संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ७९

भूमिखंडः - अध्यायः ७९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


विशालोवाच-
शर्मिष्ठा यस्य वै भार्या देवयानी वरानना
सौभाग्यं तत्र वै दृष्टमन्यथा नास्ति भूपते ॥१॥
तत्कथं त्वं महाभाग अस्याः कार्यवशो भवेः
सपत्नजेन भावेन भवान्भर्ता प्रतिष्ठितः ॥२॥
ससर्पोसि महाराज भूतले चंदनं यथा
सर्पैश्च वेष्टितो राजन्महाचंदन एव हि ॥३॥
तथा त्वं वेष्टितः सर्पैः सपत्नीनामसंज्ञकैः
वरमग्निप्रवेशश्च शिखाग्रात्पतनं वरम् ॥४॥
रूपतेजः समायुक्तं सपत्नीसहितं प्रियम्
न वरं तादृशं कांतं सपत्नीविषसंयुतम् ॥५॥
तस्मान्न मन्यते कांतं भवंतं गुणसागरम्
राजोवाच-
देवयान्या न मे कार्यं शर्मिष्ठया वरानने ॥६॥
इत्यर्थं पश्य मे कोशं सत्वधर्मसमन्वितम्
अश्रुबिंदुमत्युवाच-
अहं राज्यस्य भोक्त्री च तव कायस्य भूपते ॥७॥
यद्यद्वदाम्यहं भूप तत्तत्कार्यं त्वया ध्रुवम्
इत्यर्थे मम देहि स्वं करं त्वं धर्मवत्सल ॥८॥
बहुधर्मसमोपेतं चारुलक्षणसंयुतम्
राजोवाच-
अन्य भार्यां न विंदामि त्वां विना वरवर्णिनि ॥९॥
राज्यं च सकलामुर्वीं मम कायं वरानने
सकोशं भुंक्ष्व चार्वंगि एष दत्तः करस्तव ॥१०॥
यदेव भाषसे भद्रे तदेवं तु करोम्यहम्
अश्रुबिंदुमत्युवाच-
अनेनापि महाभाग तव भार्या भवाम्यहम् ॥११॥
एवमाकर्ण्य राजेंद्रो हर्षव्याकुललोचनः
गांधर्वेण विवाहेन ययातिः पृथिवीपतिः ॥१२॥
उपयेमे सुतां पुण्यां मन्मथस्य नरोत्तम
तया सार्द्धं महात्मा वै रमते नृपनंदनः ॥१३॥
सागरस्य च तीरेषु वनेषूपवनेषु च
पर्वतेषु च रम्येषु सरित्सु च तया सह ॥१४॥
रमते राजराजेंद्रस्तारुण्येन महीपतिः
एवं विंशत्सहस्राणि गतानि निरतस्य च ॥१५॥
भूपस्य तस्य राजेंद्र ययातेस्तु महात्मनः
विष्णुरुवाच-
एवं तया महाराजो ययातिर्मोहितस्तदा ॥१६॥
कंदर्पस्य प्रपंचेन इंद्रस्यार्थे महामते
सुकर्मोवाच-
एवं पिप्पल राजासौ ययातिः पृथिवीपतिः ॥१७॥
तस्या मोहनकामेन रतेन ललितेन च
न जानाति दिनं रात्रिं मुग्धः कामस्य कन्यया ॥१८॥
एकदा मोहितं भूपं ययातिं कामनंदिनी
उवाच प्रणतं नम्रं वशगं चारुलोचना ॥१९॥
अश्रुबिंदुमत्युवाच-
संजातं दोहदं कांत तन्मे कुरु मनोरथम्
अश्वमेधमखश्रेष्ठं यजस्व पृथिवीपते ॥२०॥
राजोवाच-
एवमस्तु महाभागे करोमि तव सुप्रियम्
समाहूय सुतश्रेष्ठं राज्यभोगे विनिःस्पृहम् ॥२१॥
समाहूतः समायातो भक्त्यानमितकंधरः
बद्धांजलिपुटो भूत्वा प्रणाममकरोत्तदा ॥२२॥
तस्याः पादौ ननामाथ भक्त्या नमितकंधरः
आदेशो दीयतां राजन्येनाहूतः समागतः ॥२३॥
किं करोमि महाभाग दासस्ते प्रणतोस्मि च
राजोवाच-
अश्वमेधस्य यज्ञस्य संभारं कुरु पुत्रक ॥२४॥
समाहूय द्विजान्पुण्यानृत्विजो भूमिपालकान्
एवमुक्तो महातेजाः पूरुः परमधार्मिकः ॥२५॥
सर्वं चकार संपूर्णं यथोक्तं तु महात्मना
तया सार्धं स जग्राह सुदीक्षां कामकन्यया ॥२६॥
अश्वमेधयज्ञवाटे दत्वा दानान्यनेकधा
ब्राह्मणेभ्यो महाराज भूरिदानमनंतकम् ॥२७॥
दीनेषु च विशेषेण ययातिः पृथिवीपतिः
यज्ञांते च महाराजस्तामुवाच वराननाम् ॥२८॥
अन्यत्ते सुप्रियं बाले किं करोमि वदस्व मे
तत्सर्वं देवि कर्तास्मि साध्यासाध्यं वरानने ॥२९॥
सुकर्मोवाच-
इत्युक्ता तेन सा राज्ञा भूपालं प्रत्युवाच ह
जातो मे दोहदो राजंस्तत्कुरुष्व ममानघ ॥३०॥
इंद्रलोकं ब्रह्मलोकं शिवलोकं तथैव च
विष्णुलोकं महाराज द्रष्टुमिच्छामि सुप्रियम् ॥३१॥
दर्शयस्व महाभाग यदहं सुप्रिया तव
एवमुक्तस्तयाराजातामुवाचससुप्रियाम् ॥३२॥
साधुसाधुवरारोहेपुण्यमेवप्रभाषसे
स्त्रीस्वभावाच्चचापल्यात्कौतुकाच्चवरानने ॥३३॥
यत्तवोक्तं महाभागे तदसाध्यं विभाति मे
तत्साध्यं पुण्यदानेन यज्ञेन तपसापि च ॥३४॥
अन्यथा न भवेत्साध्यं यत्त्वयोक्तं वरानने
असाध्यं तु भवत्या वै भाषितं पुण्यमिश्रितम् ॥३५॥
मर्त्यलोकाच्छरीरेण अनेनापि च मानवः
श्रुतो दृष्टो न मेद्यापि गतः स्वर्गं सुपुण्यकृत् ॥३६॥
ततोऽसाध्यं वरारोहे यत्त्वया भाषितं मम
अन्यदेव करिष्यामि प्रियं ते तद्वद प्रिये ॥३७॥
देव्युवाच-
अन्यैश्च मानुषै राजन्न साध्यं स्यान्न संशयः
त्वयि साध्यं महाराज सत्यंसत्यं वदाम्यहम् ॥३८॥
तपसा यशसा क्षात्रै र्दानैर्यज्ञैश्च भूपते
नास्ति भवादृशश्चान्यो मर्त्यलोके च मानवः ॥३९॥
क्षात्रं बलं सुतेजश्च त्वयि सर्वं प्रतिष्ठितम्
तस्मादेवं प्रकर्तव्यं मत्प्रियं नहुषात्मज ॥४०॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे एकोनाशीतितमोऽध्यायः ॥७९॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP