संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ३९ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ३९ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ३९ Translation - भाषांतर ऋषय ऊचुः-कथं वेनो गतः स्वर्गं पापं त्यक्त्वा प्रदूरतःतन्नो विस्तरतोऽत्रापि वद सत्यवतां वर ॥१॥सूतउवाच-ऋषीणां पुण्यसंसर्गात्संवादाच्च द्विजोत्तमकायस्य मथनात्पापो बहिस्तस्य विनिर्गतः ॥२॥पश्चाद्वेनः स पुण्यात्मा ज्ञानं लेभे च शाश्वतम्रेवाया दक्षिणे कूले तपश्चचार स द्विजाः ॥३॥तृणबिन्दोर्ऋषेश्चैव आश्रमे पापनाशनेवर्षाणां तु शतं साग्रं कामक्रोधविवर्जितः ॥४॥तस्योग्रतपसादेवः शंखचक्रगदाधरःप्रसन्नोभून्महाभागा निष्पापस्य नृपस्य वै ॥५॥उवाच च प्रसन्नोऽस्मि व्रियतां वरउत्तमःवेन उवाच-यदि देव प्रसन्नोऽसि देहि मे वरमुत्तमम् ॥६॥अनेनापि शरीरेण गंतुमिच्छामि त्वत्पदम्पित्रा सार्धं महाभाग मात्रा चैव सुरेश्वरतवैव तेजसा देव तद्विष्णोः परमं पदम् ॥७॥श्रीवासुदेव उवाच-क्वगतोऽसौ महामोहो येन त्वं मोहितो नृपलोभेन मोहयुक्तेन तमोमार्गे निपातितः ॥८॥वेन उवाच-यन्मे पूर्वकृतं पापं तेनाहं मोहितो विभोअतो मामुद्धरास्मात्त्वं पापाच्चैव सुदारुणात् ॥९॥प्रजप्तव्यमथो पठ्यं तद्वदानुग्रहाद्विभोभगवानुवाच-साधु भूप महाभाग पापं ते नाशमागतम् ॥१०॥शुद्धोसि तपसा च त्वं ततः पुण्यं वदाम्यहम्पुरा वै ब्रह्मणा तात पृष्टोहं भवता यथा ॥११॥तस्मै यदुदितं वत्स तत्ते सर्वं वदाम्यहम्एकदा ब्रह्मणा ध्यानस्थितेन नाभिपंकजे ॥१२॥प्रादुरास तदा तस्य वरदानाय सुव्रततेन पृष्टं महत्पुण्यं स्तोत्रं पापप्रणाशनम् ॥१३॥वासुदेवाभिधानं च सुगतिप्रदमिच्छतास्तोत्राणां परमं तस्मै वासुदेवाभिधं महत् ॥१४॥सर्वसौख्यप्रदं नॄणां पठतां जपतां सदाउपादिशं महाभाग विष्णुप्रीतिकरं परम् ॥१५॥विष्णुरुवाच-एतत्सर्वं जगद्व्याप्तं मया त्वव्यक्तमूर्तिनाअतो मां मुनयः प्राहुर्विष्णुं विष्णुपरायणाः ॥१६॥वसंति यत्र भूतानि वसत्येषु च यो विभुःस वासुदेवो विज्ञेयो विद्वद्भिरहमादरात् ॥१७॥संकर्षति प्रजाश्चांते ह्यव्यक्ताय यतो विभुःततः संकर्षणो नाम्ना विज्ञेयः शरणागतैः ॥१८॥इंगिते कामरूपोहं बहु स्यामिति काम्ययाप्रद्युम्नोहं बुधैस्तस्माद्विज्ञेयोस्मि सुतार्थिभिः ॥१९॥अत्र लोके विना चेशौ सर्वेशौ हरकेशवौनिरुद्धोहं योगबलान्न केनातोनिरुद्धवत् ॥२०॥विश्वाख्योहं प्रतिजगज्ज्ञानविज्ञानसंयुतःअहमित्यभिमानी च जाग्रच्चिंतासमाकुलः ॥२१॥तैजसोहं जगच्चेष्टामयश्चेंद्रियरूपवान्ज्ञानकर्मसमुद्रिक्तः स्वप्नावस्थां गतो ह्यहम् ॥२२॥प्राज्ञोहमधिदैवात्मा विश्वाधिष्ठानगोचरःसुषुप्तावास्थितो लोकादुदासीनो विकल्पितः ॥२३॥तुरीयोऽहं निर्विकारी गुणावस्थाविवर्जितःनिर्लिप्तः साक्षिवद्विश्व प्रतिबिंबित विग्रहः ॥२४॥चिदाभासश्चिदानंदश्चिन्मयश्चित्स्वरूपवान्नित्योक्षरो ब्रह्मरूपो ब्रह्मन्नेवमवेहि माम् ॥२५॥भगवानुवाच-इत्युक्त्वांतर्दधे विष्णुः स्वरूपं ब्रह्मणे पुरासोपि ज्ञात्वा जगद्व्याप्तिं कृतात्मा समभूत्क्षणात् ॥२६॥राजंस्त्वमपि शुद्धात्मा पृथोर्जन्मन एव चतथाप्याराधय विभुं स्तोत्रेणानेन सुव्रत ॥२७॥तुष्टो विष्णुस्तमभ्याह वरं वरय मानदवेन उवाच-सुगतिं देहि मे विष्णो दुष्कृतात्तारयस्व माम् ॥२८॥शरणं त्वां प्रपन्नोस्मि कारणं वद सद्गतेःविष्णुरुवाच-पूर्वमेव महाभाग त्वंगेनापि महात्मना ॥२९॥अहमाराधितस्तेन तस्मै दत्तो वरो मयाप्रयास्यसि महाभाग वैष्णवं लोकमुत्तमम् ॥३०॥कर्मणा स्वेन विप्रेंद्र पुण्येन नृपनंदनआत्मार्थे त्वं महाभाग वरमेव प्रयाचय ॥३१॥शृणु वेन महाभाग वृत्तांतं पूर्वसंभवम्तव मात्रे पुरा दत्तः शापः क्रुद्धेन भूपते ॥३२॥सुशंखेन सुनीथायै बाल्ये पूर्वं महात्मनाततस्त्वंगे वरो दत्तो मयैव विदितात्मना ॥३३॥त्वां समुद्धर्त्तुकामेन सुपुत्रस्ते भविष्यतिएवमुक्त्वा तु पितरं तवाहं गुणवत्सल ॥३४॥भवदंगात्समुद्भूतः करिष्ये लोकपालनम्दिवींद्रो हि यथा भाति तथाहं भूतले स्थितः ॥३५॥आत्मा वै जायते पुत्र इति सत्यवती श्रुतिःअतस्त्वं सुगतिं वत्स लभिष्यसि वरान्मम ॥३६॥गत्यर्थमात्मनो राजन्दानमेकं समाचरयस्त्वां पातकरूपोऽहं सुनीथायाः परंतप ॥३७॥अब्रुवन्नग्नरूपेण कर्तुं त्वां तु विधर्मगम्अन्यथा तु सुशंखस्य वाक्यमेवान्यथा भवेत् ॥३८॥अतो विधिर्निषेधश्च ह्यहमेव नृपोत्तमकर्मानुरूपफलदो बुद्ध्यतीतो गुणाग्रहः ॥३९॥दानमेव परं श्रेष्ठं दानं सर्वप्रभावकम्तस्माद्दानं ददस्व त्वं दानात्पुण्यं प्रवर्तते ॥४०॥दानेन नश्यते पापं तस्माद्दानं ददस्व हिअश्वमेधादिभिर्यज्ञैर्यजस्व नृपसत्तम ॥४१॥भूमिदानादिकं दानं ब्राह्मणेभ्यो ददस्व वैसुदानात्प्राप्यते भोगः सुदानात्प्राप्यते यशः ॥४२॥सुदानाज्जायते कीर्तिः सुदानात्प्राप्यते सुखम्दानेन स्वर्गमाप्नोति फलं तत्र भुनक्ति च ॥४३॥दत्तस्यापि सुदानस्य श्रद्धायुक्तस्य सत्तमकाले प्राप्ते व्रजेत्तीर्थं पुण्यस्यापि फलं त्विदम् ॥४४॥पात्रभूताय विप्राय श्रद्धापूतेन चेतसायो ददाति महादानं मयि भावं निवेश्य च ॥४५॥तस्याहं सकलं दद्मि मनसा यंयमिच्छतिवेन उवाच-कालं दानस्य मे ब्रूहि कीदृक्कालस्य लक्षणम् ॥४६॥तीर्थस्यापि च यद्रूपं पात्रस्यापि सुलक्षणम्दानस्यापि जगन्नाथ विधिं विस्तरतो वद ॥४७॥प्रसादसुमुखो भूत्वा दया मे यदि वर्त्ततेश्रीकृष्ण उवाच-दानकालं प्रवक्ष्यामि नित्यं नैमित्तिकं नृप ॥४८॥काम्यं चान्यं महाराज चतुर्थप्रापकं पुनःसूर्योदयस्य वेलायां पापं नश्यति सर्वतः ॥४९॥अंधकाराधिका घोरा नराणां नाशकारकाःदिवि सूर्यो ममांशोऽयं तेजसां कल्पितो निधिः ॥५०॥तस्यैव तेजसा दग्धा भस्मतां यांति किल्बिषाःउदयंतं ममांशं यो दृष्ट्वा दत्ते तु वार्यपि ॥५१॥तस्य किं कथ्यते भूप नित्यं पुण्यविवर्द्धनम्संप्राप्तायां सुवेलायां तस्यां पुण्यकरो नरः ॥५२॥स्नात्वाभ्यर्च्य पितॄन्देवान्दानदाता भवेत्पुनःयथाशक्तिप्रभावेन श्रद्धापूतेन चेतसा ॥५३॥अन्नं पयः फलं पुष्पं वस्त्रं तांबूलभूषणम्हेमरत्नादिकं चैव तस्य पुण्यमनंतकम् ॥५४॥मध्याह्ने तु ततो राजन्नपराह्णे तथैव चमामुद्दिश्य च यो दद्यात्तस्य पुण्यमनंतकम् ॥५५॥खाद्यपानादिकं मिष्ट लेपनं गंधकुंकुमम्कर्पूरादिकमेवापि वस्त्रालंकारसंयुतम् ॥५६॥अविच्छिन्नं ददात्येवं भोगसौख्यप्रदायकम्नित्यकालो मया ख्यातो दानपूजार्थिनां शुभः ॥५७॥अथातः संप्रवक्ष्यामि नैमित्तिकमनुत्तमम्त्रिकालेष्वपि दातव्यं दानमेव न संशयः ॥५८॥शून्यं दिनं न कर्तव्यमात्मनो हितमिच्छतायस्मिन्काले प्रदत्तं हि किंचिद्दानं नराधिप ॥५९॥तत्प्रभावान्महाप्राज्ञो बहुसामर्थ्यसंयुतःधनाढ्यो गुणवान्प्राज्ञः पंडितोऽपि विचक्षणः ॥६०॥पक्षं मासं दिनं यावन्न दत्तं वै यदाशनम्तमेव वारयाम्येव भक्ष्याच्चैव नरोत्तमम् ॥६१॥स्वमलं भक्षितं चैव अदत्वा दानमुत्तमम्उत्पादयाम्यहं रोगं सर्वभोगनिवारणम् ॥६२॥तेषां कायेष्वसंतुष्टो बहुपीडाप्रदायकम्मंदानलेन संयुक्तं ज्वरसंतापकारकम् ॥६३॥त्रिकालेषु न दत्तं यैर्ब्राह्मणेषु सुरेषु चस्वयमश्नाति मिष्टं तु तेन पापं महत्कृतम् ॥६४॥प्रायश्चित्तेन रौद्रेण तमेवं परिशोधयेत्उपवासैर्महाराज कायशोषकरादिकैः ॥६५॥चर्मकारो यथा चर्म कुंडस्थोपरि निर्घृणःशोधयेच्च कषायैश्च तच्चर्मस्फोटयेद्यथा ॥६६॥तथाहं पापकर्तारं शोधयामि न संशयःऔषधीनां सुयोगाच्च कषायैः कटुकैर्ध्रुवम् ॥६७॥उष्णोदकैश्च संतापैर्वैद्यरूपेण नान्यथाअन्ये भुंजन्ति तस्योग्र भोगान्पुण्यान्मनोनुगान् ॥६८॥किं करोति समर्थश्च न दत्तं दानमुत्तमम्महता पापरूपेण तमेवं परितापये ॥६९॥नित्यकालस्य यद्दानमात्मार्थं पापिभिर्यथान दत्तं राजराजेंद्र श्रद्धापूतेन चेतसा ॥७०॥तथा ताञ्जारयाम्येतानुपायैर्दारुणैः किलवासुदेव उवाच-नैमित्तिकं तथा कालं पुण्यं चैव तवाग्रतः ॥७१॥प्रवक्ष्यामि नरश्रेष्ठ सुबुद्ध्या शृणु तत्परःअमावास्या महाराज पौर्णमासी तथैव च ॥७२॥यदा भवति संक्रांतिर्व्यतीपातो नरेश्वरवैधृतिश्च यदा प्रोक्ता यदा एकादशी भवेत् ॥७३॥महामाघी तथाषाढी वैशाखी कार्तिकी तथाअमासोमसमायोगे मन्वादिषु युगादिषु ॥७४॥गजच्छाया तथा प्रोक्ता पितृक्षया तथैव चएते नैमित्तिकाः ख्यातास्तवाग्रे नृपसत्तम ॥७५॥एतेषु दीयते दानं तस्य दानस्य यत्फलम्तत्फलं तु प्रवक्ष्यामि श्रूयतां नृपसत्तम ॥७६॥मामुद्दिश्य नरो भक्त्या ब्राह्मणाय प्रयच्छतितस्याहं निर्विकल्पेन प्रयच्छामि न संशयः ॥७७॥गृहं सौख्यं महाराज स्वर्गमोक्षादिकं बहुकाम्यं कालं प्रवक्ष्यामि दानस्य फलदायकम् ॥७८॥व्रतानामेव सर्वेषां देवादीनां तथैव चदानस्य पुण्यकालं तु संप्रोक्तं द्विजसत्तमैः ॥७९॥आभ्युदयिकमेवापि कालं वक्ष्यामि ते नृपमखानामेव सर्वेषां वैवाहिकमनुत्तमम् ॥८०॥पुत्रस्य जातमात्रस्य चौलमौंज्यादिकं तथाप्रासादध्वजदेवानां प्रतिष्ठादिककर्मणि ॥८१॥वापीकूपतडागानां गृहवास्तुमयं नृपतदाभ्युदयिकं प्रोक्तं मातॄणां यत्र पूजनम् ॥८२॥तस्मिन्काले ददेद्दानं सर्वसिद्धिप्रदायकम्आभ्युदयिक एवायं कालः प्रोक्तो नृपोत्तम ॥८३॥अन्यच्चैव प्रवक्ष्यामि पापपीडानिवारणम्मृत्युकाले च संप्राप्ते क्षयं ज्ञात्वा नरोत्तम ॥८४॥तत्र दानं प्रदातव्यं यममार्गसुखप्रदम्नित्यनैमित्तिकाः कालाः काम्याभ्युदयिकास्तथा ॥८५॥अंत्यःकालो महाराज समाख्यातस्तवाग्रतःएते कालाः समाख्याताः स्वकर्मफलदायकाः ॥८६॥तीर्थस्य लक्षणं राजन्प्रवक्ष्यामि तवाग्रतःसुतीर्थानामियं गंगा भाति पुण्या सरस्वती ॥८७॥रेवा च यमुना तापी तथा चर्मण्वती नदीसरयूर्घर्घरा वेणा सर्वपापप्रणाशिनी ॥८८॥कावेरी कपिला चान्या विशाला विश्वतारणीगोदावरी समाख्याता तुंगभद्रा नरोत्तम ॥८९॥पापानां भीतिदा नित्यं भीमरथ्या प्रपठ्यतेदेविका कृष्णगंगा च अन्याः सरिद्वरोत्तमाः ॥९०॥एतासां पुण्यकालेषु संति तीर्थान्यनेकशःग्रामे वा यदि वारण्ये नद्यः सर्वत्र पावनाः ॥९१॥तत्र तत्र प्रकर्तव्याः स्नानदानादिकाः क्रियाःयदा न ज्ञायते नाम तासां तीर्थस्य सत्तमाः ॥९२॥नामोच्चारं प्रकुर्वीत विष्णुतीर्थमिदं नृपतीर्थस्य देवता तद्वदहमेव न संशयः ॥९३॥मामेवमुच्चरेद्यो वै तीर्थे देवेषु साधकःतस्य पुण्यफलं जातं मन्नाम्ना नृपनंदन ॥९४॥अज्ञातानां सुतीर्थानां देवानां नृपसत्तमस्नाने दाने महाराज मन्नाम हि समुच्चरेत् ॥९५॥तीर्थानामेव राजेंद्र धात्रा धात्र्य इमाः कृताःसिंधवः सर्वपुण्यानां सर्वस्थाः क्षितिमंडले ॥९६॥यत्रतत्र प्रकर्त्तव्यं स्नानदानादिकं नृपअक्षयं फलमाप्नोति सुतीर्थानां प्रसादतः ॥९७॥तीर्थरूपा महापुण्याः सागरा सप्त एव चमानसाद्यास्तथा राजन्सरस्यश्च प्रकीर्तिताः ॥९८॥निर्झराः पल्वलाः प्रोक्तास्तीर्थरूपा न संशयःस्वल्पा नद्यो महाराज तासु तीर्थं प्रतिष्ठितम् ॥९९॥खातेष्वेवं च सर्वेषु वर्जयित्वा च कूपकम्पर्वतास्तीर्थरूपाश्च मेर्वाद्याश्च महीतले ॥१००॥यज्ञभूमिश्च यज्ञश्च अग्निहोत्रे यथा स्थितःश्राद्धभूमिस्तथा शुद्धा देवशाला तथा पुनः ॥१०१॥होमशाला तथा प्रोक्ता वेदाध्ययनवेश्म चगृहेषु पुण्यसंयुक्तं गोस्थानं वरमुत्तमम् ॥१०२॥सोमपायी भवेद्यत्र तीर्थं तत्र प्रतिष्ठितम्आरामो यत्र वै पुण्यो अश्वत्थो यत्र तिष्ठति ॥१०३॥ब्रह्मवृक्षो भवेद्यत्र वटवृक्षस्तथैव चअन्ये च वन्यसंस्थाने तत्र तीर्थं प्रतिष्ठितम् ॥१०४॥एते तीर्थाः समाख्याताः पितामाता तथैव चपुराणं पठ्यते यत्र गुरुर्यत्र स्वयं स्थितः ॥१०५॥सुभार्या तिष्ठते यत्र तत्र तीर्थं न संशयःसुपुत्रस्तिष्ठते यत्र तत्र तीर्थं न संशयः ॥१०६॥एते तीर्थाः समाख्याता राजवेश्म तथैव चवेन उवाच-पात्रस्य लक्षणं ब्रूहि यस्मै देयं सुरोत्तम ॥१०७॥प्रसादसुमुखो भूत्वा कृपया मम माधववासुदेव उवाच-शृणु राजन्महाप्राज्ञ पात्रस्यापि सुलक्षणम् ॥१०८॥यस्मै देयं सुदानं च श्रद्धापूतैर्महात्मभिःब्राह्मणं सुकुलोपेतं वेदाध्ययनतत्परम् ॥१०९॥शांतं दांतं तपोयुक्तं शुक्लमेव विशेषतःप्रज्ञावंतं ज्ञानवंतं देवपूजनतत्परम् ॥११०॥सत्यवंतं महापुण्यं वैष्णवं ज्ञानपंडितम्धर्मज्ञं मुक्तलौल्यं च पाखंडैस्तु विवर्जितम् ॥१११॥एवं पात्रं समाख्यातमन्यदेवं वदाम्यहम्एवमेतैर्गुणैर्युक्तं स्वसृपुत्रं नरोत्तमम् ॥११२॥एतं पात्रं विजानीहि दुहितुस्तनयं ततःजामातरं महाराज भावैरेतैश्च संयुतम् ॥११३॥गुरुं च दीक्षितं चैव पात्रभूतं नरोत्तमएतान्येव सुपात्राणि दानयोग्यानि सत्तम ॥११४॥वेदाचारसमोपेतस्तृप्तिं नैव च गच्छतिवर्जयेत्किल तं विप्रं तथा काणं सुधूर्तकम् ॥११५॥अतिकृष्णं महाराज कपिलं परिवर्जयेत्कर्कटाक्षं सुनीलं च श्यावदन्तं विवर्जयेत् ॥११६॥नीलदंतं तथा राजन्पीतदंतं तथैव चगोघ्नं सुकृष्णदंतं च बर्बरं चातिपांशुलम् ॥११७॥हीनांगमधिकांगं च कुष्ठिनं कुनखं तथादुश्चर्माणं महाराज खल्वाटं परिवर्जयेत् ॥११८॥अन्यायेषु रता यस्य जाया विप्रस्य कस्य चतस्मै दानं न दातव्यं यदि ब्रह्मसमो भवेत् ॥११९॥स्त्रीजिताय न दातव्यं शाखारंडे महामतेव्याधिताय न दातव्यं मृतभोजिषु भूपते ॥१२०॥चोराय च न दातव्यं स यद्यत्रिसमो भवेत्अतृप्ताय न दातव्यं शावं तु परिवर्जयेत् ॥१२१॥अतिस्तब्धाय नो देयं शठाय च विशेषतःवेदशास्त्रसमायुक्तः सदाचारेण वर्जितः ॥१२२॥श्राद्धे दाने च राजेंद्र नैव युक्तः कदा भवेत्अथ दानं प्रवक्ष्यामि सफलं पुण्यदायकम् ॥१२३॥कालतीर्थसुपात्राणां श्रद्धा योगात्प्रजायतेनास्ति श्रद्धासमं पुण्यं नास्ति श्रद्धासमं सुखम् ॥१२४॥नास्ति श्रद्धासमं तीर्थं संसारे प्राणिनां नृपश्रद्धाभावेन संयुक्तो मामेवं परिसंस्मरेत् ॥१२५॥पात्रहस्ते प्रदातव्यं स्वल्पमेव नृपोत्तमएवंविधस्य दानस्य विधियुक्तस्य यत्फलम् ॥१२६॥अनंतं तदवाप्नोति मत्प्रसादात्सुखी भवेत् ॥१२७॥इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे वेनोपाख्याने एकोनचत्वारिंशोऽध्यायः ॥३९॥ N/A References : N/A Last Updated : October 26, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP