संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ७३

भूमिखंडः - अध्यायः ७३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


पिप्पल उवाच-
गते तस्मिन्महाभागे दूत इंद्रस्य वै पुनः
किं चकार स धर्मात्मा ययातिर्नहुषात्मजः ॥१॥
सुकर्मोवाच-
तस्मिन्गते देववरस्य दूते स चिंतयामास नरेंद्रसूनुः
आहूय दूतान्प्रवरान्स सत्वरं धर्मार्थयुक्तं वच आदिदेश ॥२॥
गच्छंतु दूताः प्रवराः पुरोत्तमे देशेषु द्वीपेष्वखिलेषु लोके
कुर्वंतु वाक्यं मम धर्मयुक्तं व्रजंतु लोकाः सुपथा हरेश्च ॥३॥
भावैः सुपुण्यैरमृतोपमानैर्ध्यानैश्च ज्ञानैर्यजनैस्तपोभिः
यज्ञैश्च दानैर्मधुसूदनैकमर्चंतु लोका विषयान्विहाय ॥४॥
सर्वत्र पश्यंत्वसुरारिमेकं शुष्केषु चार्द्रेष्वपि स्थावरेषु
अभ्रेषु भूमौ सचराचरेषु स्वीयेषु कायेष्वपि जीवरूपम् ॥५॥
देवं तमुद्दिश्य ददंतु दानमातिथ्यभावैः परिपैत्रिकैश्च
नारायणं देववरं यजध्वं दोषैर्विमुक्ता अचिराद्भविष्यथ ॥६॥
यो मामकं वाक्यमिहैव मानवो लोभाद्विमोहादपि नैव कारयेत्
स शास्यतां यास्यति निर्घृणो ध्रुवं ममापि चौरो हि यथा निकृष्टः ॥७॥
आकर्ण्य वाक्यं नृपतेश्च दूताःसंहृष्टभावाः सकलां च पृथ्वीम्
आचख्युरेवं नृपतेः प्रणीतमादेशभावं सकलं प्रजासु ॥८॥
विप्रादिमर्त्या अमृतं सुपुण्यमानीतमेवं भुवि तेन राज्ञा
पिबंतु पुण्यं परिवैष्णवाख्यं दोषैर्विहीनं परिणाममिष्टम् ॥९॥
श्रीकेशवं क्लेशहरं वरेण्यमानंदरूपं परमार्थमेवम्
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः ॥१०॥
सखड्गपाणिं मधुसूदनाख्यं तं श्रीनिवासं सगुणं सुरेशम्
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः ॥११॥
श्रीपद्मनाथं कमलेक्षणं च आधाररूपं जगतां महेशम्
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः ॥१२॥
पापापहं व्याधिविनाशरूपमानंददं दानवदैत्यनाशनम्
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः ॥१३॥
यज्ञांगरूपं चरथांगपाणिं पुण्याकरं सौख्यमनंतरूपम्
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः ॥१४॥
विश्वाधिवासं विमलं विरामं रामाभिधानं रमणं मुरारिम्
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः ॥१५॥
आदित्यरूपं तमसां विनाशं बंधस्यनाशं मतिपंकजानाम्
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः ॥१६॥
नामामृतं सत्यमिदं सुपुण्यमधीत्य यो मानव विष्णुभक्तः
प्रभातकाले नियतो महात्मा स याति मुक्तिं न हि कारणं च ॥१७॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थवर्णने ययाति-
चरिते त्रिसप्ततितमोऽध्यायः ॥७३॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP