संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः १० भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः १० भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १० Translation - भाषांतर ऋषय ऊचुः-ततस्ते दानवाः सर्वे हिरण्यकशिपूत्तराःयुद्धाद्भग्नास्तु किं कुर्युर्व्यवसायं महामते ॥१॥विस्तरेणापि नो ब्रूहि तेषां वृत्तमनुत्तमम्श्रोतुमिच्छामहे सर्वे त्वत्तो वै सांप्रतं द्विज ॥२॥सूत उवाच-भग्ना रणात्तु ते सर्वे बलहीनास्तु वै तदागतदर्पाः सुदुःखार्ता दैत्यास्ते पितरं गताः ॥३॥भक्त्या प्रणम्य ते सर्वे समूचुः कश्यपं तदादानवा ऊचुः-भवद्वीर्यात्समुत्पत्तिरस्माकं द्विजसत्तम ॥४॥देवतानां महाभाग दानवानां तथैव चवयं च दानवाः सर्वे बलवीर्यपराक्रमाः ॥५॥उपायज्ञाः सुधीराश्च उद्यमेन समन्विताःवयं तु बहवस्तात देवास्त्वल्पास्तथैव च ॥६॥कथं जयंति ते सर्वे वयं भग्ना महाहवात्तत्किं वै कारणं तात बलतेजः समन्विताः ॥७॥मत्तनागसहस्राणामेकैकस्य महामतेबलमस्ति च दैत्यस्य नास्ति देवेषु तादृशम् ॥८॥जयश्च दृश्यते तात देवेष्वेव महाहवेतत्सर्वं कथयस्वैव संशयंछेत्तुमर्हसि ॥९॥कश्यप उवाच-शृणुध्वं पुत्रकाः सर्वे जयस्यापि च कारणम्यस्माद्धि देवताः सर्वे समरे जयिनोऽभवन् ॥१०॥वीर्यनिर्वापकस्तातो माताक्षेत्रमिदं सदाधारणे पालने चैव पोषणे च यथैव हि ॥११॥किं कुर्याद्विषमार्थे तु पिता पुत्रे च वै तथाअत्र प्रधानं कर्मैव मामेवं बुद्धिराश्रिता ॥१२॥द्वैविध्यं कर्मसंबंधं पापपुण्यसमुद्भवम्सत्यमेव समाश्रित्य क्रियते धर्म उत्तमः ॥१३॥तपोध्यानसमायुक्तं तारणाय हि तं सुताःपतनाय पातकं प्रोक्तं सर्वदैव न संशयः ॥१४॥बलेन परिवारेण आभिजात्येन पुत्रकाःपुण्यहीनस्य पुंसो वै तद्बलं विकलायते ॥१५॥उन्नता गिरिदुर्गेषु वृक्षाः संति सुपुत्रकाःपतंति वातवेगेन समूलास्तु घनास्तथा ॥१६॥सत्यधर्मविहीनास्ते तथायांति यमक्षयम्साधारणः प्राणिनां च धर्म एष सुपुत्रकाः ॥१७॥येन संतरते जंतुरिह चैव परत्र चतद्युष्माभिः परित्यक्तं सत्यं धर्मसमन्वितम् ॥१८॥अधर्ममास्थितं पुत्रा युष्माभिः सत्यवर्जितैःसत्यधर्मतपोभ्रष्टाः पतिता दुःखसागरे ॥१९॥देवाश्च सत्यसंपन्नाः श्रेयसा च समन्विताःतपः शांतिदमोपेताः सुपुण्या पापवर्जिताः ॥२०॥यत्र सत्यं च धर्मश्च तपः पुण्यं तथैव चयत्र विष्णुर्हृषीकेशो जयस्तत्र प्रदृश्यते ॥२१॥तेषां सहायः संभूतो वासुदेवः सनातनःतस्माज्जयंति ते देवाः सत्यधर्मसमन्विताः ॥२२॥सहायेन बलेनैव पौरुषेण तथैव चभवंतः किल वै पुत्रास्तपः सत्यविवर्जिताः ॥२३॥यस्य विष्णुः सहायश्च तपश्चैव बलं तथातस्यैव च जयो दृष्ट इति धर्मविदो विदुः ॥२४॥यूयं धर्मविहीनास्तु तपः सत्यविवर्जिताःऐंद्रं पदं बलेनैव प्राप्तवंतश्च पूर्वतः ॥२५॥तपो विना महाप्राज्ञा धर्मेण यशसा विनाबलदर्पगुणैः पुत्रा न प्राप्यमैन्द्रकं पदम् ॥२६॥प्राप्याप्यैंद्रं पदं पुत्रास्ततो भ्रष्टा भवंति हितस्माद्यूयं प्रकुर्वंतु तपः पुत्राः समन्विताः ॥२७॥अविरोधेन संयुक्ता ज्ञानध्यानसमन्विताःवैरं चैव न कर्तव्यं केशवेन समं कदा ॥२८॥एवंविधा यदा पुत्रा यूयं धन्या भविष्यथपरां सिद्धिं तदा सर्वे प्रयास्यथ न संशयः ॥२९॥एवं संभाषितास्ते तु कश्यपेन महात्मनासमाकर्ण्य पितुर्वाक्यं दानवास्ते महौजसः ॥३०॥प्रणम्य कश्यपं भक्त्या समुत्थाय त्वरान्विताःसुमंत्रं चक्रिरे दैत्याः परस्परसमाहिताः ॥३१॥हिरण्यकशिपू राजा तानुवाचाथ दानवान्तपश्चैव करिष्यामो दुष्करं सर्वदायकम् ॥३२॥हिरण्याक्षस्तदोवाच करिष्ये दारुणं तपःततो बलेन त्रैलोक्यं ग्रहीष्ये नात्र संशयः ॥३३॥रणे निर्जित्य गोविंदं तमिमं पापचेतसम्व्यापाद्य देवताः सर्वाः पदमैंद्रं व्रजाम्यहम् ॥३४॥बलिरुवाच-एवं न युज्यते कर्तुं युष्माभिर्दितिजेश्वराःविष्णुना सह यद्वैरं तद्वैरं नाशकारणम् ॥३५॥दानधर्मैस्तथा पुण्यैस्तपोभिर्यज्ञयाजनैःतमाराध्य हृषीकेशं सुखं गच्छंति मानवाः ॥३६॥हिरण्यकशिपुरुवाच-अहमेवं न करिष्ये हरेराराधनं कदास्वभावं तु परित्यज्य शत्रुसेवा प्रचर्यते ॥३७॥मरणादधिकं तं तु मानयंति हि पंडिताःविष्णोः सेवा न वै कार्या मया चान्यैश्च दानवैः ॥३८॥तमुवाच महात्मानं बलिः पितामहं पुनःधर्मशास्त्रेषु यद्दृष्टं मुनिभिस्तत्त्ववेदिभिः ॥३९॥राजनीतियुतं मंत्रं शत्रोश्चैव प्रधानतःहीनमात्मानमाज्ञाय रिपुं तं बलिनं तथा ॥४०॥तस्य पार्श्वे प्रगत्वैव जयकालं प्रतीक्षयेत्दीपच्छायां समाश्रित्य तमो वसति सर्वदा ॥४१॥स्नेहं दशागतं प्रेक्ष्य दीपस्यापि महाबलम्प्रकाशं याति वेगेन तमश्च वर्द्धते पुनः ॥४२॥तथा प्रसादयेच्छन्नः स्नेहं निर्दिश्य तत्त्वतःस्नेहं कृत्वासुरैः सार्द्धं धर्मभावैः सुरद्विषः ॥४३॥पूर्वमुक्तं सुमंत्रं तु मुनिना कश्यपेन हितेन मंत्रेण राजेंद्र कुरु कार्यं स्वमात्मवान् ॥४४॥तस्य तद्वचनं श्रुत्वा प्राह दैत्यः प्रतापवान्पौत्र नैवं करिष्येहं मानभंगं तथात्मनः ॥४५॥अन्ये च बांधवाः सर्वे तमूचुर्नयपंडितम्बलिनोक्तं च यत्पुण्यं देवतानां प्रियंकरम् ॥४६॥शक्रमानकरं प्रोक्तं दानवानां भयंकरम्करिष्यामो वयं सर्वे तप एवमनुत्तमम् ॥४७॥तपसा निर्जित्य देवान्हरिष्यामः स्वकं पदम्एवमामंत्र्य ते सर्वे निराकृत्य बलिं तदा ॥४८॥विष्णोः सार्द्धं महावैरं हृदि कृत्वा महासुराःतपश्चक्रुस्ततः सर्वे गिरिदुर्गेषु सानुषु ॥४९॥एवं ते दानवाः सर्वे त्यक्तरागाः सुनिश्चिताःकामक्रोधविहीनाश्च निराहारा जितक्लमाः ॥५०॥इति श्रीपद्मपुराणे भूमिखंडे दैत्यतपश्चर्यावर्णनंनाम दशमोऽध्यायः ॥१०॥ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP