच्छ्वशुरवर्गस्य मम भर्त्ता महामतिः ॥३६॥न किंचिद्वक्ति मां सोपि क्षमते दुष्कृतं ममवार्यमाणा कुटुंबेन अहमेवं सुपापिनी ॥३७॥तस्य शीलं विदित्वा ते साधुत्वं शिवशर्मणःपितामाता च मे सर्वे मम पापेन दुःखिताः ॥३८॥भर्त्ता मे दुष्कृतं दृष्ट्वा स्वगृहान्निर्गतो बहिःतं देशं ग्राममेनं च परित्यज्य गतस्ततः ॥३९॥गते भर्तरि मे तातः संजातश्चिंतयान्वितःमम दुःखेन दुःखात्मा यथा रोगेण पीडितः ॥४०॥मम माता उवाचैनं भर्तारं दुःखपीडितम्कस्माच्चिंतयसे कांत वद दुःखं ममाग्रतः ॥४१॥वसुदत्त उवाचैनां मातरं मम नंदनेसुतां त्यक्त्वा गतो विप्रो जामाता शृणु वल्लभे ॥४२॥इयं पापसमाचारा निर्घृणा पापचारिणीअनया हि परित्यक्तः शिवशर्मा महामतिः ॥४३॥समस्तस्य कुटुंबस्य दाक्षिण्येन महामतिःममायं स द्विजः कांते सुदेवां नैव भाषते ॥४४॥वसते सौम्यभावेन नैव निंदति कुत्सतिसुदेवां पापसंचारां स वै पंडितबुद्धिमान् ॥४५॥भविष्यति त्वियं दुष्टा सुदेवा कुलनाशिनीअहमेनां परित्यज्य व्रजामि गृहवासिनि ॥४६॥ब्राह्मण्युवाच-अद्य ज्ञातं त्वया कांत सुताया गुणदूषणम्तव मोहेन स्नेहेन नष्टेयं शृणु सांप्रतम् ॥४७॥तावद्विलाडयेत्पुत्रं यावत्स्यात्पंचवार्षिकःशिक्षाबुद्ध्या सदा कांत पुनर्मोहेन पोषयेत् ॥४८॥स्नानाच्छादनकैर्भक्ष्यैर्भोज्यैः पेयैर्न संशयःगुणेषु योजयेत्कांत सद्विद्यासु च तं सुतम् ॥४९॥गुणशिक्षार्थंनिर्मोहः पिता भवति सर्वदापालने पोषणे कांत संमोहः परिजायते ॥५०॥सगुणं न वदेत्पुत्रं कुत्सयेच्च दिनेदिनेकाठिन्यं च वदेन्नित्यं वचनैः परिपीडयेत् ॥५१॥यथाहि साधयेन्नित्यं सुविद्यां ज्ञानतत्परःअभिमानेच्छलेनापि पापं त्यक्त्वा प्रदूरतः ॥५२॥नैपुण्यं जायते नित्यं विद्यासु च गुणेषु चमाता च ताडयेत्कन्यां स्नुषां श्वश्रूर्विताडयेत् ॥५३॥गुरुश्च ताडयेच्छिष्यं ततः सिध्यंति नान्यथाभार्यां च ताडयेत्कांत अमात्यं नृपतिस्तथा ॥५४॥हयं च ताडयेद्धीरो गजं मात्रो दिनेदिनेशिक्षाबुद्ध्या प्रसिध्यंति ताडनात्पालनाद्विभो ॥५५॥त्वयेयं नाशिता नाथ सर्वदैव न संशयःसार्धं सुब्राह्मणेनापि भवता शिवशर्मणा ॥५६॥निरंकुशा कृता गेहे तेन नष्टा महामतेतावद्धि धारयेत्कन्यां गृहे कांतवचः शृणु ॥५७॥अष्टवर्षान्विता यावत्प्रबलां नैव धारयेत्पितुर्गेहस्थिता पुत्री यत्पापं हि प्रकुर्वती ॥५८॥उभाभ्यामपि तत्पापं पितृभ्यामपि विंदतितस्मान्न धार्यते कन्या समर्था निजमंदिरे ॥५९॥यस्य दत्ता भवेत्सा च तस्य गेहे प्रपोषयेत्तत्रस्था साधयेत्कांतं सगुणं भक्तिपूर्वकम् ॥६०॥कुलस्य जायते कीर्तिः पिता सुखेन जीवतितत्रस्था कुरुते पापं तत्पापं भुंजते पतिः ॥६१॥तत्रस्था वर्द्धते नित्यं पुत्रैः पौत्रैः सदैव सापिता कीर्तिमवाप्नोति सुतायाः सुगुणैः प्रिय ॥६२॥तस्मान्न धारयेत्कांत गेहे पुत्रीं सभर्तृकाम्इत्यर्थे श्रूयते कांत इतिहासो भविष्यति ॥६३॥अष्टविंशतिके प्राप्ते युगे द्वापरके महान्उग्रसेनस्य वीरस्य यदुज्येष्ठस्य यत्प्रभो ॥६४॥चरित्रं ते प्रवक्ष्यमि शृणुष्वैकमना द्विज ॥६५॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे सप्तचत्वारिंशोऽध्यायः ॥४७॥ N/A References : N/A Last Updated : October 26, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP