संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ८७

भूमिखंडः - अध्यायः ८७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कुंजलशुकस्य पुत्र उज्ज्वलेन सह संवादम्

कुंजल उवाच-
व्रतभेदान्प्रवक्ष्यामि यैर्यैश्चाराधितो हरिः
जया च विजया चैव जयंती पापनाशिनी ॥१॥
त्रिस्पृशा वंजुली चान्या तिलदग्धा तथापरा
अखंडाचारकन्या च मनोरथा सुपुत्रक ॥२॥
एकादश्यास्तु भेदाश्च संति पुत्र अनेकधा
अशून्यशयनं चान्यज्जन्माष्टमी महाव्रतम् ॥३॥
एतैर्व्रतैर्महापुण्यैः पापं दूरं प्रयाति च
प्राणिनां नात्र संदेहः सत्यं सत्यं वदाम्यहम् ॥४॥
कुंजल उवाच-
स्तोत्रं तस्य प्रवक्ष्यामि पापराशिविनाशनम्
सुपुत्रशतनामाख्यं नराणां गतिदायकम् ॥५॥
तस्य देवस्य कृष्णस्य शतनामाख्यमुत्तमम्
संप्रत्येव प्रवक्ष्यामि तच्छृणुष्व सुतोत्तम ॥६॥
विष्णोर्नामशतस्यापि ऋषिं छंदो वदाम्यहम्
देवं चैव महाभाग सर्वपापविशोधनम् ॥७॥
विष्णोर्नामशतस्यापि ऋषिर्ब्रह्मा प्रकीर्तितः
ॐकारो देवता प्रोक्तश्छंदोनुष्टुप्तथैव च ॥८॥
सर्वकामिकसंसिद्ध्यै मोक्षे च विनियोगकः
अस्य विष्णोः शतनामस्तोत्रस्य
ब्रह्मा ऋषिः विष्णुर्देवता अनुष्टुप्छंदः
सर्वकामसमृद्ध्यर्थं सर्वपापक्षयार्थे विनियोगः ॥९॥
नमाम्यहं हृषीकेशं केशवं मधुसूदनम्
सूदनं सर्वदैत्यानां नारायणमनामयम् ॥१०॥
जयंतं विजयं कृष्णमनंतं वामनं ततः
विष्णुं विश्वेश्वरं पुण्यं विश्वाधारं सुरार्चितम् ॥११॥
अनघं त्वघहंतारं नरसिंहं श्रियः प्रियम्
श्रीपतिं श्रीधरं श्रीदं श्रीनिवासं महोदयम् ॥१२॥
श्रीरामं माधवं मोक्षं क्षमारूपं जनार्दनम्
सर्वज्ञं सर्ववेत्तारं सर्वदं सर्वनायकम् ॥१३॥
हरिं मुरारिं गोविंदं पद्मनाभं प्रजापतिम्
आनंदं ज्ञानसंपन्नं ज्ञानदं ज्ञाननायकम् ॥१४॥
अच्युतं सबलं चंद्रं चक्रपाणिं परावरम्
युगाधारं जगद्योनिं ब्रह्मरूपं महेश्वरम् ॥१५॥
मुकुंदं तं सुवैकुंठमेकरूपं जगत्पतिम्
वासुदेवं महात्मानं ब्रह्मण्यं ब्राह्मणप्रियम् ॥१६॥
गोप्रियं गोहितं यज्ञंयज्ञांगं यज्ञवर्द्धनम्
यज्ञस्यापि सुभोक्तारं वेदवेदांगपारगम् ॥१७॥
वेदज्ञं वेदरूपं तं विद्यावासं सुरेश्वरम्
अव्यक्तं तं महाहंसं शंखपाणिं पुरातनम् ॥१८॥
पुरुषं पुष्कराक्षं तु वाराहं धरणीधरम्
प्रद्युम्नं कामपालं च व्यासं व्यालं महेश्वरम् ॥१९॥
सर्वसौख्यं महासौख्यं मोक्षं च परमेश्वरम्
योगरूपं महाज्ञानं योगिनां गतिदं प्रियम् ॥२०॥
मुरारिं लोकपालं तं पद्महस्तं गदाधरम्
गुहावासं सर्ववासं पुण्यवासं महाभुजम् ॥२१॥
वृंदानाथं बृहत्कायं पावनं पापनाशनम्
गोपीनाथं गोपसखं गोपालं गोगणाश्रयम् ॥२२॥
परात्मानं पराधीशं कपिलं कार्यमानुषम्
नमामि निश्चलं नित्यं मनोवाक्कायकर्मभिः ॥२३॥
नाम्नां शतेनापि सुपुण्यकर्ता यः स्तौति कृष्णं मनसा स्थिरेण
स याति लोकं मधुसूदनस्य विहाय लोकानिह पुण्यपूतः ॥२४॥
नाम्नां शतं महापुण्यं सर्वपातकशोधनम्
जपेदनन्यमनसा ध्यायेद्ध्यानसमन्वितम् ॥२५॥
नित्यमेव नरः पुण्यैर्गंगास्नानफलं लभेत्
तस्मात्तु सुस्थिरो भूत्वा समाहितमना जपेत् ॥२६॥
त्रिकालं च जपेन्मर्त्यो नियतो नियमे स्थितः
अश्वमेधफलं तस्य जायते नात्र संशयः ॥२७॥
एकादश्यामुपोष्यैव पुरतो माधवस्य यः
जागरे प्रजपेन्मर्त्यस्तस्य पुण्यं वदाम्यहम् ॥२८॥
पुंडरीकस्य यज्ञस्य फलमाप्नोति मानवः
तुलसीसंनिधौ स्थित्वा मनसा यो जपेन्नरः ॥२९॥
राजसूयफलं भुंक्ते वर्षेणापि च मानवः
शालग्रामशिला यत्र यत्र द्वारावती शिला ॥३०॥
उभयोः संनिधौ जाप्यं कर्तव्यं सुखमिच्छता
बहुसौख्यं प्रभुक्त्वैव कुलानां शतमेव च ॥३१॥
एकेन चाधिकं मर्त्य आत्मना सह तारयेत्
कार्तिके स्नानकर्ता यः पूजयेन्मधुसूदनम् ॥३२॥
यः पठेत्प्रयतः स्तोत्रं प्रयाति परमां गतिम्
माघस्नायी हरिं पूज्य भक्त्या च मधुसूदनम् ॥३३॥
ध्यायेच्चैव हृषीकेशं जपेद्वाथ शृणोति वा
सुरापानादिकं पापं विहाय परमं पदम् ॥३४॥
विना विघ्नं नरः पुत्र संप्रयाति जनार्दनम्
श्राद्धकाले हि यो मर्त्यो विप्राणां भुंजतां पुरः ॥३५॥
यो जपेच्च शतं नाम्नां स्तोत्रं पातकनाशनम्
पितरस्तुष्टिमायांति तृप्ता यांति परां गतिं ॥३६॥
ब्राह्मणो वेदविद्वान्स्यात्क्षत्रियो विंदते महीम्
धनऋद्धिं प्रभुंजीत वैश्यो जपति यः सदा ॥३७॥
शूद्रः सुःखं प्रभुंक्ते च ब्राह्मणत्वं च गच्छति
प्राप्य जन्मांतरं वत्स वेदविद्यां प्रविंदति ॥३८॥
सुखदं मोक्षदं स्तोत्रं जप्तव्यं च न संशयः
केशवस्य प्रसादेन सर्वसिद्धो भवेन्नरः ॥३९॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थवर्णने च्यवनचरित्रे सप्ताशीतितमोऽध्यायः ॥८७॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP