संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः १४

भूमिखंडः - अध्यायः १४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सोमशर्मोवाच-
एवंविधं महापुण्यं धर्मव्याख्यानमुत्तमम्
कथं जानासि भद्रे त्वं कस्माच्चैव त्वया श्रुतम् ॥१॥
सुमनोवाच-
भार्गवाणां कुले जातः पिता मम महामते
च्यवनो नाम विख्यातः सर्वज्ञानविशारदः ॥२॥
तस्याहं प्रिय कन्या वै प्राणादपि च वल्लभा
यत्रयत्र व्रजत्येष तीर्थारामेषु सुव्रत ॥३॥
सभासु च मुनीनां तु देवतायतनेषु च
तेन सार्द्धं व्रजाम्येका क्रीडमाना सदैव हि ॥४॥
कौशिकान्वयसंभूतो वेदशर्मा महामतिः
पितुर्मम सखा दैवादटमानः समागतः ॥५॥
दुःखेन महताविष्टश्चिंतयानो मुहुर्मुहुः
समागतं महात्मानं तमुवाच पिता मम ॥६॥
भवंतं दुःखसंतप्तमिति जानामि सुव्रत
कस्माद्दुःखी भवाञ्जातस्तस्मात्त्वं कारणं वद ॥७॥
एतद्वाक्यं ततः श्रुत्वा च्यवनस्य महात्मनः
तमुवाच महात्मानं पितरं मम सुव्रतः ॥८॥
वेदशर्मा महाप्राज्ञ सर्वदुःखस्य कारणम्
मम भार्या महासाध्वी पातिव्रत्यपरायणा ॥९॥
अपुत्रा सा हि संजाता मम वंशो न विद्यते
एतत्ते कारणं प्रोक्तं प्रश्नितोस्मि यतस्त्वया ॥१०॥
एतस्मिन्नंतरे प्राप्तः कश्चित्सिद्धः समागतः
मम पित्रा तथा तेन ह्युत्थाय वेदशर्मणा ॥११॥
द्वाभ्यामपि च सिद्धोसौ पूजितो भक्तिपूर्वकैः
उपहारैस्स भोज्यान्नैर्वचनैर्मधुराक्षरैः ॥१२॥
द्वाभ्यामन्तर्गतं पृष्टं पूर्वोक्तं च यथा त्वया
उभौ तौ प्राह धर्मात्मा ससखं पितरं मम ॥१३॥
धर्मस्य कारणं सर्वं मयोक्तं ते तथा किल
धर्मेण प्राप्यते पुत्रो धनं धान्यं तथा स्त्रियः ॥१४॥
ततस्तेन कृतं धर्मं संपूर्णं वेदशर्मणा
तस्माद्धर्मात्सुसंजातं महत्सौख्यं सपुत्रकम् ॥१५॥
तेन संगप्रसंगेन ममैष मतिनिश्चयः
यथा कांत तव प्रोक्तं मयैव च परं शुभम् ॥१६॥
तस्माच्छ्रुतं महासिद्धात्सर्वसंदेहनाशनम्
विप्रधर्मं समाश्रित्य अनुवर्त्तस्व सर्वदा ॥१७॥
सोमशर्मोवाच-
धर्मेण कीदृशो मृत्युर्जन्म चैव वदस्व मे
उभयोर्लक्षणं कांते तत्सर्वं हि वदस्व मे ॥१८॥
सुमनोवाच-
सत्य शौच क्षमा शांति तीर्थपुण्यादिकैस्तथा
धर्मश्च पालितो येन तस्य मृत्युं वदाम्यहम् ॥१९॥
रोगो न जायते तस्य न च पीडा कलेवरे
न श्रमो वै न च ग्लानिर्न च स्वेदो भ्रमस्तथा ॥२०॥
दिव्यरूपधरा भूत्वा गंधर्वा ब्राह्मणास्तथा
वेदपाठसमायुक्ता गीतज्ञानविशारदाः ॥२१॥
तस्य पार्श्वं समायांति स्तुतिं कुर्वंति चातुलाम्
स्वस्थो हि आसने युक्तो देवपूजारतः किल ॥२२॥
तीर्थं च लभते प्राज्ञः स्नानार्थं धर्मतत्परः
अग्न्यागारे च गोस्थाने देवतायतनेषु च ॥२३॥
आरामे च तडागे च यत्राश्वत्थो वटस्तथा
ब्रह्मवृक्षं समाश्रित्य श्रीवृक्षं च तथा पुनः ॥२४॥
अश्वस्थानं समाश्रित्य गजस्थानगतो नरः
अशोकं चूतवृक्षं च समाश्रित्य यदास्थितः ॥२५॥
संनिधौ ब्राह्मणानां च राजवेश्मगतोथवा
रणभूमिं समाश्रित्य पूर्वं यत्र मृतो भवेत् ॥२६॥
मृत्युस्थानानि पुण्यानि केवलं धर्मकारणम्
गोग्रहं तु सुसंप्राप्य तथा चामरकंटकम् ॥२७॥
शुद्धधर्मकरो नित्यं धर्मतो धर्मवत्सलः
एवं स्थानं समाप्नोति यदा मृत्युं समाश्रितः ॥२८॥
मातरं पश्यते पुण्यं पितरं च नरोत्तमः
भ्रातरं श्रेयसा युक्तमन्यं स्वजनबांधवम् ॥२९॥
बंदीजनैस्तथा पुण्यैः स्तूयमानं पुनःपुनः
पापिष्ठं नैव पश्येत मातृपित्रादिकं पुनः ॥३०॥
गीतं गायंति गंधर्वाः स्तुवंतिस्तावकाः स्तवैः
मंत्रपाठैस्तथा विप्रा माता स्नेहेन पूजयेत् ॥३१॥
पितास्वजनवर्गाश्च धर्मात्मानं महामतिम्
एवं दूताः समाख्याताः पुण्यस्थानानि ते विभो ॥३२॥
प्रत्यक्षान्पश्यते दूतान्हास्यस्नेहसमाविलान्
न च स्वप्नेन मोहेन क्लेदयुक्तेन नैव सः ॥३३॥
धर्मराजो महाप्राज्ञो भवंतं तु समाह्वयेत्
एह्येहि त्वं महाभाग यत्र धर्मः स तिष्ठति ॥३४॥
तस्य मोहो न च भ्रांतिर्न ग्लानिः स्मृतिविभ्रमः
जायते नात्र संदेहः प्रसन्नात्मा स तिष्ठति ॥३५॥
ज्ञानविज्ञानसंपन्नः स्मरन्देवं जनार्दनम्
तैः सार्द्धं तु प्रयात्येवं संतुष्टो हृष्टमानसः ॥३६॥
एकत्वं जायते तत्र त्यजतः स्वंकलेवरम्
दशमद्वारमाश्रित्य आत्मा तस्य स गच्छति ॥३७॥
शिबिका तस्य आयाति हंसयानं मनोहरम्
विमानमेव चायाति हयो वा गज उत्तमः ॥३८॥
छत्रेण ध्रियमाणेन चामरैर्व्यजनैस्तथा
वीज्यमानः स पुण्यात्मा पुण्यैरेवं समंततः ॥३९॥
गीयमानस्तु धर्मात्मा स्तूयमानस्तु पंडितैः
बंदिभिश्चारणैर्दिव्यैर्ब्राह्मणैर्वेदपारगैः ॥४०॥
साधुभिः स्तूयमानस्तु सर्वसौख्यसमन्वितः
यथादानप्रभावेण फलमाप्नोति तत्र सः ॥४१॥
आरामवाटिकामध्ये स प्रयाति सुखेन वै
अप्सरोभिः समाकीर्णो दिव्याभिर्मंगलैर्युतः ॥४२॥
देवैः संस्तूयमानस्तु धर्मराजं प्रपश्यति
देवाश्च धर्मसंयुक्ता जग्मुः संमुखमेव तम् ॥४३॥
एह्येहि वै महाभाग भुंक्ष्व भोगान्मनोनुगान्
एवं स पश्यते धर्मं सौम्यरूपं महामतिम् ॥४४॥
स्वस्य पुण्यप्रभावेण भुंक्ते च स्वर्गमेव सः
भोगक्षयात्सधर्मात्मा पुनर्जन्म प्रयाति वै ॥४५॥
निजधर्मप्रसादात्स कुलं पुण्यं प्रयाति वै
ब्राह्मणस्य सुपुण्यस्य क्षत्रियस्य तथैव च ॥४६॥
धनाढ्यस्य सुपुण्यस्य वैश्यस्यैव महामते
धर्मेण मोदते तत्र पुनः पुण्यं करोति सः ॥४७॥

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे- ऐंद्रे सुमनोपाख्याने चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP