संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ११९ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ११९ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ११९ Translation - भाषांतर कपिंजल उवाच-यस्याः प्रहसनात्तात सुहृद्यानि भवंति वैपुष्पाणि दिव्यगंधीनि दुर्लभानि सुरासुरैः ॥१॥कस्मात्तु देवताः सर्वाः प्रवांछंति महामतेशंकरः सुखमायाति हास्यपुष्पैः सुपूजितः ॥२॥को गुणस्तस्य पुष्पस्य तन्मे कथय विस्तरात्कामोदा सा भवेत्का तु कस्य पुत्री वरांगना ॥३॥हास्यात्तस्या महाभाग सुपुष्पाणि भवंति चको गुणस्तत्कथां ब्रूहि सकलां विस्तरेण च ॥४॥कुंजल उवाच-पुरा देवैर्महादैत्यैः कृत्वा सौहार्दमुत्तमम्ममंथुः सागरं क्षीरममृतार्थं समुद्यताः ॥५॥मथनाद्देवदैत्यानां कन्यारत्नचतुष्टयम्वरुणेन दर्शितं पूर्वं सोमेनैव तथा पुनः ॥६॥पश्चात्संदर्शितं पुण्यममृतं कलशे स्थितम्कन्या चतुष्टयं पूर्वं देवानां हितमिच्छति ॥७॥सुलक्ष्मीर्नाम सा चैका द्वितीया वारुणी तथाज्येष्ठा नाम तथा ख्याता कामोदान्या प्रचक्षते ॥८॥तासां मध्ये वरा श्रेष्ठा पूर्वं जाता महामतेतस्माज्ज्येष्ठेति विख्याता लोके पूज्या सदैव हि ॥९॥वारुणीपानरूपा च पयःफेनसमुद्भवाअमृतस्य तरंगाच्च कामोदाख्या बभूव ह ॥१०॥सोमो राजा तथा लक्ष्मीर्जज्ञाते अमृतादपित्रैलोक्यभूषणः सोमः संजातः शंकरप्रियः ॥११॥मृत्युरोगहरा जाता सुराणां वारुणी तथाज्येष्ठासु पुण्यदा जाता लोकानां हितमिच्छताम् ॥१२॥अमृतादुत्थिता देवी कामोदा नाम पुण्यदाविष्णोः प्रीत्यै भविष्ये तु वृक्षरूपं प्रयास्यति ॥१३॥विष्णुप्रीतिकरी सा तु भविष्यति सदैव हितुलसी नाम सा पुण्या भविष्यति न संशयः ॥१४॥तया सह जगन्नाथो रमिष्यति न संशयःतुलस्याः पत्रमेकं यो नीत्वा कृष्णाय दास्यति ॥१५॥मेने तस्योपकाराणां किमस्मै च ददाम्यहम्इत्येवं चिंतयेन्नित्यं तस्य प्रीतिकरो भवेत् ॥१६॥एवं कामोद नामासौ पूर्वं जाता समुद्रजायदा सा हसते देवी हर्षगद्गदभाषिणी ॥१७॥सौहृद्यानि सुगंधीनि मुखात्तस्याः पतंति वैअम्लानानि सुपुष्पाणि यो गृह्णाति समुद्यतः ॥१८॥पूजयेच्छंकरं देवं ब्रह्माणं माधवं तथातस्य देवाः प्रतुष्यंति यदिच्छति ददंति तत् ॥१९॥रोदित्येषा यदा सा च केन दुःखेन दुःखितानेत्राश्रुभ्यो हि तस्यास्तु प्रभवंति पतंति च ॥२०॥तानि चैव महाभाग हृद्यानि सुमहांति चसौरभेण विना तैस्तु यः पूजयति शंकरम् ॥२१॥तस्य दुःखं च संतापो जायते नात्र संशयःपुष्पैस्तु तादृशैर्देवान्सकृदर्चति पापधीः ॥२२॥तस्य दुःखं प्रकुर्वंति देवास्तत्र न संशयःएतत्ते सर्वमाख्यातं कामोदाख्यानमुत्तमम् ॥२३॥अथ कृष्णो विचिंत्यैव दृष्ट्वा विक्रमसाहसम्विहुंडस्यापि पापस्य उद्यमं साहसं तदा ॥२४॥नारदं प्रेषयामास मोहयैनं दुरासदम्नारदस्त्वथ संश्रुत्य वाक्यं विष्णोर्महात्मनः ॥२५॥गच्छमानं दुरात्मानं कामोदां प्रति दानवम्गत्वा तमाह दैत्येंद्रं नारदः प्रहसन्निव ॥२६॥क्व यासि त्वं च दैत्येंद्र सत्वरं च समातुरःसांप्रतं केन कार्येण कस्यार्थं केन नोदितः ॥२७॥ब्रह्मात्मजं नमस्कृत्य प्रत्युवाच कृतांजलिकामोदपुष्पार्थमहं प्रस्थितो द्विजसत्तम ॥२८॥तमुवाच स धर्मात्मा पुष्पैः किं ते प्रयोजनम्विप्रवर्यं पुनः प्राह कार्यकारणमात्मनः ॥२९॥नंदनस्य वनोद्देशे काचिन्नारी वराननातस्या दर्शनमात्रेण गतोऽहं कामवश्यताम् ॥३०॥तया प्रोक्तोऽस्मि विप्रेंद्र पुष्पैः कामोदसंभवैःपूजयस्व महादेवं पुष्पैस्तु सप्तकोटिभिः ॥३१॥ततस्ते सुप्रिया भार्या भविष्यामि न संशयःतदर्थे प्रस्थितोऽस्म्यद्य कामोदाख्यं पुरं प्रति ॥३२॥तामहं कामयिष्यामि सिंधुजां शुणु सांप्रतम्मनोल्लासैर्महाहासैर्हासयिष्याम्यहं पुनः ॥३३॥प्रीता सती महाभागा हसिष्यति पुनः पुनःतद्धास्यं गद्गदं विप्र मम कार्यप्रवर्द्धनम् ॥३४॥तस्माद्धास्यात्पतिष्यंति दिव्यानि कुसुमानि चतैस्तु देवमुमाकांतं पूजयिष्यामि सांप्रतम् ॥३५॥तेन पूजाप्रदानेन तुष्टो दास्यति मे फलम्ईश्वरः सर्वभूतेशः शंकरो लोकभावनः ॥३६॥नारद उवाच-तत्र दैत्य न गंतव्यं कामोदाख्ये पुरोत्तमेविष्णुरस्ति सुमेधावी सर्वदैत्यक्षयावहः ॥३७॥येनोपायेन पुष्पाणि कामोदाख्यानि दानवतव हस्ते प्रयास्यंति तमुपायं वदाम्यहम् ॥३८॥गंगातोयेषु दिव्यानि पतिष्यंति न संशयःवाहितानि जलैर्दिव्यैरागमिष्यंति सांप्रतम् ॥३९॥तानि त्वं तु प्रतिगृहाण सुहृद्यानि महांति चगृहीत्वा तानि पुष्पाणि साधयस्व मनीप्सितम् ॥४०॥नारदो दानवश्रेष्ठं मोहयित्वा ततः पुनःततश्च स तु धर्मात्मा चिंतयामास वै पुनः ॥४१॥कथमश्रूणि सा मुंचेत्केनोपायेन दुःखिताचिंतयानस्य तस्यैवं क्षणं वै नारदस्य च ॥४२॥ततो बुद्धिः समुत्पन्ना कामोदाख्यं पुरं गतः ॥४३॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्याने एकोनविंशत्यधिकशततमोऽध्यायः ॥११९॥ N/A References : N/A Last Updated : October 29, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP