संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ५५

भूमिखंडः - अध्यायः ५५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


विष्णुरुवाच-
भावं विदित्वा सुरराट्च तस्याः प्रोवाच कामं पुरतः स्थितं सः
न चास्ति शक्या स्मर ते जयाय सत्यात्मकध्यान सुदंशिता सती ॥१॥
धर्माख्य चापं स्वकरे गृहीत्वा ज्ञानाभिधानं वरमेव बाणम्
योद्धुं रणे संप्रति संस्थिता सती वीरो यथा दर्पितवीर्यभावः ॥२॥
जिगीषयेयं पुरुषार्थमेव त्वमात्मनः कुरुषे पौरुषं तु
त्वामद्य जेतुं समरे समर्था यद्भाव्यमेवं तदिहैव चिंत्यम् ॥३॥
दग्धोसि पूर्वं त्वमिहैव शंभुना महात्मना तेन समं विरोधम्
कृत्वा फलं तस्य विकर्मणश्च जातोस्यनंगः स्मर सत्यमेव ॥४॥
यथा त्वया कर्म कृतं पुरा स्मर फलं तु प्राप्तं तु तथैव तीव्रम्
सुकुत्सितां योनिमवाप्स्यसि ध्रुवं साध्व्यानया सार्धमिहैव कथ्यसे ॥५॥
ये ज्ञानवंतः पुरुषा जगत्त्रये वैरं प्रकुर्वन्ति महात्मभिः समम्
भुंजन्ति ते दुष्कृतमेवतत्फलं दुःखान्वितं रूपविनाशनं च ॥६॥
व्याघुष्य आवां तु व्रजाव काम एनां परित्यज्य सतीं प्रयुज्य
सत्याः प्रसंगेन पुरा मया तु लब्धं फलं पापमयं त्वसह्यम् ॥७॥
त्वमेव जानासि चरित्रमेतच्छप्तोस्मि तेनापि च गौतमेन
जातश्च मेषवृषणः सदा ह्यहं भवान्गतो मां तु विहाय तत्र ॥८॥
तेजः प्रभावो ह्यतुलः सतीनां धाता समर्थः सहितुं न सूर्यः
सुकुत्सितं रूपमिदं तु रक्षेत्पुरानुसूया मुनिना हि शप्तम् ॥९॥
निरुध्य सूर्यं परिवेगवंतमुद्यंतमेवं प्रभया सुदीप्तम्
भर्तुश्च मृत्युं परिबाधमानं मांडव्यशापस्य च कौंडिनस्य ॥१०॥
अत्रेः प्रिया सत्यपतिव्रता तया स्वपुत्रतां देवत्रयं हि नीतम्
न किं पुरा मन्मथ ते श्रुतं सदा संस्कारयुक्ताः प्रभवंति सत्यः ॥११॥
सावित्रीनाम्नी द्युमत्सेनपुत्री नीतं प्रियं सा पुनरानिनाय
यमादिहैवाश्वपतेः सुपुत्रं सती त्वमेवं परिसंश्रुतं च ॥१२॥
अग्नेः शिखां कः परिसंस्पृशेद्वै तरेद्धिकः सागरमेव मूढः
गले तु बद्धासु शिलां भुजाभ्यां को वा सतीं वश्यति वीतरागाम् ॥१३॥
उक्ते तु वाक्ये बहुनीतियुक्ते इंद्रेण कामस्य सुशिक्षणार्थम्
आकर्ण्य वाक्यं मकरध्वजस्तु उवाच देवेंद्रमथैनमेव ॥१४॥
काम उवाच-
तवातिदेशादहमागतो वै धैर्यं सुहृत्त्वं पुरुषार्थमेव
त्यक्त्वा तदर्थं परिभाषसे मां निःसत्वरूपं बहुभीतियुक्तम् ॥१५॥
व्याबुद्धि यास्यामि यदा सुरेशस्याल्लोकमध्ये मम कीर्तिनाशः
ऊढिंकरोमानविहीन एव सर्वे वदिष्यंत्यनया जितं माम् ॥१६॥
ये वै जिता देवगणाश्च दानवाः पूर्वं मुनींद्रास्तपसः प्रयुक्ताः
हास्यं करिष्यंति ममापि सद्यो नार्या जितो मन्मथ एष भीमः ॥१७॥
तस्मात्प्रयास्यामि त्वयैव सार्धमस्या बलं मानमतः सुरेश
तेजश्च धैर्यं परिणाशयिष्ये कस्माद्भवानत्र बिभेति शक्र ॥१८॥
संबोध्य चैवं स सुराधिनाथं चापं गृहीतं सशरं सुपुष्पम्
उवाच क्रीडां पुरतः स्थितां तां विधाय मायां भवती प्रयातु ॥१९॥
वैश्यस्य भार्यां सुकलां सुपुण्यां सत्येस्थितां धर्मविदां गुणज्ञाम्
इतो हि गत्वा कुरु कार्यमुक्तं साहाय्यरूपं च प्रिये सखे शृणु ॥२०॥
क्रीडां समाभाष्य ततो मनोभवस्त्वंते स्थितां प्रीतिमथाह्वयत्पुनः
कार्यं भवत्या ममकार्यमुत्तममे तां सुस्नेहैः परिभावयत्वम् ॥२१॥
इंद्रं हि दृष्ट्वा सुकला यथा भवेत्स्नेहानुगा चारुविलोचनेयम्
तैस्तैः प्रभावैर्गुणवाक्ययुक्तैर्नयस्व वश्यं च प्रिये सखे शृणु ॥२२॥
भो भोः सखे साधय गच्छ शीघ्रं मायामयं नंदनरूपयुक्तम्
पुष्पोपयुक्तं च फलप्रधानं घुष्टं रुतैः कोकिलषट्पदानाम् ॥२३॥
आहूय वीरं मकरंदमेव रसायनं स्वादुगुणैरुपेतम्
सहानिलाद्यैर्निजकर्मयुक्तैः संप्रेषयित्वा पुनरेव कामम् ॥२४॥
एवं समादिश्य महत्ससैन्यं त्रैलोक्यसंमोहकरं तु कामः
चक्रे प्रयाणं सुरराजसार्धं संमोहनायैव महासतीं ताम् ॥२५॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे- पंचपंचाशत्तमोऽध्यायः ॥५५॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP