संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ९३

भूमिखंडः - अध्यायः ९३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कुंजल उवाच-
किं विज्वल त्वया दृष्टमपूर्वं भ्रमता महीम्
आश्चर्येण समायुक्तं तन्मे कथय सुव्रत ॥१॥
इतः प्रयासि कं देशमाहारार्थं तु सोद्यमी
यद्य दृष्टं त्वया चित्रं समाख्याहि सुतोत्तम ॥२॥
विज्वल उवाच-
अस्ति मेरुगिरेः पृष्ठे आनंदं नाम काननम्
दिव्यवृक्षैः समाकीर्णंफ लपुष्पमयैः सदा ॥३॥
देववृंदैः समाकीर्णं मुनिसिद्धसमन्वितम्
अप्सरोभिः सुरूपाभिर्गंधर्वैः किन्नरोरगैः ॥४॥
वापीकूपतडागैश्च नदीप्रस्रवणैस्तथा
आनंदकाननं पुण्यं दिव्यभावैः प्रभासते ॥५॥
विमानैः कोटिसंख्याभिर्हंसकुंदेंदुसन्निभैः
गीतकोलाहलैः रम्यैर्मेघध्वनिनिनादितम् ॥६॥
षट्पदानां निनादेन सर्वत्र मधुरायते
चंदनैश्चूतवृक्षैश्च चंपकैः पुष्पितैर्वृतम् ॥७॥
नानावृक्षैः प्रभात्येवमानंदवनमुत्तमम्
नानापक्षिनिनादेन बहुकोलाहलान्वितम् ॥८॥
एवमानंदनं दृष्टं मया तत्र सुशोभनम्
विमलं च सरस्तात शोभते सागरोपमम् ॥९॥
संपूर्णं पुण्यतोयेन पद्मसौगंधिकैः शुभैः
जलजैस्तु समाकीर्णं हंसकारंडवान्वितम् ॥१०॥
एवमासीत्सरस्तस्य सुमध्ये काननस्य हि
देवगंधर्वसंबाधैर्मुनिवृंदैरलंकृतम् ॥११॥
किंनरोरगगंधर्वैश्चारणैश्च सुशोभते
तत्राश्चर्यं मया दृष्टं वक्तुं तात न शक्यते ॥१२॥
विमानेनापि दिव्येन कलशैरुपशोभते
छत्रदंडपताकाभीराजमानेन सत्तम ॥१३॥
सर्वभोगाविलेनापि गीयमानेथ किन्नरैः
गंधर्वैरप्सरोभिश्च शोभमानोथ सुव्रत ॥१४॥
स्तूयमानो महासिद्धऋषिभिस्तत्त्ववेदिभिः
रूपेणाप्रतिमो लोके न दृष्टस्तादृशः क्वचित् ॥१५॥
सर्वाभरणशोभांगो दिव्यमालाविशोभितः
महारत्नकृतामाला यस्योरसि विराजते ॥१६॥
तत्समीपे स्थिता चैका नारी दृष्टा वरानना
हेमहारैश्च मुक्तानां वलयैः कंकणैर्युता ॥१७॥
दिव्यवस्त्रैश्च गंधैश्च चंदनैश्चारुलेपनैः
स्तूयमानो गीयमानः पुरुषस्तत्र चागतः ॥१८॥
रतिरूपा वरारोहा पीनश्रोणिपयोधरा
सर्वाभरणशोभांगी तादृशी रूपसंपदा ॥१९॥
द्वावेतौ तौ मया दृष्टौ विमानेनापि चागतौ
रूपलावण्यमाधुर्यौ सर्वशोभासमाविलौ ॥२०॥
समुत्तीर्णौ विमानात्तावागतौ सरसोन्तिके
स्नातौ तात महात्मानौ स्त्रीपुंसौ कमलेक्षणौ ॥२१॥
प्रगृह्य तौ महाशस्त्रौ दंपती तु परस्परम्
तादृशौ च शवौ तत्र पतितौ सरसस्तटे ॥२२॥
प्रभासे ते तदा तौ तु स्त्रीपुंसौ कमलेक्षणौ
रूपेणापि महाभाग तादृशावेव तौ शवौ ॥२३॥
देवरूपोपमस्तात यथा पुंसस्तथा शवः
यथारूपं हि तस्यापि तादृशस्तत्र दृश्यते ॥२४॥
यथारूपं तु भार्यायास्तथा शवो द्वितीयकः
स्त्रीशवस्य तु यन्मांसं शस्त्रेणोत्कृत्य सा ततः ॥२५॥
भक्षते तस्य मांसानि रक्ताप्लुतानि तानि तु
पुरुषो भक्षते तद्वच्छवमांसं समातुरः ॥२६॥
क्षुधया पीड्यमानौ तौ भक्षेते पिशितं तयोः
यावत्तृप्तिं समायातौ तावन्मांसं प्रभक्षितम् ॥२७॥
सरस्यथ जलं पीत्वा संजातौ सुखितौ पितः
कियत्कालं स्थितौ तत्र विमानेन गतौ पुनः ॥२८॥
अन्ये द्वे तु स्त्रियौ तात मया दृष्टे च तत्र वै
रूपसौभाग्यसंपन्ने ते स्त्रियौ चारुलक्षणे ॥२९॥
ताभ्यां प्रभक्षितं मांसं यदा तात महावने
प्रहसेते तदा ते द्वे हास्यैरट्टाट्टकैःपुनः ॥३०॥
भक्षते च स्वमांसानि तावेतौ परिनित्यशः
कृत्वा स्नानादिकं मांसं पश्यतो मम तत्र हि ॥३१॥
अन्ये स्त्रियौ महाभाग रौद्रा कारसमन्विते
दंष्ट्राकरालवदने तत्रैवाति विभीषणे ॥३२॥
ऊचतुस्तौ तदा ते तु देहिदेहीति वै पुनः
एवं दृष्टं मया तात वसता वनसंनिधौ ॥३३॥
नित्यमुत्कीर्य भक्ष्येते तौ द्वौ तु मांसमेव च
जायेते च सुसंपूर्णौ कायौ च शवयोः पुनः ॥३४॥
नित्यमुत्तीर्य तावेवं ते चाप्यन्ये च वै पितः
कुर्वंति सदृशीं चेष्टां पूर्वोक्तां मम पश्यतः ॥३५॥
एतदाश्चर्य संजातं दृष्टं तात मया तदा
भवता पृच्छितं तात दृष्टमाश्चर्यमेव च ॥३६॥
मया ख्यातं तवाग्रे वै सर्वसंदेहकारणम्
कथयस्व प्रसादाच्च प्रीयमाणेन चेतसा ॥३७॥
विमानेनागतो योसौ स्त्रिया सार्द्धं द्विजोत्तम
दिव्यरूपधरो यस्तु स कस्तु कमलेक्षणः ॥३८॥
का च नारी महाभाग महामांसं प्रभक्षति
स कश्चाप्यागतस्तात सा चैवाभ्येत्य भक्षति ॥३९॥
प्रहसेते तदा ते द्वे स्त्रियौ तात वदस्व नः
ऊचतुस्तौ तथा चान्ये देहिदेहीति वा पुनः ॥४०॥
तेद्वेत्वं मे समाचक्ष्व महाभीषणके स्त्रियौ
एतन्मे संशयं तात छेत्तुमर्हसि सुव्रत ॥४१॥
एवमुक्त्वा महाराज विरराम स चांडजः
एवं पृष्टस्तृतीयेन विज्वलेनात्मजेन सः ॥४२॥
प्रोवाच सर्वं वृत्तांतं च्यवनस्यापि शृण्वतः ॥४३॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे त्रिनवतितमोऽध्यायः ॥९३॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP