संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ८६

भूमिखंडः - अध्यायः ८६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कुंजलशुकस्य पुत्र उज्ज्वलेन सह संवादम्

कुंजल उवाच-
तस्यास्तु चेष्टितं वत्स दिव्या देव्या वदाम्यहम्
पूर्वजन्मकृतं सर्वं तन्मे निगदतः शृणु ॥१॥
अस्ति वाराणसी पुण्या नगरी पापनाशिनी
तस्यामास्ते महाप्राज्ञः सुवीरो नाम नामतः ॥२॥
वैश्यजात्यां समुत्पन्नो धनधान्यसमाकुलः
तस्य भार्या महाप्राज्ञ चित्रा नाम सुविश्रुता ॥३॥
कुलाचारं परित्यज्य अनाचारेण वर्तते
न मन्यते हि भर्तारं स्वैरवृत्त्या प्रवर्तते ॥४॥
धर्मपुण्यविहीना तु पापमेव समाचरेत्
भर्तारं कुत्सते नित्यं नित्यं च कलहप्रिया ॥५॥
नित्यं परगृहे वासो भ्रमते सा गृहे गृहे
परच्छिद्रं समापश्येत्सदा दुष्टा च प्राणिषु ॥६॥
साधुनिंदापरा दुष्टा सदा हास्यकरा च सा
अनाचारां महापापां ज्ञात्वा वीरेण निंदिता ॥७॥
स तां त्यक्त्वा महाप्राज्ञ उपयेमे महामतिः
अन्य वैश्यस्य वै कन्यां तया सह प्रवर्तते ॥८॥
धर्माचारेण पुण्यात्मा सत्यधर्ममतिः सदा
निरस्ता तेन सा चित्रा प्रचंडा भ्रमते महीम् ॥९॥
दुष्टानां संगतिं प्राप्ता नराणां पापिनां सदा
दूतीकर्म चकाराथ सा तेषां पापनिश्चया ॥१०॥
गृहभंगं चकाराथ साधूनां पापकारिणी
साध्वीं नारीं समाहूय पापवाक्यैः सुलोभयेत् ॥११॥
धर्मभंगं चकाराथ वाक्यैः प्रत्ययकारकैः
साधूनां सा स्त्रियं चित्रा अन्यस्मै प्रतिपादयेत् ॥१२॥
एवं गृहशतं भग्नं चित्रया पापनिश्चयात्
संग्रामं सा महादुष्टाऽकारयत्पतिपुत्रकैः ॥१३॥
मनांसि चालयेत्पापा पुरुषाणां स्त्रियः प्रति
अकारयच्च संग्रामं यमग्रामविवर्धनम् ॥१४॥
एवं गृहशतं भंक्त्वा पश्चात्सा निधनं गता
शासिता यमराजेन बहुदंडैः सुनंदन ॥१५॥
अभोजयत्सुनरकान्रौरवांस्तरणेः सुतः
पाचिता रौरवे चित्रा चित्राः पीडाः प्रदर्शिताः ॥१६॥
यादृशं क्रियते कर्म तादृशं परिभुज्यते
तया गृहशतं भग्नं चित्रया पापनिश्चयात् ॥१७॥
तत्तत्कर्मविपाकोऽयं तया भुक्तो द्विजोत्तम
यस्माद्गृहशतं भग्नं तस्माद्दुःखं प्रभुंजति ॥१८॥
विवाहसमये प्राप्ते दैवं च पाकतां गतम्
प्राप्ते विवाहसमये भर्ता मृत्युं प्रयाति च ॥१९॥
यथा गृहशतं भग्नं तथा वरशतं मृतम्
स्वयंवरे तदा वत्स विवाहे चैकविंशतिः ॥२०॥
दिव्या देव्या मया ख्यातं यथा मे पृच्छितं त्वया
एतत्ते सर्वमाख्यातं तस्याः पूर्वविचेष्टितम् ॥२१॥
उज्ज्वल उवाच-
दिव्या देव्यास्त्वया ख्यातं यत्पूर्वं पूर्वचेष्टितम्
तथा पापं कृतं घोरं गृहभंगाख्यमेव च ॥२२॥
प्लक्षद्वीपस्य भूपस्य दिवोदासस्य वै सुता
केन पुण्यप्रभावेण तया प्राप्तं महाकुलम् ॥२३॥
एतन्मे संशयं तात तदेतत्प्रब्रवीतु मे
एवं पापसमाचारा कथं जाता नृपात्मजा ॥२४॥
कुंजल उवाच-
चित्रायाश्चेष्टितं पुण्यं तत्सर्वं प्रवदाम्यहम्
श्रूयतामुज्ज्वल सुत चित्रया यत्कृतं पुरा ॥२५॥
भ्रममाणो महाप्राज्ञः कश्चित्सिद्धः समागतः
कुचैलो वस्त्रहीनश्च संन्यासी स च दंडधृक् ॥२६॥
कौपीनेन समायुक्तः पाणिपात्रो दिगंबरः
गृहद्वारं समाश्रित्य चित्रायाः परिसंश्रितः ॥२७॥
स मौनी सर्वमुंडस्तु विजितात्मा जितेंद्रियः
निराहारो जिताहारः सर्वतत्त्वार्थदर्शकः ॥२८॥
दूराध्वानपरिश्रांत आतपाकुलमानसः
श्रमेण खिद्यमानश्च तृषाक्रांतः सुपुत्रक ॥२९॥
चित्रा द्वारं समाश्रित्य च्छायामाश्रित्य संस्थितः
तया दृष्टो महात्मा स चित्रया श्रमपीडितः ॥३०॥
सेवां चक्रे च चित्रा सा तस्यैव सुमहात्मनः
पादप्रक्षालनं कृत्वा दत्वा आसनमुत्तमम् ॥३१॥
आस्यतामासने तात सुखेनापि सुकोमले
क्षुधापनोदनार्थं हि भुज्यतामन्नमुत्तमम् ॥३२॥
स्वेच्छया परितुष्टश्च शीतलं सलिलं पिब
एवमुक्त्वा तथा कृत्वा देववत्पूज्य तं सुत ॥३३॥
अंगसंवाहनं कृत्वा नाशितश्रम एव च
तयोक्तो हि महात्मा स भुक्त्वा पीत्वा द्विजोत्तम ॥३४॥
एवं संतोषितः सिद्धस्तया तत्त्वार्थदर्शकः
संतुष्टः सर्वधर्मात्मा किंचित्कालं स्थिरोभवत् ॥३५॥
स्वेच्छया स गतो विप्रो महायोगी यथागतम्
गते तस्मिन्महाभागे सिद्धे चैव महात्मनि ॥३६॥
सा चित्रा मरणं प्राप्ता स्वकर्मवशमागता
शासिता धर्मराजेन महादंडैः सुदुःखदैः ॥३७॥
सा चित्रा नरकं प्राप्ता वेदना व्रातदायकम्
भुंक्ते दुःखं महाराज सा वै युगसहस्रकम् ॥३८॥
भोगांते तु पुनर्जन्म संप्राप्तं मानुषस्य च
पूर्वं संपूजितः सिद्धस्तया पुण्यवतां वरः ॥३९॥
तस्य कर्मविपाकोयं प्राप्ता पुण्यवतां कुले
क्षत्रियाणां महाराज्ञो दिवोदासस्य वै गृहे ॥४०॥
दिव्यादेवी च तन्नाम जातं तस्या नरोत्तम
सा हि दत्तवती चान्नं पानं पुण्यं महात्मने ॥४१॥
तस्य दानस्य सा भुंक्ते महत्पुण्यफलोदयम्
पिबते शीतलं तोयं मिष्टान्नं च भुनक्ति वै ॥४२॥
दिव्यान्भोगान्प्रभुंजाना वर्तते पितृमंदिरे
सिद्धस्यास्य प्रभावाच्च राजकन्या व्यजायत ॥४३॥
पापकर्मप्रभावाच्च गृहभंगान्महीपते
विधवात्वं भुंजते सा दिव्यादेवी सुपुत्रक ॥४४॥
एतत्ते सर्वमाख्यातं दिव्यादेव्या विचेष्टितम्
अन्यत्किन्ते प्रवक्ष्यामि यत्त्वं पृच्छसि मामिह ॥४५॥
उज्ज्वल उवाच-
कथं सा मुच्यते शोकान्महादुःखाद्वदस्व मे
सास्याच्च कीदृशी बाला महादुःखेन पीडिता ॥४६॥
तत्सुखं कीदृशं तस्माद्विपाकश्च भविष्यति
एतन्मे संशयं तात सांप्रतं छेत्तुमर्हसि ॥४७॥
कथं सा लभते मोक्षं तंचोपायं वदस्व मे
एकाकिनी महाभागा महारण्ये प्ररोदिति ॥४८॥
विष्णुरुवाच-
पुत्रवाक्यं महच्छ्रुत्वा क्षणमेकं विचिंत्य सः
प्रत्युवाच महाप्राज्ञः कुंजलः पुत्रकं प्रति ॥४९॥
शृणु वत्स महाभाग सत्यमेतद्वदाम्यहम्
पापयोनिं तु संप्राप्य पूर्वकर्मसमुद्भवाम् ॥५०॥
तिर्यक्त्वेन च मे ज्ञानं नष्टं संप्रति पुत्रक
अस्य वृक्षस्य संगाच्च प्रयतस्य महात्मनः ॥५१॥
रेवायाश्च प्रसादेन विष्णोश्चैव प्रसादतः
येन सा लभते ज्ञानं मोक्षस्थानं निवर्तते ॥५२॥
उपदेशं प्रवक्ष्यामि मोक्षमार्गमनुत्तमम्
यास्यते कल्मषान्मुक्ता यथा हेम हुताशनात् ॥५३॥
शुद्धं च जायते वत्स संगाद्वह्नेः स्वरूपवत्
हरेर्ध्यानान्महाप्राज्ञ शीघ्रं तस्य महात्मनः ॥५४॥
जपहोमव्रतात्पापं नाशं याति हि पापिनाम्
मदं त्यजेद्यथा नागो भयात्सिंहस्य सर्वदा ॥५५॥
नामोच्चारेण कृष्णस्य तत्प्रयाति हि किल्बिषम्
तेजसा वैनतेयस्य विषहीना इवोरगाः ॥५६॥
ब्रह्महत्यादिकाः पापाः प्रलयं यांति नान्यथा
नामोच्चारेण तस्यापि चक्रपाणेः प्रयांति ते ॥५७॥
यदा नामशतं पुण्यमघराशिविनाशनम्
सा जपेत स्थिरा भूत्वा कामक्रोधविवर्जिता ॥५८॥
सर्वेंद्रियाणि संयम्य आत्मज्ञानेन गोपयेत्
तस्य ध्यानप्रविष्टा सा एकभूता समाहिता ॥५९॥
सा जपेत्परमं ज्ञानं तदा मोक्षं प्रयाति च
तन्मनास्तत्पदे लीना योगयुक्ता यदा भवेत् ॥६०॥
उज्ज्वल उवाच-
वद तात परं ज्ञानं परमं मम सांप्रतम्
पश्चाद्ध्यान व्रतं पुण्यं नाम्नां शतमिहैव च ॥६१॥
कुंजल उवाच-
परं ज्ञानं प्रवक्ष्यामि यन्न दृष्टं तु केनचित्
श्रूयतां पुत्र कैवल्यं केवलं मलवर्जितम् ॥६२॥
सूत उवाच-
यथा दीपो निवातस्थो निश्चलो वायुवर्जितः
प्रज्वलन्नाशयेत्सर्वमंधकारं महामते ॥६३॥
तद्वद्दोषविहीनात्मा भवत्येव निराश्रयः
निराशो निर्मलो वत्स न मित्रं न रिपुः कदा ॥६४॥
न शोको न च हर्षश्च न लोभो न च मत्सरः
एको विषादहर्षैश्च सुखदुःखैर्विमुच्यते ॥६५॥
विषयैश्चापि सर्वैश्च इंद्रियाणि स संहरेत्
तदा स केवलो जातः केवलत्वं प्रजायते ॥६६॥
अग्निकर्मप्रसंगेन दीपस्तैलं प्रशोषयेत्
वर्त्याधारेण राजेंद्र निःसंगो वायुवर्जितः ॥६७॥
कज्जलं वमते पश्चात्तैलस्यापि महामते
कृष्णासौ दृश्यते रेखा दीपस्याग्रे महामते ॥६८॥
स्वयमाकृष्यते तैलं तेजसा निर्मलो भवेत्
कायवर्तिस्थितस्तद्वत्कर्मतैलं प्रशोषयेत् ॥६९॥
विषयान्कज्जलीकृत्य प्रत्यक्षं संप्रदर्शयेत्
जनयेन्निर्मलोभूत्वा स्वयमेव प्रकाशयेत् ॥७०॥
क्रोधादिभिः क्लेशसंज्ञैर्वायुभिः परिवर्जितः
निःस्पृहो निश्चलो भूत्वा तेजसा स्वयमुज्ज्वलेत् ॥७१॥
त्रैलोक्यं पश्यते सर्वं स्वस्थानस्थः स्वतेजसा
केवलज्ञानरूपोऽयं मया ते परिकीर्तितः ॥७२॥
ध्यानं तस्य प्रवक्ष्यामि द्विविधं तस्य चक्रिणः
केवलज्ञानरूपेण दृश्यते ज्ञानचक्षुषा ॥७३॥
योगयुक्ता महात्मानः परमार्थपरायणाः
यं पश्यंति विनिद्रास्तु यत्तपः सर्वदर्शकम् ॥७४॥
हस्तपादविहीनं च सर्वत्र परिगच्छति
सर्वं गृह्णाति त्रैलोक्यं स्थावरं जंगमं सुत ॥७५॥
नासामुखविहीनस्तु घ्राति जक्षिति पुत्रक
अकर्णः शृणुते सर्वं सर्वसाक्षी जगत्पतिः ॥७६॥
अरूपो रूपसंबद्धः पंचवर्गवशंगतः
सर्वलोकस्य यः प्राणः पूजितः स चराचरैः ॥७७॥
अजिह्वो वदते सर्वं वेदशास्त्रानुगं सुत
अत्वचः स्पर्शनं चापि सर्वेषामेव जायते ॥७८॥
सदानंदो विरक्तात्मा एकरूपो निराश्रयः
निर्जरो निर्ममो न्यायी सगुणो निर्ममोमलः ॥७९॥
अवश्यः सर्ववश्यात्मा सर्वदः सर्ववित्तमः
तस्य धाता न चैवास्ति स वै सर्वमयो विभुः ॥८०॥
एवं सर्वमयं ध्यानं पश्यते यो महात्मनः
स याति परमं स्थानममूर्तममृतोपमम् ॥८१॥
द्वितीयं तु प्रवक्ष्यामि अस्य ध्यानं महात्मनः
मूर्ताकारं तु साकारं निराकारं निरामयम् ॥८२॥
ब्रह्माण्डं सर्वमतुलं वासितं यस्य वासना
स तस्माद्वासुदेवेति उच्यते मम नंदन ॥८३॥
वर्षमाणस्य मेघस्य यद्वर्णं तस्य तद्भवेत्
सूर्यतेजःप्रतीकाशं चतुर्बाहुं सुरेश्वरम् ॥८४॥
दक्षिणे शोभते शंखो हेमरत्नविभूषितः
सूर्यबिंबसमाकारं चक्रं पद्मप्रतिष्ठितम् ॥८५॥
कौमोदकी गदा तस्य महासुरविनाशिनी
वामे च शोभते वत्स हस्ते तस्य महात्मनः ॥८६॥
महापद्मं सुगंधाढ्यं तस्य दक्षिणहस्तगम्
शोभमानः सदैवास्ते सायुधः कमलाप्रियः ॥८७॥
कंबुग्रीवं वृत्तमास्यं पद्मपत्रनिभेक्षणम्
राजमानं हृषीकेशं दशनै रत्नसन्निभैः ॥८८॥
गुडाकेशाः सन्ति यस्य अधरो विद्रुमाकृतिः
शोभते पुंडरीकाक्षः किरीटेनापि पुत्रक ॥८९॥
विशालेनापि रूपेण केशवस्तु सुवर्चसा
कौस्तुभेनांकितेनैव राजमानो जनार्दनः ॥९०॥
सूर्यतेजः प्रतीकाश कुंडलाभ्यां प्रभाति च
श्रीवत्सांकेन पुण्येन सर्वदा राजते हरिः ॥९१॥
केयूरकंकणैर्हारैर्मौक्तिकैरृक्षसन्निभैः
वपुषा भ्राजमानस्तु विजयो जयतां वरः ॥९२॥
भ्राजते सोपि गोविंदो हेमवर्णेन वाससा
मुद्रिकारत्नयुक्ताभिरंगुलीभिर्विराजते ॥९३॥
सर्वायुधैः सुसंपूर्णैर्दिव्यैराभरणैर्हरिः
वैनतेयसमारूढो लोककर्ता जगत्पतिः ॥९४॥
एवंतं ध्यायते नित्यमनन्यमनसा नरः
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥९५॥
एतत्ते सर्वमाख्यातं ध्यानमेव जगत्पतेः
व्रतं चैव प्रवक्ष्यामि सर्वपापनिवारणम् ॥९६॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थवर्णने षडशीतितमोऽध्यायः ॥८६॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP