भूमिखंडः - अध्यायः ६६
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
ययातिरुवाच-
पापात्पतति कायोयं धर्माच्च शृणु मातले
विशेषं न च पश्यामि पुण्यस्यापि महीतले ॥१॥
पुनः प्रजायते कायो यथा हि पतनं पुरा
कथमुत्पद्यते देहस्तन्मे विस्तरतो वद ॥२॥
मातलिरुवाच-
अथ नारकिणां पुंसामधर्मादेव केवलात्
क्षणमात्रेण भूतेभ्यः शरीरमुपजायते ॥३॥
तद्वद्धर्मेण चैकेन देवानामौपपादिकम्
सद्यः प्रजायते दिव्यं शरीरं भूतसारतः ॥४॥
कर्मणा व्यतिमिश्रेण यच्छरीरं महात्मनाम्
तद्रूपपरिणामेन विज्ञेयं हि चतुर्विधम् ॥५॥
उद्भिज्जाः स्थावरा ज्ञेयास्तृणगुल्मादि रूपिणः
कृमिकीटपतंगाद्याः स्वेदजानामदेहिनः ॥६॥
अंडजाः पक्षिणः सर्वे सर्पा नक्राश्च भूपते
जरायुजाश्च विज्ञेया मानुषाश्च चतुष्पदाः ॥७॥
तत्र सिक्ता जलैर्भूमिर्रक्ते उष्मविपाचिता
वायुना धम्यमाना च क्षेत्रे बीजं प्रपद्यते ॥८॥
यथा उप्तानि बीजानि संसिक्तान्यंभसा पुनः
उपगम्य मृदुत्वं च मूलभावं व्रजंति च ॥९॥
तन्मूलादंकुरोत्पत्तिरंकुरात्पर्णसंभवः
पर्णान्नालं ततः कांडं कांडाच्च प्रभवः पुनः ॥१०॥
प्रभवाच्च भवेत्क्षीरं क्षीरात्तंदुलसंभवः
तंदुलाच्च ततः पक्वा भवंत्योषधयस्तथा ॥११॥
यवाद्याः शालिपर्यंताः श्रेष्ठाः सप्तदश स्मृताः
ओषध्यः फलसाराढ्याः शेषा क्षुद्रा प्रःकीर्तिताः ॥१२॥
एता लूना मर्दिताश्च मुनिभिः पूर्वसंस्कृताः
शूर्पोलूखलपात्राद्यैः स्थालिकोदकवह्निभिः ॥१३॥
षड्विधा हि स्वभेदेन परिणामं व्रजंति ताः
अन्योन्यरससंयोगादनेकस्वादतां गताः ॥१४॥
भक्ष्यं भोज्यं पेयलेह्यं चोष्यं खाद्यं च भूपते
तासां भेदाः षडंगाश्च मधुराद्याश्च षड्गुणाः ॥१५॥
तदन्नं पिंडकवलैर्ग्रासैर्भुक्तं च देहिभिः
अन्नमूलाशये सर्वप्राणान्स्थापयति क्रमात् ॥१६॥
अपक्वं भुक्तमाहारं स वायुः कुरुते द्विधा
संप्रविश्यान्नमध्ये च पक्वं कृत्वा पृथग्गुणम् ॥१७॥
अग्नेरूर्ध्वं जलं स्थाप्य तदन्नं च जलोपरि
जलस्याधः स्वयं प्राणः स्थित्वाग्निं धमते शनैः ॥१८॥
वायुना धम्यमानोग्निरत्युष्णं कुरुते जलम्
तदन्नमुष्णयोगेन समंतात्पच्यते पुनः ॥१९॥
द्विधा भवति तत्पक्वं पृथक्किट्टं पृथग्रसः
मलैर्द्वादशभिः किट्टं भिन्नं देहाद्बहिर्व्रजेत् ॥२०॥
कर्णाक्षि नासिका जिह्वा दंतोष्ठ प्रजनं गुदा
मलान्स्रवेदथ स्वेदो विण्मूत्रं द्वादश स्मृताः ॥२१॥
हृत्पद्मे प्रतिबद्धाश्च सर्वनाड्यः समंततः
तासां मुखेषु तं सूक्ष्मं प्राणः स्थापयते रसम् ॥२२॥
रसेन तेन ता नाडीः प्राणः पूरयते पुनः
संतर्पयंति ता नाड्यः पूर्णा देहं समंततः ॥२३॥
ततः स नाडीमध्यस्थः शारीरेणोष्मणा रसः
पच्यते पच्यमानश्च भवेत्पाकद्वयं पुनः ॥२४॥
त्वङ्मांसास्थि मज्जा मेदो रुधिरं च प्रजायते
रक्ताल्लोमानि मांसं च केशाः स्नायुश्च मांसतः ॥२५॥
स्नायोर्मज्जा तथास्थीनि वसा मज्जास्थिसंभवा
मज्जाकारेण वैकल्यं शुक्रं च प्रसवात्मकम् ॥२६॥
इति द्वादश शान्तस्य परिणामाः प्रकीर्तिताः
शुक्रं तस्य परीणामः शुक्राद्देहस्य संभवः ॥२७॥
ऋतुकाले यदा शुक्रं निर्दोषं योनिसंस्थितम्
तदा तद्वायुसंसृष्टं स्त्रीरक्तेनैकतां व्रजेत् ॥२८॥
विसर्गकाले शुक्रस्य जीवः कारणसंयुतः
नित्यं प्रविशते योनिं कर्मभिः स्वैर्नियंत्रितः ॥२९॥
शुक्रस्य सह रक्तस्य एकाहात्कललं भवेत्
पंचरात्रेण कलले बुद्बुदत्वं ततो भवेत् ॥३०॥
मांसत्वं मासमात्रेण पंचधा जायते पुनः
ग्रीवा शिरश्च स्कंधश्च पृष्ठवंशस्तथोदरम् ॥३१॥
पाणीपादौ तथा पार्श्वौ कटिर्गात्रं तथैव च
मासद्वयेन पर्वाणि क्रमशः संभवंति च ॥३२॥
त्रिभिर्मासैः प्रजायंते शतशोंकुरसंधयः
मासैश्चतुर्भिर्जायंते अंगुल्यादि यथाक्रमम् ॥३३॥
मुखं नासा च कर्णौ च मासैर्जायंति पंचभिः
दंतपंक्तिस्तथा जिह्वा जायते तु नखाः पुनः ॥३४॥
कर्णयोश्च भवेच्छिद्रं षण्मासाभ्यंतरे पुनः
पायुर्मेढ्रमुपस्थं च शिश्नश्चाप्युपजायते ॥३५॥
संधयो ये च गात्रेषु मासैर्जायंति सप्तभिः
अंगप्रत्यंगसंपूर्णं शिरः केशसमन्वितम् ॥३६॥
विभक्तावयवस्पष्टं पुनर्मासाष्टमे भवेत्
पंचात्मक समायुक्तः परिपक्वः स तिष्ठति ॥३७॥
मातुराहारवीर्येण षड्विधेन रसेन च
नाभिसूत्रनिबद्धेन वर्द्धते स दिनेदिने ॥३८॥
ततः स्मृतिं लभेज्जीवः संपूर्णोस्मिञ्छरीरके
सुखं दुःखं विजानाति निद्रां स्वप्नं पुराकृतम् ॥३९॥
मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः
नानायोनिसहस्राणि मया दृष्टान्यनेकधा ॥४०॥
अधुना जातमात्रोहं प्राप्तसंस्कार एव च
ततः श्रेयः करिष्यामि येन गर्भे न संभवः ॥४१॥
गर्भस्थश्चिंतयत्येवमहं गर्भाद्विनिःसृतः
अध्येष्यामि परं ज्ञानं संसारविनिवर्तकम् ॥४२॥
अवश्यं गर्भदुःखेन महता परिपीडितः
जीवः कर्मवशादास्ते मोक्षोपायं विचिंतयेत् ॥४३॥
यथा गिरिवराक्रांतः कश्चिद्दुःखेन तिष्ठति
तथा जरायुणा देही दुःखं तिष्ठति दुःखितः ॥४४॥
पतितः सागरे यद्वद्दुःखमास्ते समाकुलः
गर्भोदकेन सिक्तांगस्तथास्ते व्याकुलात्मकः ॥४५॥
लोहकुंभे यथा न्यस्तः पच्यते कश्चिदग्निना
गर्भकुंभे तथाक्षिप्तः पच्यते जठराग्निना ॥४६॥
सूचीभिरग्निवर्णाभिर्भिन्नगात्रो निरंतरम्
यद्दुःखं जायते तस्य तद्गर्भेष्टगुणं भवेत् ॥४७॥
गर्भवासात्परं वासं कष्टं नैवास्ति कुत्रचित्
देहिनां दुःखमतुलं सुघोरमपि संकटम् ॥४८॥
इत्येतद्गर्भदुःखं हि प्राणिनां परिकीर्तितम्
चरस्थिराणां सर्वेषामात्मगर्भानुरूपतः ॥४९॥
गर्भात्कोटिगुणापीडा योनियंत्रनिपीडनात्
संमूर्च्छितस्य जायेत जायमानस्य देहिनः ॥५०॥
इक्षुवत्पीड्यमानस्य पापमुद्गरपेषणात्
गर्भान्निष्क्रममाणस्य प्रबलैः सूतिवायुभिः ॥५१॥
जायते सुमहद्दुःखं परित्राणं न विंदति
यंत्रेण पीड्यमानाः स्युर्निःसाराश्च यथेक्षवः ॥५२॥
तथा शरीरं योनिस्थं पात्यते यंत्रपीडनात्
अस्थिमद्वर्तुलाकारं स्नायुबंधनवेष्टितम् ॥५३॥
रक्तमांसवसालिप्तं विण्मूत्रद्रव्यभाजनम्
केशलोमनखच्छन्नं रोगायतनमुत्तमम् ॥५४॥
वदनैकमहाद्वारं गवाक्षाष्टकभूषितम्
ओष्ठद्वयकपाटं तु दंतजिह्वागलान्वितम् ॥५५॥
नाडीस्वेदप्रवाहं च कफपित्तपरिप्लुतम्
जराशोकसमाविष्टं कालवक्त्रानलेस्थितम् ॥५६॥
कामक्रोधसमाक्रांतं श्वसनैश्चोपमर्दितम्
भोगतृष्णातुरं गूढं रागद्वेष वशानुगम् ॥५७॥
सवर्णितांगप्रत्यंगं जरायु परिवेष्टितम्
संकटेनाविविक्तेन योनिमार्गेण निर्गतम् ॥५८॥
विण्मूत्ररक्तसिक्तांगं षट्कौशिकसमुद्भवम्
अस्थिपंजरसंघातं ज्ञेयमस्मिन्कलेवरे ॥५९॥
शतत्रयं शताधिकं पंचपेशी शतानि च
सार्धाभिस्तिसृभिश्छन्नं समंताद्रोमकोटिभिः ॥६०॥
शरीरं स्थूलसूक्ष्माभिर्दृश्यादृश्याभिरंततः
एताभिर्मांसनाडीभिः कोटिभिस्तत्समन्वितम् ॥६१॥
प्रस्वेदमशुचिं ताभिरंतरस्थं च तेन हि
द्वात्रिंशद्दशनाः प्रोक्ता विंशतिश्च नखाः स्मृताः ॥६२॥
पित्तस्य कुडवं ज्ञेयं कफस्यार्धाढकं तथा
वसायाश्च पलाः पंच तदर्धं फलकस्य च ॥६३॥
पंचार्बुद पला ज्ञेयाः पलानि दश मेदसः
पलत्रयं महारक्तं मज्जा रक्ताच्चतुर्गुणा ॥६४॥
शुक्रार्धकुडवं ज्ञेयं तदर्धं देहिनां बलम्
मांसस्य चैकं पिंडेन पलसाहस्रमुच्यते ॥६५॥
रक्तं पलशतं ज्ञेयं विण्मूत्रं चाप्रमाणतः
इति देहगृहे राजन्वासः स्यान्नित्यमात्मनः ॥६६॥
अशुद्धं च विशुद्धस्य कर्मबंधविनिर्मितम्
शुक्रशोणितसंयोगाद्देहः संजायते क्वचित् ॥६७॥
नित्यं विण्मूत्रसंयुक्तस्तेनायमशुचिः स्मृतः
यथा वै विष्ठया पूर्णः शुचिः सांतर्बहिर्घटः ॥६८॥
शौचेन शोध्यमानोपि देहोयमशुचिर्भवेत्
यं प्राप्यातिपवित्राणि पंचगव्य हवींषि च ॥६९॥
अशुचित्वं प्रयांत्याशु देहोयमशुचिस्ततः
हृद्यान्यप्यन्नपानानि यं प्राप्य सुरभीणि च ॥७०॥
अशुचित्वं प्रयांत्याशु कोऽन्य स्यादशुचिस्ततः
हे जनाः किं न पश्यध्वं यन्निर्याति दिनेदिने ॥७१॥
देहानुगो मलः पूतिस्तदाधारः कथं शुचिः
देहः संशोध्यमानोपि पंचगव्यकुशांबुभिः ॥७२॥
घृष्यमाण इवांगारो निर्मलत्वं न गच्छति
स्रोतांसि यस्य सततं प्रवहंति गिरेरिव ॥७३॥
कफमूत्राद्यमशुचिः स देहः शुध्यते कथम्
सर्वाशुचिनिधानस्य शरीरस्य न विद्यते ॥७४॥
शुचिरेकप्रदेशोपि शुचिर्न स्यादृतेऽपि वा
दिवा वा यदि वा रात्रौ मृत्तोयैः शोध्यते करः ॥७५॥
तथापि शुचिभाङ्नस्यान्न विरज्यंति ते नराः
कायोयमग्र्यधूपाद्यैर्यत्नेनापि सुसंस्कृतः ॥७६॥
न जहाति स्वभावं हि श्वपुच्छमिव नामितम्
तथा जात्यैव कृष्णोर्णा न शुक्ला जातु जायते ॥७७॥
संशोध्यमानापि तथा भवेन्मूर्तिर्न निर्मला
जिघ्रन्नपि स्वदुर्गंधं पश्यन्नपि मलं स्वकम् ॥७८॥
न विरज्यति लोकोऽयं पीडयन्नपि नासिकाम्
अहो मोहस्य माहात्म्यं येन व्यामोहितं जगत् ॥७९॥
जिघ्रन्पश्यन्स्वकान्दोषान्कायस्य न विरज्यते
स्वदेहस्य विगंधेन विरज्येत न यो नरः ॥८०॥
विरागकारणं तस्य किमन्यदुपदिश्यते
सर्वमेव जगत्पूतं देहमेवाशुचिः परम् ॥८१॥
यन्मलावयवस्पर्शाच्छुचिरप्यशुचिर्भवेत्
गंधलेपापनोदाय शौचं देहस्य कीर्तितम् ॥८२॥
द्वयस्यापगमात्पश्चाद्भावशुद्ध्या विशुद्ध्यति
गंगातोयेन सर्वेण मृद्भारैर्गात्रलेपनैः ॥८३॥
मर्त्यो दुर्गंधदेहोसौ भावदुष्टो न शुध्यति
तीर्थस्नानैस्तपोभिश्च दुष्टात्मा न च शुध्यति ॥८४॥
स्वमूर्तिः क्षालिता तीर्थे न शुद्धिमधिगच्छति
अंतर्भावप्रदुष्टस्य विशतोपि हुताशनम् ॥८५॥
न स्वर्गो नापवर्गश्च देहनिर्दहनं परम्
भावशुद्धिः परं शौचं प्रमाणं सर्वकर्मसु ॥८६॥
अन्यथा लिंग्यते कांता भावेन दुहितान्यथा
मनसा भिद्यते वृत्तिरभिन्नेष्वपि वस्तुषु ॥८७॥
अन्यथैव सती पुत्रं चिंतयेदन्यथा पतिम्
यथायथा स्वभावस्य महाभाग उदाहृतम् ॥८८॥
परिष्वक्तोपि यद्भार्यां भावहीनां न कारयेत्
नाद्याद्विविधमन्नाद्यं रस्यानि सुरभीणि च ॥८९॥
अभावेन नरस्तस्माद्भावः सर्वत्र कारणम्
चित्तं शोधय यत्नेन किमन्यैर्बाह्यशोधनैः ॥९०॥
भावतः शुचिशुद्धात्मा स्वर्गं मोक्षं च विंदति
ज्ञानामलांभसा पुंसः सवैराग्यमृदापुनः ॥९१॥
अविद्या रागविण्मूत्र लेपो नश्येद्विशोधनैः
एवमेतच्छरीरं हि निसर्गादशुचिं विदुः ॥९२॥
विद्यादसार निःसारं कदलीसारसन्निभम्
ज्ञात्वैवं दोषवद्देहं यः प्राज्ञः शिथिली भवेत् ॥९३॥
सोतिक्रामति संसारं दृढग्राहोवतिष्ठति
एवमेतन्महाकष्टं जन्मदुःखं प्रकीर्तितम् ॥९४॥
पुंसामज्ञानदोषेण नानाकर्मवशेन च
गर्भस्थस्य मतिर्यासीत्सा जातस्य प्रणश्यति ॥९५॥
सुमूर्च्छितस्य दुःखेन योनियंत्रनिपीडनात्
बाह्येन वायुना चास्य मोहसंगेन देहिनाम् ॥९६॥
स्पृष्टमात्रस्य घोरेण ज्वरः समुपजायते
तेन ज्वरेण महता महामोहः प्रजायते ॥९७॥
संमूढस्य स्मृतिभ्रंशः शीघ्रं संजायते पुनः
स्मृतिभ्रंशात्ततस्तस्य पूर्वकर्मवशेन च ॥९८॥
रतिः संजायते तस्य जंतोस्तत्रैव जन्मनि
रक्तो मूढश्च लोकोयमकार्ये संप्रवर्त्तते ॥९९॥
न चात्मानं विजानाति न परं न च दैवतम्॥
न शृणोति परं श्रेयः सचक्षुरपि नेक्षते ॥१००॥
समे पथि शनैर्गच्छन्स्खलतीव पदेपदे
सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि ॥१०१॥
संसारे क्लिश्यते तेन नरो लोभवशानुगः
गर्भस्मृतेरभावे च शास्त्रमुक्तं शिवेन च ॥१०२॥
तद्दुःखकथनार्थाय स्वर्गमोक्षप्रसाधकम्
येन तस्मिञ्छिवे ज्ञाते धर्मकामार्थसाधने ॥१०३॥
न कुर्वंत्यात्मनः श्रेयस्तदत्र महदद्भुतम्
अव्यक्तेंद्रियबुद्धित्वाद्बाल्येदुःखं महत्पुनः ॥१०४॥
इच्छन्नपि न शक्नोति वक्तुं कर्तुं न सत्कृती
दंतजन्ममहद्दुःखं लौल्येन वायुना तथा ॥१०५॥
बालरोगैश्च विविधैः पीडाबालग्रहैरपि
तृड्बुभुक्षा परीतांगः क्वचित्तिष्ठति गच्छति ॥१०६॥
विण्मूत्रभक्षणाद्यं च मोहाद्बालः समाचरेत्
कौमारः कर्णवेधेन मातापित्रोश्च ताडनैः ॥१०७॥
अक्षराध्ययनाद्यैश्च दुःखं गुर्वादिशासनात्
प्रमत्तेंद्रियवृत्तेश्च कामरागप्रपीडिनः ॥१०८॥
रोगार्दितस्य सततं कुतः सौख्यं हि यौवने
ईर्ष्यासु महद्दुःखं मोहाद्दुःखं प्रजायते ॥१०९॥
तत्रस्यात्कुपितस्यैव रागो दुःखाय केवलम्
रात्रौ न विंदते निद्रा कामाग्नि परिखेदितः ॥११०॥
दिवा वापि कुतः सौख्यमर्थोपार्जनचिंतया
स्त्रीष्वायासितदेहस्य ये पुंसः शुक्रबिंदवः ॥१११॥
न ते सुखाय मंतव्याः स्वेदजा इव बिंदवः
कृमिभिस्ताड्यमानस्य कुष्ठिनः पामरस्य च ॥११२॥
कंडूयनाग्नितापेन यत्सुखं स्त्रीषु तद्विदुः
यादृशं मन्यते सौख्यमर्थोपार्जनचिंतया ॥११३॥
तादृशं स्त्रीषु मंतव्यमधिकं नैव विद्यते
मर्त्यस्य वेदना सैव यां विना चित्तनिर्वृतिः ॥११४॥
ततोन्योन्यं पुरा प्राप्तमंते सैवान्यथा भवेत्
तदेवं जरया ग्रस्तमामया व्यपिनप्रियम् ॥११५॥
अपूर्ववत्समात्मानं जरया परिपीडितम्
यः पश्यन्न विरज्येत कोन्यस्तस्मादचेतनः ॥११६॥
जराभिभूतोपि जंतुः पत्नीपुत्रादिबांधवैः
अशक्तत्वाद्दुराचारैर्भृत्यैश्च परिभूयते ॥११७॥
न धर्ममर्थं कामं च मोक्षं च जरयायुतः
शक्तः साधयितुं तस्माद्युवा धर्मं समाचरेत् ॥११८॥
वातपित्तकफादीनां वैषम्यं व्याधिरुच्यते
वातादीनां समूहेन देहोयं परिकीर्तितः ॥११९॥
तस्माद्व्याधिमयं ज्ञेयं शरीरमिदमात्मनः
वाताद्यव्यतिरिक्तत्वाद्व्याधीनां पंजरस्य च ॥१२०॥
रोगैर्नानाविधैर्याति देही दुःखान्यनेकधा
तानि च स्वात्मवेद्यानि किमन्यत्कथयाम्यहम् ॥१२१॥
एकोत्तरं मृत्युशतमस्मिन्देहे प्रतिष्ठितम्
तत्रैकः कालसंयुक्तः शेषाश्चागंतवः स्मृताः ॥१२२॥
ये त्विहागंतवः प्रोक्तास्ते प्रशाम्यंति भेषजैः
जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति ॥१२३॥
यदि वापमृत्युर्न स्याद्विषास्वादादशंकितः
न चात्ति पुरुषस्तस्मादपमृत्योर्बिभेति सः ॥१२४॥
विविधा व्याधयस्तत्र सर्पाद्याः प्राणिनस्तथा
विषाणि चाभिचाराश्च मृत्योर्द्वाराणि देहिनाम् ॥१२५॥
पीडितं सर्वरोगाद्यैरपि धन्वंतरिः स्वयम्
स्वस्थीकर्तुं न शक्नोति कालप्राप्तं न चान्यथा ॥१२६॥
नौषधं न तपो दानं न माता न च बांधवाः
शक्नुवंति परित्रातुं नरं कालेन पीडितम् ॥१२७॥
रसायन तपो जाप्ययोगसिद्धैर्महात्मभिः
अवांतरितशांतिः स्यात्कालमृत्युमवाप्नुयात् ॥१२८॥
जायते योनिकीटेषु मृतः कर्मवशात्पुनः
देहभेदेन यः पश्येद्वियोगं कर्मसंक्षयात् ॥१२९॥
मरणं तद्विनिर्दिष्टं न नाशः परमार्थतः
महातमः प्रविष्टस्य छिद्यमानेषु मर्मसु ॥१३०॥
यद्दुःखं मरणे जंतोर्न तस्येहोपमा क्वचित्
हा तात मातः कांतेति क्रंदत्येवं सुदुःखितः ॥१३१॥
मंडूक इव सर्पेण ग्रस्यते मृत्युना जगत्
बांधवैः स परित्यक्तः प्रियैश्च परिवारितः ॥१३२॥
निःश्वसन्दीर्घमुष्णं च मुखेन परिशुष्यता
खट्वायां परिवृत्तो हि मुह्यते च मुहुर्मुहुः ॥१३३॥
संमूढः क्षिपतेत्यर्थं हस्तपादावितस्ततः
खट्वातो वांछते भूमिं भूमेः खट्वां पुनर्महीम् ॥१३४॥
विवशस्त्यक्तलज्जश्च मूत्रविष्ठानुलेपितः
याचमानश्च सलिलं शुष्ककंठोष्ठतालुकः ॥१३५॥
चिंतयानः स्ववित्तानि कस्यैतानि मृते मयि
यमदूतैर्नीयमानः कालपाशेन कर्षितः ॥१३६॥
म्रियते पश्यतामेवं गलो घुरुघुरायते
जीवस्तृणजलौकेव देहाद्देहं विशेत्क्रमात् ॥१३७॥
प्राप्नोत्युत्तरमंगं च देहं त्यजति पूर्वकम्
मरणात्प्रार्थनाद्दुःखमधिकं हि विवेकिनाम् ॥१३८॥
क्षणिकं मरणे दुःखमनंतं प्रार्थनाकृतम्
जगतां पतिरर्थित्वाद्विष्णुर्वामनतां गतः ॥१३९॥
अधिकः कोपरस्तस्माद्यो न यास्यति लाघवम्
ज्ञातं मयेदमधुना मृत्योर्भवति यद्गुरुः ॥१४०॥
न परं प्रार्थयेद्भूयस्तृष्णालाघवकारणम्
आदौ दुःखं तथा मध्ये दुःखमंते च दारुणम् ॥१४१॥
निसर्गात्सर्वभूतानामिति दुःख परंपरा
वर्तमानान्यतीतानि दुःखान्येतानि यानि तु ॥१४२॥
न नरः शोचयेज्जन्म न विरज्यति तेन वै
अत्याहारान्महद्दुःखमल्पाहारात्तदंतरम् ॥१४३॥
त्रुटते भोजने कंठो भोजने च कुतः सुखम्
क्षुधा हि सर्वरोगाणां व्याधिः श्रेष्ठतमः स्मृतः ॥१४४॥
सच्छांतौषधलेपेन क्षणमात्रं प्रशाम्यति
क्षुद्व्याधि वेदना तीव्रा निःशेषबलकृंतनी ॥१४५॥
तयाभिभूतो म्रियते यथान्यैर्व्याधिभिर्नरः
तद्रसेपि हि किं सौख्यं जिह्वाग्रपरिवर्तिनि ॥१४६॥
तत्क्षणादर्धकालेन कंठं प्राप्य निवर्तते
इति क्षुद्व्याधितप्तानामन्नमोषधवत्स्मृतम् ॥१४७॥
न तत्सुखाय मंतव्यं परमार्थेन पंडितैः
मृतोपमश्च यः शेते सर्वकार्यविवर्जितः ॥१४॥८॥
तत्रापि च कुतः सौख्यं तमसा चोदितात्मनः
प्रबोधेपि कुतः सौख्यं कार्येषूपहतात्मनः ॥१४९॥
कृषिवाणिज्यसेवाद्य गोरक्षादि परश्रमैः
प्रातर्मूत्रपुरीषाभ्यां मध्याह्ने क्षुत्पिपासया ॥१५०॥
तृप्ताः काम्येन बाध्यंते निद्रया निशि जंतवः
अर्थस्योपार्जने दुःखं दुःखमर्जितरक्षणे ॥१५१॥
नाशे दुःखं व्यये दुःखमर्थस्यैव कुतः सुखम्
चौरेभ्यः सलिलेभ्योग्नेः स्वजनात्पार्थिवादपि ॥१५२॥
भयमर्थवतां नित्यं मृत्योर्देहभृतामिव
खे यथा पक्षिभिर्मांसं भक्ष्यते श्वापदैर्भुवि ॥१५३॥
जले च भक्ष्यते मत्स्यैस्तथा सर्वत्र वित्तवान्
विमोहयंति संपत्सु वारयंति विपत्सु च ॥१५४॥
खेदयंत्यर्जने काले कदार्थाः स्युः सुखावहाः
प्रागर्थपतिरुद्विग्नः पश्चात्सर्वार्थनिःस्पृहः ॥१५५॥
तयोरर्थपतिर्दुःखी सुखी मन्येर्विरक्तधीः
वसंतग्रीष्मतापेन दारुणं वर्षपर्वसु ॥१५६॥
वातातपेन वृष्ट्या च कालेप्येवं कुतः सुखम्
विवाहविस्तरे दुःखं तद्गर्भोद्वहने पुनः ॥१५७॥
सूतिवैषम्यदुःखैश्च दुखं विष्ठादिकर्मभिः
दन्ताक्षिरोगे पुत्रस्य हा कष्टं किं करोम्यहम् ॥१५८॥
गावो नष्टाः कृषिर्भग्ना भार्या च प्रपलायिता
अमी प्राघूर्णिकाः प्राप्ता भयं मे शंसिनो गृहान् ॥१५९॥
बालापत्या च मे भार्या कः करिष्यति रंधनम्
विवाहकाले कन्यायाः कीदृशश्च वरो भवेत् ॥१६०॥
एतच्चिंताभिभूतानां कुतः सौख्यं कुटुंबिनाम् ॥१६१॥
कुटुंबचिंताकुलितस्य पुंसः श्रुतं च शीलं च गुणाश्च सर्वे
अपक्वकुंभे निहिता इवापः प्रयांति देहेन समं विनाशनम् ॥१६२॥
राज्येपि हि कुतः सौख्यं संधिविग्रहचिंतया
पुत्रादपि भयं यत्र तत्र सौख्यं हि कीदृशम् ॥१६३॥
स्वजातीयाद्भयं प्रायः सर्वेषामेव देहिनाम्
एकद्रव्याभिलाषित्वाच्छुनामिव परस्परम् ॥१६४॥
न प्रविश्य वनं कश्चिन्नृपः ख्यातोस्ति भूतले
निखिलं यस्तिरस्कृत्य सुखं तिष्ठति निर्भयः ॥१६५॥
युद्धे बाहुसहस्रं हि पातयामास भूतले
श्रीमतः कार्तवीर्यस्य ऋषिपुत्रः प्रतापवान् ॥१६६॥
ऋषिपुत्रस्य रामस्य रामो दशरथात्मजः
जघान वीर्यमतुलमूर्ध्वगं सुमहात्मनः ॥१६७॥
जरासंधेन रामस्य तेजसा नाशितं यशः
जरासंधस्य भीमेन तस्यापि पवनात्मजः ॥१६८॥
हनुमानपि सूर्येण विक्षिप्तः पतितः क्षितौ
निवातकवचान्सर्वदानवान्बलदर्पितान् ॥१६९॥
हतवानर्जुनः श्रीमान्गोपालैः स विनिर्जितः
सूर्यः प्रतापयुक्तोऽपि मेघैः संछाद्यते क्वचित् ॥१७०॥
क्षिप्यते वायुना मेघो वायोर्वीर्यं नगैर्जितम्
दह्यंते वह्निना शैलाः स वह्निः शाम्यते जलैः ॥१७१॥
तज्जलं शोष्यते सूर्यैस्ते सूर्याः सह वारिणा
त्रैलोक्येन समस्ताश्च नश्यंति ब्रह्मणो दिने ॥१७२॥
ब्रह्मापि त्रिदशैः सार्धमुपसंह्रियते पुनः
परार्धद्वयकालांते शिवेन परमात्मना ॥१७३॥
एवं नैवास्ति संसारे यच्च सर्वोत्तमं बलम्
विहायैकं जगन्नाथं परमात्मानमव्ययम् ॥१७४॥
ज्ञात्वा सातिशयं सर्वमतिमानं विवर्जयेत्
एवंभूते जगत्यस्मिन्कः सुरः पंडितोपि वा ॥१७५॥
न ह्यस्ति सर्ववित्कश्चिन्न वा मूर्खोपि सर्वतः
यावद्यस्तु विजानाति तावत्तत्र स पंडितः ॥१७६॥
समाधाने तु सर्वत्र प्रभावः सदृशः स्मृतः
वित्तस्यातिशयत्वेन प्रभावः कस्यचित्क्वचित् ॥१७७॥
दानवैर्निर्जिता देवास्ते दैवैर्निजिताः पुनः
इत्यन्योन्यं श्रितो लोको भाग्यैर्जयपराजयैः ॥१७८॥
एवं वस्त्रयुगं राज्ञां प्रस्थमात्रांबुभोजनम्
यानं शय्यासनं चैव शेषं दुःखाय केवलम् ॥१७९॥
सप्तमे चापि भवने खट्वामात्र परिग्रहः
उदकुंभसहस्रेभ्यः क्लेशायास प्रविस्तरः ॥१८०॥
प्रत्यूषे तूर्यनिर्घोषः समं पुरनिवासिभिः
राज्येभिमानमात्रं हि ममेदं वाद्यते गृहे ॥१८१॥
सर्वमाभरणं भारः सर्वमालेपनं मलम्
सर्वं प्रलपितं गीतं नृत्यमुन्मत्तचेष्टितम् ॥१८२॥
इत्येवं राज्यसंभोगैः कुतः सौख्यं विचारतः
नृपाणां विग्रहे चिंता वान्योन्यविजिगीषया ॥१८३॥
प्रायेण श्रीमदालेपान्नहुषाद्या महानृपाः
स्वर्गं प्राप्ता निपतिताः कः श्रिया विंदते सुखम् ॥१८४॥
स्वर्गेपि च कुतः सौख्यं दृष्ट्वा दीप्तां परश्रियम्
उपर्युपरि देवानामन्योन्यातिशयस्थिताम् ॥१८५॥
नरैः पुण्यफलं स्वर्गे मूलच्छेदेन भुज्यते
न चान्यत्क्रियते कर्म सोऽत्र दोषः सुदारुणः ॥१८६॥
छिन्नमूलतरुर्यद्वद्दिवसैः पतति क्षितौ
पुण्यस्य संक्षयात्तद्वन्निपतंति दिवौकसः ॥१८७॥
सुखाभिलाषनिष्ठानां सुखभोगादि संप्लवैः
अकस्मात्पतितं दुःखं कष्टं स्वर्गेदिवौकसाम् ॥१८८॥
इति स्वर्गेऽपि देवानां नास्ति सौख्यं विचारतः
क्षयश्च विषयासिद्धौ स्वर्गे भोगाय कर्मणाम् ॥१८९॥
तत्र दुःखं महत्कष्टं नरकाग्निषु देहिनाम्
घोरैश्च विविधैर्भावैर्वाङ्मनः काय संभवैः ॥१९०॥
कुठारच्छेदनं तीव्रं वल्कलानां च तक्षणम्
पर्णशाखाफलानां च पातश्चंडेन वायुना ॥१९१॥
उन्मूलनान्नदीभिश्च गजैरन्यैश्च देहिभिः
दावाग्निहिमशोषैश्च दुःखं स्थावरजातिषु ॥१९२॥
तद्वद्भुजंगसर्पाणां क्रोधे दुःखं च दारुणम्
दुष्टानां घातनं लोके पाशेन च निबंधनम् ॥१९३॥
अकस्माज्जन्ममरणं कीटानां च मुहुर्मुहुः
सरीसृपनिकायानामेवं दुःखान्यनेकधा ॥१९४॥
पशूनामात्मशमनं दंडताडनमेव च
नासावेधेन संत्रासः प्रतोदेन सुताडनम् ॥१९५॥
वेत्रकाष्ठादिनिगडैरंकुशेनांगबंधनम्
भावेन मनसा क्लेशैर्भिक्षा युवादिपीडनम् ॥१९६॥
आत्मयूथवियोगैश्च बलान्नयनबंधने
पशूनां संति कायानामेवं दुःखान्यनेकशः ॥१९७॥
वर्षाशीतातपाद्दुःखं सुकष्टं ग्रहपक्षिणाम्
क्लेशमानाति कायानामेवं दुःखान्यनेकधा ॥१९८॥
गर्भवासे महद्दुःखं जन्मदुःखं तथा नृणाम्
सुबाल्यदुःखं चाज्ञानं कौमारे गुरुशासनम् ॥१९९॥
यौवने कामरागाभ्यां दुःखं चैवेर्ष्यया पुनः
कृषिवाणिज्यसेवाद्यैर्गोरक्षादिक कर्मभिः ॥२००॥
वृद्धभावे च जरया व्याधिभिश्च प्रपीडनात्
मरणे च महद्दुःखं प्रार्थनायां ततोधिकम् ॥२०१॥
राजाग्निजलदाघातचौरशत्रु भयं महत्
अर्थस्यार्जनरक्षायां भयं नाशे व्यये पुनः ॥२०२॥
कार्पण्यं मत्सरो दम्भो धनाधिक्ये भयं महत्
अकार्ये संप्रवृत्तिश्च दुःखानि धनिनां सदा ॥२०३॥
भृत्यवृत्तिः कुसीदं च दासत्वं परतंत्रता
इष्टानिष्टाभियोगश्च संयोगाश्च सहस्रशः ॥२०४॥
दुर्भिक्षं दुर्भगत्वं च मूर्खत्वं च दरिद्रता
अधरोत्तरभागश्च नारकं राजविक्रमम् ॥२०५॥
अन्योन्याभिभवं दुःखमन्यांन्यतो भयं महत्
अन्योन्याच्च प्रकोपश्च राज्ञो दुःखं महीभृताम् ॥२०६॥
अनित्यतात्र भावानां कृतकाम्यस्य देहिनः
अन्योन्य मर्मभेदाच्च अन्योन्य करपीडनात् ॥२०७॥
लुब्धाश्च पापभेदेन अन्योन्यस्य च भक्षणम्
इत्येवमादिभिर्दुःखैर्यस्माद्भीतं चराचरम् ॥२०८॥
निरयादि मनुष्यांतं तस्मात्सर्वं त्यजेद्बुधः
स्कंधात्स्कंधेन यन्भारं विश्रामं मन्यते यथा ॥२०९॥
तद्वत्सर्वमिदं लोके दुःखं दुःखेन शाम्यति
अन्योन्यातिशयोपेताः सर्वदा भोगसंप्लवाः ॥२१०॥
धर्मक्षयाच्च देवानां दिवि दुःखमवस्थितम्
नानायोनिसहस्रेषु संभवः पुण्यसंक्षयात् ॥२११॥
रोगाश्च विविधाकारा देवलोकेऽपि संस्मृताः
यज्ञस्य हि शिरश्छिन्नमश्विभ्यां संधितं पुनः ॥२१२॥
तेन दोषेण यज्ञस्य शिरोरोगः सदैव हि
मार्तंडभानोः कुष्ठं च वरुणस्य जलोदरम् ॥२१३॥
पूष्णोदशनवैकल्यं भुजस्तंभः शचीपतेः
सुमहान्क्षयरोगश्च सोमस्य परिकीर्तितः ॥२१४॥
ज्वरश्च सुमहानासीद्दक्षस्यापि प्रजापतेः
कल्पेकल्पे च देवानां महतामपि संक्षयः ॥२१५॥
परार्धद्वयकालांते ब्रह्मणश्चाप्यनित्यता
दक्षस्य दुहितां पौत्रीं ब्रह्मा कामितवान्पुनः ॥२१६॥
क्रोधेन च जयां देवीं योगज्ञां शप्तवान्प्रभुः
कामक्रोधौ स्थितौ यत्र तत्र दोषास्तदात्मकाः ॥२१७॥
दुःखानि च समस्तानि संस्थितानि न संशयः
विशीर्णजन्ममरणं सर्वाशित्वं हविर्भुजः ॥२१८॥
स्त्रीवधः कामसक्तिश्च सारथ्यं पांडवे बले
रुद्रेण त्रिपुरं दग्धं दक्षयज्ञो विनाशितः ॥२१९॥
स्कंदस्य जन्म वै शुक्रात्क्रीडादीनां सहस्रशः
एवं त्रयोपि रागाद्यैर्दोषैर्देवाः समन्विताः ॥२२०॥
एभ्यः परः प्रभुः शांतः परिपूर्णः स मुक्तिदः
एवमेतज्जगत्सर्वमन्योन्यातिशये स्थितम् ॥२२१॥
दुःखैराकुलितं ज्ञात्वा निर्वेदं परमं व्रजेत्॥
निर्वेदाच्च विरागः स्याद्विरागाज्ज्ञानसंभवः ॥२२२॥
ज्ञानेन तत्परं ज्ञानं शिवं मुक्तिमवाप्नुयात्
समस्तदुःखनिर्मुक्त स्वस्थात्मा स सुखी तदा ॥२२३॥
सर्वज्ञः परिपूर्णश्च मुक्त इत्यभिधीयते
मातलिरुवाच-
एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ॥२२४॥
धर्माधर्मविवेको हि सर्वज्ञानसमुद्भवः
इंद्रलोके प्रगंतव्यं देवराजस्य शासनात् ॥२२५॥
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृमातृतीर्थ -
माहात्म्ये षट्षष्टितमोऽध्यायः ॥६६॥
N/A
References : N/A
Last Updated : October 29, 2020
TOP