संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ७६ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ७६ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ७६ Translation - भाषांतर सुकर्मोवाच-सौरिर्दूतैस्तथा सर्वैः सह स्वर्गं जगाम सःद्रष्टुं तत्र सहस्राक्षं देववृंदैः समावृतम् ॥१॥धर्मराजं समायांतं ददर्श सुरराट्तदासमुत्थाय त्वरायुक्तो दत्वा चार्घमनुत्तमम् ॥२॥पप्रच्छागमनं तस्य कथयस्व ममाग्रतःसमाकर्ण्य महद्वाक्यं देवराजस्य भाषितम् ॥३॥धर्मराजोऽब्रवीत्सर्वं ययातेश्चरितं महत्धर्मराज उवाच-श्रूयतां देवदेवेश यस्मादागमनं मम ॥४॥कथयाम्यहमत्रापि येनाहमागतस्तवनहुषस्यात्मजेनापि वैष्णवेन महात्मना ॥५॥वैष्णवाश्च कृता मर्त्या ये वसंति महीतलेवैकुंठस्य समं रूपं मर्त्यलोकस्य वै कृतम् ॥६॥अमरा मानवा जाता जरारोगविवर्जिताःपापमेव न कुर्वंति असत्यं न वदंति ते ॥७॥कामक्रोधविहीनास्ते लोभमोहविवर्जिताःदानशीला महात्मानः सर्वे धर्मपरायणाः ॥८॥सर्वधर्मैः समर्चंति नारायणमनामयम्तेन वैष्णवधर्मेण मानवा जगतीतले ॥९॥निरामया वीतशोकाः सर्वे च स्थिरयौवनाःदूर्वा वटा यथा देव विस्तारं यांति भूतले ॥१०॥तथा ते विस्तरं प्राप्ताः पुत्रपौत्रैः प्रपौत्रकैःतेषां पुत्रैः प्रपौत्रैश्च वंशाद्वंशांतरं गताः ॥११॥एवं हि वैष्णवः सर्वो जरामृत्युविवर्जितःमर्त्यलोकः कृतस्तेन नहुषस्यात्मजेन वै ॥१२॥पदभ्रष्टोस्मि संजातो व्यापारेण विवर्जितःएतत्सर्वं समाख्यातं मम कर्मविनाशनम् ॥१३॥एवं ज्ञात्वा सहस्राक्ष लोकस्यास्य हितं कुरुएतत्ते सर्वमाख्यातं यथापृष्टोस्मि वै त्वया ॥१४॥एतस्मात्कारणादिंद्र आगतस्तव सन्निधौइंद्र उवाच-पूर्वमेव मया दूत आगमाय महात्मनः ॥१५॥प्रेषितो धर्मराजेंद्र दूतेनास्यापि भाषितम्नाहं स्वर्गसुखस्यार्थी नागमिष्ये दिवं पुनः ॥१६॥स्वर्गरूपं करिष्यामि सर्वं तद्भूमिमंडलम्इत्याचचक्षे भूपालः प्रजापाल्यं करोति सः ॥१७॥तस्य धर्मप्रभावेण भीतस्तिष्ठामि सर्वदाधर्म उवाच-येनकेनाप्युपायेन तमानय सुभूपतिम् ॥१८॥देवराज महाभाग यदीच्छसि मम प्रियम्इत्याकर्ण्य वचस्तस्य धर्मस्यापि सुराधिपः ॥१९॥चिंतयामास मेधावी सर्वतत्वेन भूपतेकामदेवं समाहूय गंधर्वांश्च पुरंदरः ॥२०॥मकरंदं रतिं देव आनिनाय महामनाःतथा कुरुत वै यूयं यथाऽगच्छति भूपतिः ॥२१॥यूयं गच्छन्तु भूर्लोकं मयादिष्टा न संशयःकाम उवाच-युवयोस्तु प्रियं पुण्यं करिष्यामि न संशयः ॥२२॥राजानं पश्य मां चैव स्थितं चैव समा युधितथेत्युक्त्वा गताः सर्वे यत्र राजा स नाहुषिः ॥२३॥नटरूपेण ते सर्वे कामाद्याः कर्मणा द्विजआशीर्भिरभिनंद्यैव ते च ऊचुः सुनाटकम् ॥२४॥तेषां तद्वचनं श्रुत्वा ययातिः पृथिवीपतिःसभां चकार मेधावी देवरूपां सुपंडितैः ॥२५॥समायातः स्वयं भूपो ज्ञानविज्ञानकोविदःतेषां तु नाटकं राजा पश्यमानः स नाहुषिः ॥२६॥चरितं वामनस्यापि उत्पत्तिं विप्ररूपिणःरूपेणाप्रतिमा लोके सुस्वरं गीतमुत्तमम् ॥२७॥गायमाना जरा राजन्नार्यारूपेण वै तदातस्या गीतविलासेन हास्येन ललितेन च ॥२८॥मधुरालापतस्तस्य कंदर्पस्य च माययामोहितस्तेन भावेन दिव्येन चरितेन च ॥२९॥बलेश्चैव यथारूपं विंध्यावल्या यथा पुरावामनस्य यथारूपं चक्रे मारोथ तादृशम् ॥३०॥सूत्रधारः स्वयं कामो वसंतः पारिपार्श्वकःनटीवेषधरा जाता सा रतिर्हृष्टवल्लभा ॥३१॥नेपथ्यांतश्चरी राजन्सा तस्मिन्नृत्यकर्मणिमकरंदो महाप्राज्ञः क्षोभयामास भूपतिम् ॥३२॥यथायथा पश्यति नृत्यमुत्तमं गीतं समाकर्णति स क्षितीशःतथातथा मोहितवान्स भूपतिं नटीप्रणीतेन महानुभावः ॥३३॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थे ययातिचरित्रे षट्सप्ततितमोऽध्यायः ॥७६॥ N/A References : N/A Last Updated : October 29, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP