संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ४६ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ४६ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ४६ Translation - भाषांतर सुकलोवाच-श्वसंतीं शूकरीं दृष्ट्वा पतितां पुत्रवत्सलाम्सुदेवावकृपयाविष्टा गत्वा तां दुःखितां प्रति ॥१॥अभिषिच्य मुखं तस्याः शीतलेनोदकेन चपुनः सर्वांगमेवापि दुःखितां रणशालिनीम् ॥२॥पुण्येन शीततोयेन सा उवाचाभिषिंचतीम्उवाच मानुषीं वाचं सुस्वरं नृपतिप्रियाम् ॥३॥सुखं भवतु ते देवि अभिषिक्ता त्वया यदिसंपर्काद्दर्शनात्तेद्य गतो मे पापसंचयः ॥४॥तदाकर्ण्य महद्वाक्यमद्भुताकारसंयुतम्चित्रमेतन्मया दृष्टं कृतं तेऽनामयं वचः ॥५॥पशुजातिमतीचेयं सौष्ठवं भाषते स्फुटम्स्वरव्यंजनसंपन्नं संस्कृतमुत्तमं मम ॥६॥हर्षेण विस्मयेनापि कृत्वा साहसमुत्तमम्तत्रस्था सा महाभागा तं पतिं वाक्यमब्रवीत् ॥७॥पश्य राजन्नपूर्वेयं संस्कृतं भाषते महत्पशुयोनिगता चेयं यथा वै मानुषो वदेत् ॥८॥तदाकर्ण्य ततो राजा सर्वज्ञानवतां वरःअद्भुतमद्भुताकारं यन्न दृष्टं श्रुतं मया ॥९॥तामुवाच ततो राजा सुदेवां सुप्रियां तदापृच्छ चैनां शुभां कांते का चेयं तु भविष्यति ॥१०॥श्रुत्वा तु नृपतेर्वाक्यं सा पप्रच्छ च सूकरीम्का भविष्यसि त्वं भद्रे चित्रं ते दृश्यते बहु ॥११॥पशुयोनिगता त्वं वै भाषसे मानुषं वचःसौष्ठवं ज्ञानसंपन्नं वद मे पूर्वचेष्टितम् ॥१२॥भर्तुश्चापि महाराज भटस्यास्य महात्मनःकोयं धर्मो महावीर्यो गतः स्वर्गं पराक्रमैः ॥१३॥आत्मनश्च स्वभर्तुश्च सर्वं पूर्वानुगं वदएवमुक्त्वा महाभागा विरराम नृपप्रिया ॥१४॥शूकर्युवाच-यदि पृच्छसि मां भद्रे ममास्य च महात्मनःतत्सर्वं ते प्रवक्ष्यामि चरितं पूर्वचेष्टितम् ॥१५॥अयमेष महाप्राज्ञो गंधर्वो गीतपंडितःरंगविद्याधरो नाम सर्वशास्त्रार्थकोविदः ॥१६॥मेरुं गिरिवरश्रेष्ठं चारुकंदरनिर्झरम्तमाश्रित्य महातेजाः पुलस्त्यो मुनिसत्तमः ॥१७॥तपश्चचार तेजस्वी निर्व्यलीकेन चेतसाविद्याधरस्तत्र गतः स्वेच्छया स महाप्रभो ॥१८॥तमाश्रित्य गिरिश्रेष्ठं गीतमभ्यसते तदास्वरतालसमोपेतं सुस्वरं चारुहासिनि ॥१९॥गीतं श्रुत्वा मुनिस्तस्य ध्यानाच्चलितमानसःगायंतं तमुवाचेदं गीतविद्याधरं प्रति ॥२०॥भवद्गीतेन दिव्येन देवा मुह्यंति नान्यथासुस्वरेण सुपुण्येन तालमानेन पंडित ॥२१॥लययुक्तेन भावेन मूर्च्छना सहितेन चमे मनश्चलितं ध्यानाद्गीतेनानेन सुव्रत ॥२२॥इदं स्थानं परित्यज्य अन्यस्थानं व्रजस्व तत्गीतविद्याधर उवाच-आत्मज्ञानसमं गीतमन्यस्थानं व्रजामि किम् ॥२३॥दुःखं ददे न कस्यापि सुखदो नृषु सर्वदागीतेनानेन दिव्येन सर्वास्तुष्यंति देवताः ॥२४॥शंभुश्चापि समानीतो गीतध्वनिरतो द्विजगीतं सर्वरसं प्रोक्तं गीतमानंददायकम् ॥२५॥शृंगाराद्यारसाः सर्वे गीतेनापि प्रतिष्ठिताःशोभामायांति गीतेन वेदाश्चत्वार उत्तमाः ॥२६॥गीतेन देवताः सर्वास्तोषमायांति नान्यथातदेवं निन्दसे गीतं मामेवं परिचालयेः ॥२७॥अन्यायोऽयं महाभाग तवैव इह दृश्यतेपुलस्त्य उवाच-सत्यमुक्तं त्वयाद्यैव गीतार्थं बहुपुण्यदम् ॥२८॥शृणु त्वं मामकं वाक्यं मानं त्यज महामतेनाहं गीतं प्रकुत्सामि गीतं वंदामि नान्यथा ॥२९॥विद्याश्चतुर्दशैवैता एकीभावेन भावदाःप्राणिनां सिद्धिमायांति मनसा निश्चलेन च ॥३०॥तपश्च तद्वन्मंत्राश्च सुसिद्ध्यंत्येकचिंतयाहृषीकाणां महावर्गश्चपलो मम संमतः ॥३१॥विषयेष्वेव सर्वेषु नयत्यात्मानमुच्चकैःचालयित्वा मनस्तस्माद्ध्यानादेव न संशयः ॥३२॥यत्र शब्दं न रूपं च युवती नैव तिष्ठतिमुनयस्तत्र गच्छंति तपःसिद्ध्यर्थमेव हि ॥३३॥अयं गीतः पवित्रस्ते बहुसौख्यप्रदायकःन पश्येम वयं वीर तिष्ठामो वनसंस्थिताः ॥३४॥अन्यत्स्थानं प्रयाहि त्वं नोवा वयं व्रजामहेगीतविधाधर उवाच-इंद्रियाणां बलं वर्गं जितं येन महात्मना ॥३५॥स जयी कथ्यते योगी स च वीरः ससाधकःशब्दं श्रुत्वाथ वा दृष्ट्वा रूपमेवं महामते ॥३६॥चलते नैव यो ध्यानात्स धीरस्तपसाधकःभवांस्तु तेजसा हीन इंद्रियैर्विजितो यतः ॥३७॥स्वर्गेपि नास्ति सामर्थ्यं मम गीतस्य धर्षणेवर्जयंति वनं सर्वे हीनवीर्या न संशयः ॥३८॥अयं साधारणो विप्र वनदेशो न संशयःदेवानां सर्वजीवानां यथा मम तथा तव ॥३९॥कथं गच्छाम्यहं त्यक्त्वा वनमेवमनुत्तमम्यूयं गच्छंतु तिष्ठंतु यद्भव्यं तत्तु नान्यथा ॥४०॥एवमाभाष्य तं विप्रं गीतविद्याधरस्तदासमाकर्ण्य ततस्तेन मुनिना तस्य उत्तरम् ॥४१॥चिंतयामास मेधावी किं कृत्वा सुकृतं भवेत्क्षमां कृत्वा जगामाथ अन्यत्स्थानं द्विजोत्तमः ॥४२॥तपश्चचार धर्मात्मा योगासनगतः सदाकामं क्रोधं परित्यज्य मोहं लोभं तथैव च ॥४३॥सर्वेन्द्रियाणि संयम्य मनसा सममेव चएवं स्थितस्तदा योगी पुलस्त्यो मुनिसत्तमः ॥४४॥सुकलोवाच-गते तस्मिन्महाभागे पुलस्त्ये मुनिपुंगवेकालादिष्टेन तेनापि गीतविद्याधरेण च ॥४५॥चिंतितं सुचिरं कालं न दृष्टोयं भयान्ममक्व गतस्तिष्ठते वापि कुरुते किं कथं च सः ॥४६॥ज्ञात्वा पद्मात्मजसुतमेकांतवनशालिनम्गतो वराहरूपेण तस्याश्रममनुत्तमम् ॥४७॥आसनस्थं महात्मानं तेजोज्वालासमाविलम्दृष्ट्वा चकार वै क्षोभं तस्य विप्रस्य भामिनि ॥४८॥धर्षयेन्नियतं विप्रं तुंडाग्रेण कुचेष्टयापशुं ज्ञात्वा महाराज क्षमते तस्य दुष्कृतम् ॥४९॥मूत्रयेत्पुरतः कृत्वा विष्ठां च कुरुते ततःनृत्यते क्रीडते तत्र पतति प्रोच्चलेत्पुनः ॥५०॥पशुं ज्ञात्वा परित्यक्तो मुनिना तेन भूपतेएकदा तु तथायाते तेन रूपेण वै पुनः ॥५१॥अट्टाट्टहासेन पुनर्हास्यमेवं कृतं तदारोदनं च कृतं तत्र गीतं गायति सुस्वरम् ॥५२॥तथा तमागतं विप्रो गीतविद्याधरं नृपचेष्टितं तस्य वै दृष्ट्वा घोणिरेष भवेन्नहि ॥५३॥ज्ञात्वा तस्य तु वृत्तांतं मामेवं परिचालयेत्पशुं ज्ञात्वा मया त्यक्तो दुष्ट एष सुनिर्घृणः ॥५४॥एवं ज्ञात्वा महात्मानं गंधर्वाधममेव हिचुकोप मुनिशार्दूलस्तं शशाप महामतिः ॥५५॥यस्माच्छूकररूपेण मामेवं परिचालयेःतस्माद्व्रज महापाप पापयोनिं तु शौकरीम् ॥५६॥शप्तस्तेनापि विप्रेण गतो देवं पुरंदरम्तमुवाच महात्मानं कंपमानो वरानने ॥५७॥शृणु वाक्यं सहस्राक्ष तव कार्यं कृतं मयातप एव हि कुर्वन्सन्दारुणं मुनिपुंगवः ॥५८॥तस्मात्तपःप्रभावात्तु चालितः क्षोभितो मयाशप्तस्तेनास्मि विप्रेण देवरूपं प्रणाशितम् ॥५९॥पशुयोनिं गतं शक्र मामेवं परिरक्षयज्ञात्वा तस्य स वृत्तांतं गीतविद्याधरस्य च ॥६०॥तेन सार्धंगतश्चेंद्रस्तं मुनिं पर्यभाषतदीयतामनुग्रहो नाथ सिद्धिज्ञोसि द्विजोत्तम ॥६१॥क्षम्यतां मुनिवर्यास्मिन्क्रियतां शापमोक्षणम्इति संप्रार्थितो विप्रो महेंद्रेणाह हृष्टधीः ॥६२॥पुलस्त्य उवाच-वचनात्तव देवेश क्षंतव्यं च मयापि हिभविष्यति महाराज मनुपुत्रो महाबलः ॥६३॥इक्ष्वाकुर्नाम धर्मात्मा सर्वधर्मानुपालकःतस्य हस्ताद्यदा मृत्युरस्यैव च भविष्यति ॥६४॥तदैष वै स्वकं देहं प्राप्स्यते नात्र संशयःएतत्ते सर्ववृत्तांतं शूकरस्य निवेदितम् ॥६५॥आत्मनश्च प्रवक्ष्यामि पत्या सार्धं शृणुष्व हिमया च पातकं घोरं कृतं यत्पापया पुरा ॥६६॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे षट्चत्वारिंशोऽध्यायः ॥४६॥ N/A References : N/A Last Updated : October 26, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP