अध्यायः १ - ऋषीणां सूतंप्रति प्रह्लादचरित्रजिज्ञासया प्रश्नः, सूतेन सर्वानृषीन्प्रति ब्रह्मव्या- ससंवादवर्णनम्, ब्रह्मव्यासमंवादे शिवशर्मब्राह्मणाख्यानवर्णनम्, शिवशर्मणा पु त्रपरीक्षणवर्णनम्, तत्र मायया पत्नीमरणे एकपुत्रद्वारा तस्याः खण्डकरणम् द्विती- यपुत्रद्वारा मायाकल्पितान्यस्त्र्यानयनम् श्लो० ५८ ॥
अध्यायः २ - तृतीयपुत्रद्वारा मृतपुत्रसंजीवनम्, चतुर्थपुत्राय स्वर्गलोकादमृतानयनायाज्ञा- करणम् श्लो० २७ ॥
अध्यायः ३ - इंद्रलोकं प्रति गच्छतः शिवशर्मपुत्रस्य विष्णुशर्मणो मध्येमार्गर्मिद्रप्रेरणया मेनिकाकृतविघ्नज्ञानम, मेनिकानिराशीकरणम्, इंद्रकृतानेकविघ्नभस्मीकरणपूर्वक- मिंद्रं प्रति शापदानायोद्यमः, शापभयभीतेनेंद्रेण विष्णुशर्मणेऽमृतकुंभदानम् कुंभ- मादाय विष्णुशर्मणः पितरप्रत्यागमनम्, शिवशर्मणा मायागोपितपत्न्या उज्जीव- नमिषेण प्रकटीकरणम्, मातापितृसंतोषात्सुतानां तेषां चतुर्णामपि दाहवर्जित गोलोकप्राप्तिवर्णनम् श्लो० ७२ ॥
अध्यायः ४ - शिवशर्मद्विजेन कनिष्ठपुत्रस्य सोमशर्मणः सत्वपरीक्षणम् तत्र सोमशर्मणः स- मीपे कुंभं दत्वा तीर्थयात्रामिषेण बहिर्गप्वा दशवर्षपर्यतं पत्न्या सह तपश्चरित्वा मायया ऽऽत्मनः पत्न्याश्च शरीरं कुष्ठरोगग्रस्तं विधाय पुत्रसमीपं प्रत्यागमनम, सोमशर्मणा गृहागतमातापितृशरीरशुश्रूषणेन नानाविधक्लेशसहनम्, पित्राऽमृतकुण्डस्थामृतमपहृत्य पुत्रं प्रति पूर्वं स्वदत्तामृतकुंडयाचनम्, पुत्रेण रिक्तकुंभं दृष्ट्वा स्वतपोबलेन तस्मिन्नमृतमापूर्य पितुःसमीपं प्रत्यानयनम् श्लो० ६० ॥
अध्यायः ५ - शिवशर्मकृता पुत्रप्रशंसा, शिवशर्मणः सभार्यस्य विप्णुलोकावाप्तिः, सोमशर्म- णः शालिग्रामक्षेत्रे तपस्तपतो दैत्यभयेन मरणोत्तरं प्रह्लाददैत्यत्वप्राप्तिवर्णनम्, प्र- ह्रादस्य वासुदेवेन सह युद्धे मरणम्, प्रह्लादहनने कमलानाम तन्मातृरोदनम्, नारदेन कमलायाः सांत्वनम्, प्रह्लादस्येंद्रत्वप्राप्ति प्रभृति चरितस्य संक्षेपतो वर्णनम्, दे- वादिप्रार्थनया वासुदेवेन देवान्प्रति इंद्रो भविष्यतीति कथनम् कश्यपाददित्यामिं- द्रोत्पत्तिः, इंद्राभिषेकः. श्लो० १११ ॥
अध्यायः ६ - इंद्रस्य स्वाराज्यश्रियं दृष्ट्वा दनुदुःखम्, दित्याविलापकरणं च, कश्यपेन दिति सांत्वनम्. श्लो० ३३ ॥
अध्यायः ७ - कश्यपेन दित्यै पंचमहाभूतेंद्रियैः सहात्मनोमैत्र्या ज्ञानविवेकतिरस्कारपूर्वकं तैः सह गर्भागारं प्रति प्रवेशवर्णनम्. श्लो० ८३ ॥
अध्यायः ८ - देहदुःखानुभवोद्विग्नस्यात्मनो वैराग्येण सह समागमः, वैराग्यस्यात्मना सह सं- वादः, वीतरागोपदेशेनात्मनोविवेकप्रसंगः, विवेकद्वारा ज्ञानसमागमः, ज्ञानेना- त्मानं प्रति स्वस्य प्राक्तनस्वरूपवर्णनम्, ध्यानादिसमाश्रये ज्ञानेनात्मन उपदेश करणम् श्लो० १०५ ॥
अध्यायः ९ - ध्यानाश्रयेणात्मनो देहबंधविनिर्मुक्तिपुरःसरं स्वरूपावगतिवर्णनम्, कश्य- पेनेत्थमात्मोपदेशेन दित्याः सांत्वनम् श्लो० २० ॥
अध्यायः १० - हिरण्यकशिप्वादिदैत्यानां पितरं कश्यपं प्रत्यागत्य स्वकष्टविनिवेदनम्, कश्य पेन तान्प्रति देवानां जयकारणवर्णनम्, दैत्यान्प्रति कश्यपेन तपस्याकरणाया- ज्ञाकरणम्, बलिप्रभृतिदैत्यानां परस्परं मंत्रं कृत्वा तपःकरणम्. श्लो० ५० ॥
अध्यायः ११ - सुव्रतचरित्रवर्णनम् तत्र रेवातीरवर्ति वामनक्षेत्रवासि सोमशर्मब्राह्मणाय तस्य पत्न्या सुमना नाम्न्या सांसारिकदुःखप्रदर्शनोपदेशकरणपुरःसरं ऋणसंबंध्यादि- चतुर्विधपुत्राणां लक्षणवर्णने प्रथमं न्यासापहारकपुत्रलक्षणकथनम्. श्लो० ४६ ॥
अध्यायः १२ - ऋणसंबंधिपुत्रलक्षणवर्णनम्, रिपुपुत्रलक्षणम्, लाभप्रदपुत्रलक्षणम्, उदासी नपुत्रलक्षणम्, सुमनयेत्थंपुत्रलक्षणकथनोत्तरं पतिसांत्वनम्, पत्युः सोमशर्मणः पुत्रप्राप्तयेऽत्युत्कटेच्छां दृष्ट्वा सुमनया पत्ये पुत्रप्रशंसापूर्वकं धर्माख्यानकथने दुर्वा- सआख्यायिकावर्णनम्, दुर्वाससा धर्मस्य राजत्व दासीपुत्रत्व चाण्डालत्वरूप शापदा नम्, दुर्वाससः शापेन धर्मस्य त्रिविधावतारवर्णनम् श्लो० १२८ ॥
अध्यायः १३ - ब्रह्मचर्य तपः सत्य दान नियम क्षमा शौचाहिंसा शांत्यस्तेय दम शुश्रूषाणां लक्ष- णानि श्लो० ३५ ॥
अध्यायः १४ - सोमशर्मप्रश्रोत्तरं सुमनया स्ववृत्तांतनिरूपणम्, धर्ममृत्युलक्षणवर्णनम् श्लो० ४७ ॥
अध्यायः १५ - पापिमरणलक्षणवर्णनम् श्लो० २२ ॥
अध्यायः १६ - पापिनांमरणोत्तरं नानाविधक्लेशयोनिवर्णनम् श्लो० २१ ॥
अध्यायः १७ - सुमनोपदेशेन सोमशर्मणः पुत्रप्रात्युपायजिज्ञासया वसिष्ठं प्रति गमनम्, व- सिष्ठसोमशर्मसंवादे वसिष्ठेन सोमशर्मणः पूर्वजन्मवृत्तांतवर्णनम् श्लो० ५८ ॥
अध्यायः १८ - सोमशर्मणो ब्राह्मणत्वकारणवर्णनम्, वसिष्ठोपदेशात्सोमशर्मणा गृहं प्रत्यागत्य भार्यायै निजमनोरथकथनम्, भार्यया तत्प्रशंसनम् श्लो० ४२ ॥
अध्यायः १९ - सुमनया सह सोमशर्मणो रेवाकपिलासंगमतीर्थे तपःकरणम्, तपोविघ्नेभीतेन सोमशर्मणा नृहरिस्मरणम्,भगवतआविर्भावः,सोमशर्मकृतविष्णुस्तोत्रम् श्लो० ७५
अध्यायः २० - हरिणा सोमशर्मणे वंशतारकपुत्रवरप्रदानम्, अमरकंटके आश्रमं विधाय बहु- कालपर्यंतमुभयोर्निवासः, कदाचिन्मुनौ स्नानं विधायाश्रमाभिमुखे सति शक्रेण तदाश्रमांगणं समागत्य सुमनायाः समर्हणवर्णनम्, आश्रमागतमुनिं प्रति सुमनया सर्वदेवदेवीगणकृतस्वसमर्हणचरित्रवर्णनम्, अनंतरं कियताकालेन सुमनायां सोम- शर्मणः सकाशात्सुव्रतनामपुत्रोत्पत्तिः, उभयोरपि सोमशर्मसुमनयोः पुत्रपौत्रध- नसमृद्धिसौख्यवर्णनम् श्लो० ६० ॥
अध्यायः २१ - सुव्रताख्यानकथनम्, तत्र बाल्यादारभ्य सुव्रतस्य क्रीडादिष्वपि कृष्णावधानम्, सुव्रतस्य नर्मदादक्षिणतटवर्ति सिद्धेश्वरमहादेवसमाश्रयपुरःसरं तपःकरणम्. श्लो० ३७ ॥
अध्यायः २२ - सुव्रतस्य पूर्वजन्मचरित्रवर्णनम्, तत्रप्राग्जन्मनि तस्य सुव्रतस्य रुक्मागंद- राजस्य संध्यावलीभार्यायां धर्मांगदनाम्ना प्रसिद्धिः, द्वितीयजन्मनि सोमश- मैणः सुमनायां सुव्रतनाम्ना प्रसिद्धिः तस्य च तपस्तुष्टेन विष्णुना वरप्रदानम् सुव्रतेन विष्णुस्तोत्रकरणम्, सुव्रतस्येंद्रपदप्राप्तिः, व्यासेन धर्मांगदादिविषये समयसंशयाप- नुत्त्यर्थं प्रश्ने कृते ब्रह्मणा पुनः सृष्टिक्रमानुकथनेन तत्संशयनिराकरणम् श्लो० ४९ ॥
अध्यायः २३ - सृष्टिसंहारकारणवर्णनम्, तत्र हिरण्यकशिपोर्नृसिंहरूपेण वधः, वाराहरूपेण हिरण्याक्षवधः, पुत्रवधसंतप्ताया दित्याः पतिसमीपे खेददर्शनपुरःसरं सर्वलक्षणसं- पन्नपुत्रयाञ्चा, कश्यपवरेण दित्यागर्भधारणानंतरं बलनामकपुत्रप्रसवः, बलस्य स- र्वसामर्थ्यसंपन्नत्वं वीक्ष्य शक्रेण सागरोपकण्ठे संध्यासनोपगतस्य तस्य वज्रेण हननम, श्लो० ४५ ॥
अध्यायः २४ - इंद्रात्पुत्रवधं श्रुत्वा दुःखितया दित्या कश्यपाय पुत्रवधे निवेदिते कश्यपेन शक्रं प्र- ति क्रोधादग्निकुण्डे जटाप्रक्षेपाद्वृत्रासुरोत्पादनम्, वृत्रासुरमसह्यं मत्वा शक्रेण महर्षिद्वारा वृत्रासुरं प्रति संधिकरणपुरःसरमर्धासनसमर्पणोत्तरं रंभयासमुन्मादनम्
अध्यायः २५ - रंभासक्तस्य वृत्रस्य रंभाऽऽग्रहेण मधुपानम्, मधुपानप्रमत्तस्य वृत्रस्य शक्रेण व- ज्रेण हननम् श्लो० २६ ॥
अध्यायः २६ - शक्रेण वृत्रवधाद्दुःखितयादित्या कश्यपप्रार्थनया शक्रवधार्थं गर्भं धृत्वा मेरुपर्वते कश्यपेन सह तपस्याकरणार्थगमनम्, तत्रेंद्रेण वेषांतरं विधाय तत्तपश्छिद्रान्वेषणार्थं त- स्याः शुश्रूषाकरणम् पादाशौचरूपतत्तपश्छिद्रं समीक्ष्येंद्रेण तदुदरे प्रविश्य वज्रेण तद्गर्भस्येकोनपंचाशत्खंडकरणम्, तेषां मरुन्नामकरणकारणवर्णनम्. श्लो० ३२॥
अध्यायः २७ - पृथुना सर्ववर्गेषु राज्यासने राजवर्गस्थापनम् श्लो० ३१ ॥
अध्यायः २८ - पृथुचरित्रवर्णनम्, तत्र वेनस्यौद्धत्यवर्णनम्, ऋषिभिर्वेनस्य सव्योरुमंथनम् तस्मान्निषादोत्पत्तिः, वेनस्य दक्षिणपाणिमंथनात्पृथूत्पत्तिः,सर्वैर्मिलित्वा पृथो राज्याभिषेककरणम् पैतामहे यज्ञे सूतमागधयोः पृथुस्तवनायानुज्ञायां पृथुचरित्रसंबंधं विदित्वा तत्कृतं पृथुस्तवनम्, पृथुना विविधोपायैः पृथिवीदमने पृथिव्याः पृथुप्रार्थनम् श्लो० १२१ ॥
अध्यायः २९ - धरणीप्रार्थनया पृथुना पृथिव्याः समीकरणपुरराष्ट्रादिप्रतिष्ठापनपुरःसरं विविधवत्सदोग्धृदुग्धकल्पनयादोहनम् श्लो० ९१ ॥
अध्यायः ३० - वेनस्य पापांशनिर्गमनानन्तरं शुद्धिविषये संशयानानां महर्षीणा प्रश्नोत्तरम्, सूतेन वेनस्य चरित्रवर्णनम्, तत्र सत्संगमाहात्म्यवर्णने लुब्धकशफरघ्नोरितिहा- सवर्णनम् मातामहदोषेण वेनस्य पापबुद्धित्ववर्णनम्, तत्र सुनीथाया वेनमातुः सुशंखनामकगंधर्वतनयापचारेण पापाचारमयपुत्रप्राप्तिरूपशापप्राप्तिः, अत्रिपुत्र- स्यांगस्येंद्रसंपत्तिं दृष्ट्वा तत्सदृशपुत्रप्राप्तिविषयकाभिलाषवर्णनम् श्लो० ८५ ॥
अध्यायः ३१ - अंगस्यात्र्युपदेशेनेंद्रसदृशपुत्रावाप्तये तपस्याकरणाय मेरुपर्वतं प्रति गम- नम् श्लो० १९ ॥
अध्यायः ३२ - मेरुपर्वते गंगातीरेंऽगस्य तपःकरणात्प्रादुर्भूतवासुदेवस्यांगेन स्तोत्रकरणम्, तत्स्तुतिसंतुष्टेन भगवतांगाय शक्रसमपुत्रप्राप्तिरूपवरप्रदानम् श्लो० ७५ ॥
अध्यायः ३३ - सुनीथाचरित्रम् सुशंखगंधर्वताडनाल्लब्धकुपुत्रशापया सुनीथया पितृकृत- प्रतिबोधेन खिन्नया निर्जनवनं प्रति गमनम्, तत्र तत्सखीभिरागत्य चिंतापरित्याग- विषये तस्या उपदेशकरणम् श्लो० ३५ ॥
अध्यायः ३४ - सुनीथया सखीभ्यो निजदुष्कर्मनिरूपणानंतरं सखीभिर्ब्रह्मेंद्रहरादित्यकृष्ण- चंद्रयुधिष्ठिराणां दोषित्ववर्णनपुरःसरं सुनीथायाः प्रशंसाकरणपूर्वकं मोहनीविद्योपदेशकरणम्, सखीभिः सह भ्राम्यन्त्या सुनीथया नंदनवने तपस्यतोऽत्रिपुत्र स्यांगस्यदर्शनम् श्लो० ४७ ॥
अध्यायः ३५ - रंभामुखादंगवृत्तं श्रुत्वा तदाप्तये सुनीथाया निश्चयः श्लो० १५ ॥
अध्यायः ३६ - रंभासहायेन मेरुपर्वते सुनीथया गायनप्रभावादंगवशीकरणम्, अंगसुनीथ योर्गांधर्वेण विधिना विवाहः, सुनीथायामंगाद्वेनाख्यपुत्रोत्पत्तिः, सुनीथया तस्य भाविदुष्कर्म विचिंत्य मुहुर्मुहुस्तस्मै धर्मोपदेशकरणम् श्लो० ५७ ॥
अध्यायः ३७ - धर्मेण प्रजां पालयतो वेनस्य पापोदयसमये छद्मलिंगधारिणा पापपुरुषेण सह संवादे धर्मश्रद्धाविध्वंसः. श्लो० ६१ ॥
अध्यायः ३८ - पापपुरुषोपदेशेन नास्तिक्यबुद्धिप्रादुर्भावाद्वेनस्य वैदिकधर्मकर्मपरित्यागपुरः- सरमुन्मार्गवर्तने मातापित्रादिवंद्यजनतिरस्करणम, ऋषिभिर्धर्मोपदेशेन वेनबो- धकरणम्, ऋषीणां वेनेन निरादरकरणम् कुपितमहर्षिभयाद्वेनस्य वल्मीके निलय- नम् ऋषिभिर्वेनं बलादानीय तस्मान्निषादपृथूत्पादनवर्णनम् श्लो० ४१ ॥
अध्यायः ३९ - रेवातीरे तृणबिदोराश्रमे वेनस्य तपस्याकरणम् तत्तपस्यासंतुष्टवासुदेवेनावि- र्भूय वेनाय स्वरूपकथनम, दानमाहात्म्यवर्णनं च, दानोपयोगिकालदेशवर्णनम् श्लो० १२७ ॥
अध्यायः ४० - नित्यनैमित्तिकदानफलवर्णनम् श्लो० ४६ ॥ ।
अध्यायः ४१ - भार्यातीर्थवर्णनप्रस्तावे वाराणसीस्थ कृकलवैश्यपत्न्याः सुकलानाम्न्याः पाति- व्रत्यचरित्रवर्णनम्, तत्र पत्यौ तीर्थयात्रां प्रयाते सति सुकलया दृढतरपाति व्रत्यपालनम्, सखीभिः सुकलायाः शरीरशोषणान्निवर्तनविषये विज्ञप्तिकरणेऽपि सुकलया ताभ्यः पतिव्रताधर्मकथनपूर्वकेतिहासकथनम् श्लो० ८४ ॥
अध्यायः ४२ - पातिव्रत्यविषये सुदेवायाश्चरित्रवर्णनम्, तत्र सुदेवयापत्न्या सहेक्ष्वाकुभू- पस्य मृगयार्थमरण्यगमने तत्र वराहयूथपतेः सपरिवारजनेन नृपेण सह योद्धुं रणभूमिं प्रत्यागत्य युद्धकरणार्थं परस्परमंत्रकरणम्। श्लोकांकाः ७५ ॥
अध्यायः ४३ - इक्ष्वाकुभूपस्यसैनिकैः सह मेरुपर्वते गंगातीरे महायुद्धे लुब्धकसैनिकानां । वराहाणां च महायुद्धे लुब्धकानां बहूनां वराहाणां च नाशः। .श्लोकांकाः ८२ ॥
अध्यायः ४४ - इक्ष्वाकुणा वराहयूथपतिहननम्। श्लोकांकाः १११ ॥
अध्यायः ४५ - स्वपतिं हतं दृष्ट्वा तत्पत्न्या शूकर्या लुब्धकैः सह महायुद्धकरणे झार्झरेण तस्या अंगे शरवेधकरणम्, तया शूकर्या महावेगेन ज्ञार्झरवधकरणम्, झार्झ- रकृतखङ्गघातेन शूकर्या मह्यांपतनम्। श्लोकांकाः ३२ ॥
अध्यायः ४६ - भूमौ पतितायाः श्वसंत्याः शूकर्याः सुदेवया शीतलजलेन मुखसेचनम्, ऽ तत्सिक्तजलसंपर्कात्सूकर्या मानुषीवाण्या सुदेवाप्रशंसनम्, इक्ष्वाकुमतमादाय सुदेवया पृष्टे सति शूकर्या स्वभर्तुः शूकरस्यात्मनश्च पूर्वजन्मचरित्रवर्णनम्, तत्रादौ भर्तुश्चरित्रवर्णने तस्यपूर्वजन्मनि गंधर्वस्य गीतपंडितस्य पुलस्त्यमुनि- त्रासनादृषिशापेन शूकरजन्मप्राप्तिवर्णनम्। श्लोकांकाः ६६ ॥
अध्यायः ४७ - शूकर्या आत्मनः पूर्वजन्मचरित्रवर्णने कलिंगदेशीयश्रीपुरनगरवास्तव्यवसु- । दत्तब्राह्मणतनयायाः सुदेवानाम्न्यादुराचारदूषितायाः पतिवंचनादिवर्णनम्, । तत्पतिना शिवशर्मणा तस्याः परित्यागः, सुदेवामात्रा तत्पितरं वसुदत्तं प्रति अपत्य- । शिक्षणप्रकारवर्णनम्। श्लोकांकाः ६५ ॥
अध्यायः ४८ - वसुदत्तभार्यया भर्तारं प्रति निरर्गलकन्यादोषवर्णनप्रसंगेन वैदर्भदेशीयो-ग्रसेनराजतनयाया माथुरोग्रसेनराजभार्यायाः पद्मावतीनाम्न्याः पतिं विना पितृ- गृहमागताया उच्छृंखलतयोपवनभूमिषु विक्रीडनवर्णनम्। श्लोकांकाः २७ ॥
अध्यायः ४९ - कदाचिद्वनक्रीडाहृतचेतसस्तस्याः कस्यचित्सरसस्तीरे गोभिलेन दैत्येन दर्शनम्, तत्कामपरितप्तेन गोभिलेन मायया तत्पतिरूपं विधाय तस्या धर्षणवर्णनम्। श्लोकांकाः ५४ ॥
अध्यायः ५० - दैत्यं प्रति शप्तुकामां तां प्रति गोभिलेन दैत्येन पतिव्रतानां पुंश्चलीनां च कर्म- वर्णनपुरःसरं तस्याः पद्मावत्याः पुंश्चलीत्वनिर्णयकरणम्, उदरे गर्भस्थापनकथनं च। श्लोकांकाः ६३ ॥
अध्यायः ५१ - पित्रादिभिर्ज्ञातदोषायाः पद्मावत्याः पतिगृहं प्रति प्रेषणम्, तद्गर्भात्कंसोत्पत्तिः, एवं वसुदत्तेन पत्नीमुखात्कन्यादोषं श्रुत्वा सुदेवायाः कन्यायाः परित्यागः, सुदेवायाः पर्यटंत्या अदृष्टवशात्पतिगृहंप्रति गमनम्। श्लोकांकाः ५३ ॥
अध्यायः ५२ - तत्र पतिगृहे मंगलानाम्न्याः स्वसपत्न्याः पातिव्रत्यदर्शनेन व्रीडितायाः सुदेवा- या रात्रौ पश्चात्तापेन मरणम्, यमलोकेऽनेकदुःखप्राप्तिपूर्वकं शूकरीजन्मप्राप्ति वर्णनम्- शूकर्या सुदेवानाम्न्या इक्ष्वाकुराजभार्यायाः समीपे स्वोद्धारायैकदिन- पातिव्रत्यपुण्ययाचनायामिक्ष्वाकुप्रेरणया सुदेवया तस्या एकदिनपातिव्रत्यपु- ण्यदानाच्छूकरीयोनित उद्धरणम्, सुदेवानाम्न्या ब्राह्मणकन्यायाः स्वर्गारोहणम्। श्लोकांकाः ४६ ॥
अध्यायः ५३ - सुकलायाः पातिव्रत्यभंगार्थं समुद्युक्तस्येंद्रस्य श्रमवैफल्यम्, तत्र तन्मोह- नायेंद्रेण कंदर्पायाज्ञाकरणम्, इंद्रस्य पुरुषरूपं धृत्वा कंदर्परतिप्रभृतिमोहनवर्ग- मादाय सुकलासमीपं प्रत्यागत्य तन्मोहनाय विविधोपायविधानम्, इंद्रप्रेषितया दूत्या सुकलां प्रति पातिव्रत्यभंगार्थं चातुर्येणोपेदेशेकृतेऽपि तस्याः पुरुषांतरेऽप्रीति- दर्शकशरीरविकारवर्णनम्। श्लोकांकाः १०९ ॥
अध्यायः ५४ - इंद्रस्य स्वयं सह रतिकंदर्पाभ्यां सुकलासमीपं प्रतिगमने सुकलया तं दृष्ट्वा स्वगृहमध्ये प्रवेशकरणम्। श्लोकांकाः २५ ॥
अध्यायः ५५ - सुकलासाधने शक्रमदनयोः साध्यासाध्यत्वविषये विवादानंतरं मदनेन सुकलां प्रति क्रीडाद्तीप्रेषणम्, मदनस्य स्वयंशक्रेण सह गमनं च। श्लोकांकाः २५ ॥
अध्यायः ५६ - तन्मदनेंद्रचरित्रं दृष्ट्वा सत्यधर्मादीनां परस्परं संवादः, धर्मेण सत्यसंरक्ष- णार्थमुपायचिंतया भर्त्रागमनसूचकशकुनकरणाय प्रज्ञायाः प्रेषणम्, प्रज्ञया शकुनशब्दकरणोत्तरं शकुनार्थजिज्ञासया सुकलया ब्राह्मणसमीपं गत्वा ब्राह्मणमु- खात्तन्निर्णयनम्। श्लोकांकाः ३७ ॥
अध्यायः ५७ - क्रीडया मदनदूत्या सुकलां प्रत्यागत्य तां वाक्यैर्मोहयित्वा तया सहोपवनं प्रति गमनम्, मदनस्येंद्रदेहे प्रवेशः, श्लोकांकाः ३८ ॥
अध्यायः ५८ - इंद्रसुकलयोः संवादे सुकलयेंद्रस्य निराशीकरणम्, इंद्रादीनां स्वस्वस्थानं प्रति गमनम्। श्लोकांकाः ४३ ॥
अध्यायः ५९ - तीर्थयात्रां कृत्वा गृहं प्रति प्रयातुकामस्य कृकलस्य मध्येमार्गं धर्मेण पितृबं- धनदर्शनम्, धर्मकृकलसंवादे धर्मेण पतिव्रतामाहात्म्यकथनम्। श्लोकांकाः ३४॥
अध्यायः ६० - कृकलवैश्येन धर्मोपदेशाद्गृहमागत्य पत्नीहस्तेनान्नं विपाच्य श्राद्धकरणे तत्पि- तृमुक्तिवर्णनम्, सुकलाचरित्रमाहात्म्यम्। श्लोकांकाः ३२ ॥
अध्यायः ६१ - पितृतीर्थवर्णनम्, तत्र पितृभक्तस्य कुंडलब्राह्मणपुत्रस्य सुकर्मणः कथानकवर्णनम्, पिप्पलब्राह्मणस्य तपस्यया विश्ववश्यत्वप्राप्त्या महागर्वः, सारसवचनात्पिप्पलस्य सुकर्माणं प्रत्यागमनम् श्लोकांकाः ६० ॥
अध्यायः ६२ - सुकर्मपिप्पलसंवादः, सुकर्मणेंद्रादिदेवानयनम्, अर्वाचीनपराचीनगतिज्ञान- वर्णनम्, सुकर्मणा स्वकर्मवर्णनम्, पितृभक्तिमाहात्म्यवर्णनम् श्लोकांकाः ८२ ॥
अध्यायः ६३ - मातपितृतीर्थमाहात्म्यम्। श्लोकांकाः २९ ॥
अध्यायः ६४ - मातापितृतीर्थमाहात्म्यवर्णने नहुषस्य ययातेश्च चरित्रवर्णनम्, इंद्रेण स्व- पदभ्रंशशंकया ययातिनृपं प्रति स्वर्गमानेतुं मातलिदूतप्रेषणम्, मातलिययाति- संवादः, शरीरोत्पत्तिविनाशादिवर्णनम् श्लोकांकाः ९५ ॥
अध्यायः ६५ - शरीरदोषवर्णनम् श्लोकांकाः ९ ॥
अध्यायः ६६ - प्रथमतः शरीरोत्पत्तिपूर्वकशरीरवर्णनम्, गर्भावस्थायां जीवचेष्टितम्, शरीरस्याशुचित्वम, विविधसुखदुःखादिविवेकः। श्लोकांकाः २३५ ॥
अध्यायः ६७ - मर्त्यलोके मनुष्यकृतानां सुकृतदुष्कृतकर्मणां विपाकः। .श्लोकांकाः ११५ ॥
अध्यायः ६८ - सुकृतकर्मफलकथनम्। श्लोकांकाः १७ ॥
अध्यायः ६९ - विविधशिवधर्मकथनम्। श्लोकांकाः ३९ ॥
अध्यायः ७० - महादारुणयमलोकपीडावर्णनम्। श्लोकांकाः ११ ॥
अध्यायः ७१ - देवलोकसंस्थानवर्णनम्। श्लो० २७ ॥
अध्यायः ७२ - ययातिना स्वशरीरप्रशंसापूर्वकं स्वर्गागमनास्वीकरणम्, मातलेरिंद्रं प्रति गमनम्।
अध्यायः ७३ - मातलौ स्वर्ग गते सति ययातिना स्वराज्ये विष्णुसेवाज्ञोद्धोषणम्। श्लो० १७॥
अध्यायः ७४ - नृपाज्ञाश्रवणोत्तरं सर्वैः प्रजाजनैर्भागवतधर्मस्वीकरणम्। श्लो० २९ ॥
अध्यायः ७५ - वैष्णवधर्माचरणेन ययातेः सदा तारुण्यं तत्प्रजानां च मृत्युराहित्यवर्णनम्। श्लो० ३५ ॥
अध्यायः ७६ - अमृत्युभूतलं दृष्ट्वा यमधर्मस्य स्वर्गं प्रति गमनोत्तरमिंद्राय ययातिकर्मनिवे- दनपुरःसरं ययातेः स्वर्गानयनाय प्रार्थनम्, इंद्राज्ञया कामदेवस्य गंधर्वादभिः सह नाटककरणार्थं ययातिं प्रति गमनोत्तरं तस्य सभास्थले संगीतकारम्भणम्। श्लो० ३३ ॥
अध्यायः ७७ - नृत्यगीतपरवशतयाऽशौचलेशमात्रेण ययातेः शरीरे जराप्रवेशः, जरामजा- नतो ययातेर्मृगयार्थं कस्यचित्सरसस्तीरं प्रति गमनम्, तत्रातिमधुरगानश्रवणा- कृष्टमनसो ययातेर्विशालानामसखीमुखादश्रुबिंदुमत्या वृत्तांतश्रवणम्, आत्मनो भावं दर्शयितारं ययातिं प्रति विशालया जरागृहीतत्वकथनम्, जरापरित्यागं कृत्वाऽस्या मनोरथं पूरयिष्यामीति प्रतिज्ञाय ययातेः स्वपुरं प्रत्यागत्य पुत्रान्प्रत्याज्ञाकरणम्। श्लो० १०० ॥
अध्यायः ७८ - पितुराज्ञां श्रुत्वा त्रिभिः पुत्रैस्तदाज्ञाप्रत्याख्याने ययातिना तान्प्रति शापदा नम्, चतुर्थपुत्रात्पूरोः सकाशात्तारुण्यं गृहीत्वा जरां तस्मै दत्त्वा ययातेरश्रुबिंदुमतीं प्रति गमनम्। श्लो० ६४ ॥
अध्यायः ७९ - शर्मिष्ठादेवयानीसपत्नीभ्यां क्लेशो न भविष्यति सर्वथा त्वन्मनोरथान्पूरयि ष्यामीति प्रतिज्ञां कृत्वाऽश्रुबिंदुमत्या गांधर्वविवाहेन वरणम्, अश्रुबिंद्रुमत्या दोहदपूरणकामनया ययातिना पूरुद्वारा संभारानानीयाश्वमेधयज्ञकरणम्, अश्रु- बिंदुमत्या ययातिसमीपेस्वर्गप्रति जिगमिषया प्रार्थनाकरणम्। श्लो. ४० ॥
अध्यायः ८० - शर्मिष्ठादेवयान्योर्वर्तनवर्णनम्, सर्वलोकानां सर्वसुखावाप्तिवर्णनम्। श्लो० १९॥
अध्यायः ८१ - इंद्राज्ञया मेनिकाप्सरसोऽश्रुबिंदुमतीं प्रत्यागमनम, मेनिकाबोधितयाऽश्रुबिंदुमत्या ययातिं प्रति स्वर्गगमनायाग्रहकरणम्, ययातिराज्ञोऽन्तर्मनसि चिंताकरणम्। श्लो० ७४ ॥
अध्यायः ८२ - अश्रुबिंदुमत्याः स्वर्गगमनायात्याग्रहं दृष्ट्वा ययातिना पूरुपुत्राय नीत्युपदेशं कृत्वा राज्यं समर्प्य तस्मै तारुण्यं दत्त्वा जराग्रहणम्। श्लो० २८ ॥
अध्यायः ८३ - राज्ञो ययातेः सर्वप्रजाश्वासनपुरःसरं बहुभिः प्रजाजनैः सह तयाश्रुबिंदुमत्या च सहैंद्रादिलोकान् गत्वा पश्चाद्वैष्णवलोकं प्रति गमनम्, सहनीतप्रजाजनैः सह ययातेर्विष्ण्वाज्ञया विष्णुलोकावस्थानम्. श्लो० ८३ ॥
अध्यायः ८४ - एवं पितृसेवां कृत्वा पूरोराज्यप्राप्तिरूपफलावाप्तिः, सुकर्मणा निवेदितं पितृ- तीर्थमाहात्म्यं श्रुत्वा पिप्पलस्य विलज्ज्यगमनम् श्लो० २१ ॥
अध्यायः ८५ - गुरुतीर्थमाहात्म्यवर्णने च्यवनचरित्रम् च्यवनस्य द्विजस्य तीर्थयात्राप्रसंगेन पर्यट्य नर्मदादक्षिणकूल ओंकारेश्वरं समागत्य वटच्छायायां स्थितिः, तत्र कुंजल- नामशुकस्य चतुर्भिः पुत्रैः सह संवादः, तत्र ज्येष्ठपुत्रमुज्ज्वलं प्रति पित्रा वार्ताश्रवणा य प्रश्ने कृते सति तेन प्लक्षद्वीपस्थ दिवोदासराजपुत्र्या दिव्यादेव्या विवाहसमये एकविं- शत्यधिकशतभर्तृमरणदोषनिरूपणम्। श्लो० ७६ ॥
अध्यायः ८६ - कुंजलेन तस्या दिव्यादेव्याः पूर्वजन्माचरितदुष्कर्मकथनम्, राजपुत्रीत्वप्रापक- सिद्धसेवनसुकर्मवर्णनं च, दिव्यादेवीवरजीवनाय तद्दुरितभंगाय च भगवद्ध्यानव- र्णनम्। श्लो० ९६ ॥
अध्यायः ८७ - अशून्यशयनव्रतकथनम्, कृष्णशतनामाख्यस्तोत्रवर्णनम्। श्लो० ३९ ॥
अध्यायः ८८ - पित्राज्ञयोज्ज्वलपुत्रेण प्लक्षद्वीपं गत्वा दिव्यादेवीं प्रति पित्रुद्दिष्टव्रतस्तोत्रादिकथनम्, तदुक्तरीत्या दिव्यादेव्या व्रताचरणेन स्तोत्रजपेन च पापनिरसनपुरःसरं भगवत्प्रसादाद्दिव्यलोकावाप्तिवर्णनम्। श्लो० ५४ ॥
अध्यायः ८९ - द्वितीयपुत्रं समुज्ज्वलाख्यं प्रति वार्ताश्रवणाय कुंजलेन प्रश्ने कृते सति समु- ज्ज्वलेन नर्मदातीरे व्याधोद्धारपूर्वककृष्णहंसकथावर्णनम्। श्लो० ५१ ॥
अध्यायः ९० - कुंजलेन कृष्णहंसकथानकावसरे तीर्थचरित्रवर्णनम्, तत्रेंद्रेण सर्वतीर्थानि स- माहूय प्रयागादीनां चतुर्णां महातीर्थानां प्रशंसाकरणम्। श्लो० ५४ ॥
अध्यायः ९१ - ब्रह्महत्याऽगम्यागमनदोषदूषितस्य शक्रस्य मालवदेशे सुरैः स्नापनं कृत्वा वारा- णस्यादितीर्थेषु स्नापनेन शुद्ध्यनंतरं शक्रेण मालवदेशाय चतुर्भ्यस्तीर्थेभ्यश्च वरप्र- दानम्, विद्रुरक्षत्रियचंद्रशर्मब्राह्मणवेदशर्मब्राह्मणवंजुलवैश्यानां चतुर्णां महापाप- कृतामेकत्र संधीभूय कालंजरगिरिं प्रति गमनम्। श्लो० ४० ॥
अध्यायः ९२ - तत्र कस्यचित्सिद्धस्योपदेशेनैतेषां चतुर्णां वाराणस्यादितीर्थेषु स्नानान्मुक्तिः,ते- षां च पातकस्पर्शेन पुष्करार्घतीर्थप्रयागवाराणसीतीर्थानां पापलेपेन कृष्णत्वप्राप्तिः, हंसरूपेण चात्मनः पावनेच्छया प्रतितीर्थं भ्रमणम्, तत्संपर्केण च सर्वेषामपि कृष्ण- वर्णत्वम्, तैः सह हंसरूपेण भ्रमणं च, सर्वेषां रेवाकुब्जासंगमे स्नानमात्रेण पातकान्मु- क्तिः, ब्रह्महत्यागुरुहत्यासुरापानागम्यागमनानां हंसरूपाणां तत्र संगमे स्नानेन भस्मता, रेवाकुब्जासंगममाहात्म्यवर्णनम्। श्लो० ३७ ॥
अध्यायः ९३ - तृतीयपुत्रेण विज्वलेन निजवृत्तनिवेदनावसरे मेरुपृष्ठवर्त्यानंदकानने कस्य- चित्सिद्धस्य च सपत्नीकस्य विमानेनागत्य सरस्तीरवर्तिनिजनिजशवमांसभक्षणच- मत्कारवर्णनम्, तद्भक्षणकाले च कयोश्चित्स्त्रियोस्तत्संमुखं स्थित्वा हास्यकरण- वर्णनम्। श्लो० ३ ॥
अध्यायः ९४ - कुंजलेन तदुत्तरकथनम् तत्रादौ कर्ममाहाम्यकथनम्, अनंतरं चौलदेशीयसु- बाहुराजवृत्तांतवर्णनम्, सुबाहुना जैमिनिसमीपे धर्मश्रवणार्थं प्रश्ने कृते सति जैमिनिना दानधर्मकथनम् श्लो० ६१ ॥
अध्यायः ९५ - जैमिनिना स्वर्गगुणवर्णनपुरःसरं दानस्यातिश्रैष्ठ्यवर्णनम्। श्लो० ३२ ॥
अध्यायः ९६ - नरकगामिनां स्वर्गगामिनां च वर्णनम्। श्लो० ५२ ॥
अध्यायः ९७ - भार्यया सह सुबाहुनृपस्य दानमकृत्वा तपस्तप्त्वा तत्तपःप्रभावेण विष्णु- लोकं प्रति गमनेऽपि विष्णोरदर्शनम्, उभयोरपि क्षुधाव्याकुलत्वम्, वामदेवम- हर्षिसमागमोत्तरं वामदेवेन दानमाहात्म्यकथनोत्तरं स्वंस्वं कायं नित्यपुष्टं भुक्त्वा कालमतिक्रमेयामिति कथनम्, विविधदानफलवर्णनं च, तद्वचनमाकर्ण्य सुबाहोः सहभार्यस्य स्वस्वशवभक्षणम्, तत्र प्रज्ञाश्रद्धयोः स्त्रियोर्हास्यकथनम्। श्लो० ११४ ॥
अध्यायः ९८ - कुंजलाद्वासुदेवस्तोत्रं गृहीत्वा विज्वलेन तत्र गत्वा सभार्यं सुबाहुं प्रति तस्य वासुदेवस्तोत्रस्यश्रावणम्। श्लो० ७४ ॥
अध्यायः ९९ - वासुदेवस्तोत्रश्रवणात्सभार्यस्यसुबाहोः क्षुत्तृण्निवृत्तिपूर्वकं विष्णुदर्शनपुरःसरं विष्णुलोकावाप्तिः, श्रीवासुदेवस्तोत्रस्य सविधानफलवर्णनम्। श्लो० ४५ ॥
अध्यायः १०० - विज्वलेन पितरं प्रत्यागत्य स्तोत्रमाहात्म्यकथनम्ः वेनेन राज्ञा विष्णुप्रशंस- नम। श्लो० १४ ॥
अध्यायः १०१ - कुंजलस्य चतुर्थपुत्रेण निजवृत्तनिवेदने कैलासपर्वतपरिसरे गंगातीरस्थित- स्त्रीनेत्राश्रुपतितबिंद्रुसमुत्पद्यमानकमलानि समादाय केनचिन्मुनिवेषधारिणा पुरुषेण शिवार्चनकरणवर्णनम। श्लो० ५७ ॥
अध्यायः १०२ - कुंजलेन कमलवृत्तवर्णनारंभे पार्वतीदोहदपूरणेच्छया महादेवस्य पार्वत्या सह नंदनवने कल्पवृक्षतले स्थितिः, पार्वतीं प्रति महादेवेन कल्पवृक्षगुणवर्ण- नोत्तरं पार्वत्या चिंतनमात्रे कृते सत्यकस्मात्स्त्रीरत्नोत्पत्तिः, पार्वत्या तस्याः स्त्रिया अशोकसुंदरीनामकरणम्, नहुषपत्नीत्व वरदानं च. श्लो० ७४ ॥
अध्यायः १०३ - हुंडदैत्येन कामुकतयाऽशोकसुंदरीं प्रति पतिव्रतावेषच्छलेन वंचयित्वा स्वगृहं प्रत्यानयनम, अशोकसुंदर्या तद्विनाशाय गंगातीरे तपःकरणम् आयुराजेन पु- त्रप्राप्तये भार्यया सह अत्रिपुत्रस्य दत्तात्रेयस्य सेवाकरणम्, तत्सेवासंतुष्टाद्दत्ता- त्रेयात्पुत्रप्राप्तिरूपवरलाभः। श्लो० १३९ ॥
अध्यायः १०४ - आयुराजादिंदुमत्यागर्भप्राप्तिः, गर्भिण्येंदुमत्या सुस्वप्नप्रदशर्नम्, शौनकेन तस्य स्वप्नस्य शुभफलवर्णनम्। श्लो० २४ ॥ ।
अध्यायः १०५ - इंदुमत्याः प्रसवसमये तत्पुत्रं नहुषं प्रति हुंडदैत्येनापहृत्य स्वगृहं प्रत्यान- यनम्, तस्य सूदेन सेँरंध्र्या च कृपालुतया तं न हत्वा रात्रावेव वसिष्ठाश्रमे प- र्णकुटीद्वाराग्रे निक्षेपणम्, वसिष्ठेन प्रभाते तं स्वीकृत्य नहुषेति नामकरणम् , नहुषेण वसिष्ठाद्धनुर्विद्याग्रह्णम् श्लो० ६४
अध्यायः १०६ - पुत्रापहरणेन आयुराजेंदुमत्योः शोकवर्णनम् श्लो० १९ ॥
अध्यायः १०७ - नारदेनागत्य नहुषवृत्तांतं कथयित्वा आयुराजेंदुमत्योः सांत्वनम् श्लो० १६॥
अध्यायः १०८ - वसिष्ठादेशेन नहुषस्य हुंडदैत्यहननोद्यमः. श्लो० ३५ ॥
अध्यायः १०९ - नहुषवधाश्वासितमनसा हुंडेनाशोकसुदरीं प्रति गत्वा नहुषमरणवृत्तांतनिरू- । पणादशोकसुंदर्याः शोकवर्णनम् विद्वरकिंनरेण तस्याः सांत्वनम्। श्लो० ६३ ॥
अध्यायः ११० - नहुषस्य वसिष्ठादिमहर्षिदत्ताशीर्ग्रहणपुरःसरं शक्रप्रहितरथमारुह्य सर्वदेवद- त्तायुधानि गृहीत्वा हुंडदैत्यनिवासं प्रत्यागमनम् श्लो० २५
अध्यायः १११ - तत्रतत्र नहुषस्यागमेन मंगलगायनाद्युत्सवः। श्लो० १५ ॥
अध्यायः ११२ - गंधर्वैर्नहुषमुद्दिश्यकृतं गायनं श्रुत्वाऽशोकसुंदर्यास्तपसश्चलनम् श्लो० ८ ॥
अध्यायः ११३ - रंभासखीं गृहीत्वाऽशोकसुंदर्या नहुषदर्शनाय गमनम् नहुषस्य हुंडवधप्रति- ज्ञां श्रुत्वाऽशोकसुंदर्या हर्षः। श्लो० ४८ ॥,
अध्यायः ११४ - नहुषेण सह योद्धुं हुंडदैत्यस्य सैनिकैः सहागमनम्। श्लो० ३० ॥
अध्यायः ११५ - नहुषेण हुंडसैनिकान्हत्वा हुंडवधः। श्लो० ४५ ॥
अध्यायः ११६ - अशोकसुदरीं गृहीत्वा नहुषस्य वसिष्ठाश्रमं प्रत्यागमनम्, वसिष्ठेन तयोर्वि- वाहकरणोत्तरं पितृमदिरं प्रत्यागमनम् , मातापित्रोरत्यानंदवर्णनम्-श्लो० ३३॥
अध्यायः ११७ - इंद्रादिभिर्देवैर्नागपुरे नहुषस्य राज्याभिषेककरणम् अंगेंदुमत्योर्हरिलोक प्राप्तिः, श्लो० ३३ ॥
अध्यायः ११८ - अश्रुबिंदुकमलाख्यानवर्णने हुंडपुत्रस्य विहुंडस्य कथानकवर्णनम्, तत्र वि- हुंडेन पितृवधामर्षेण सुरमानवादिजगज्जिघांसयोपद्रवकरणम्, उपद्रुतदेवशरणव- त्सलेन विष्णुना मोहिनीरूपं धृत्वा तं प्रति विमोहनम्, सप्तकोटिकामोदपुष्पा- ण्यानीय शिवपूजनं कुरु ततोऽहं ते भार्या भविष्यामीति विहुंडस्य समीपे प्र- तिज्ञाकरणम्, विहुंडस्य शुक्रात्कामोदकुसुमसंभवमभिज्ञाय तदानयनायोद्यम- वर्णनम् श्लो० ४० ॥
अध्यायः ११९ - कामोदायाः समुद्रमंथनादुत्पत्तिवृत्तांतवर्णनम्, विष्णुप्रेषितनारदेन अहमेव कामोदपुष्पाणि तव हस्ते यथा पतिष्यति तथा यतिष्य इत्युक्त्वा विहुंडस्य कामोदां प्रति गमनप्रतिषेधनम् श्लो० ४३ ॥
अध्यायः १२० - नारदस्य कामोदपुरं प्रति गत्वा कामोदया सह संभाषणावसरे स्वप्नावस्था- वर्णनम्। श्लो० ५० ॥
अध्यायः १२१ - विष्णोर्भृगोः शापतो देशावतारधारणक्लेशकथावर्णनेन नारदेन तस्याः शो कोत्पादनम्, शोकनिर्विण्णायाः कामोदाया दुःखाश्रुबिदुभ्यो निर्गंधपुष्पोत्प- त्तिः, तैः पुष्पैर्विहुंडकृतशिवार्चना, ब्राह्मणवेषधारिण्या देव्या हुंकारमात्रेण वि- हुंडस्य वधः।. श्लो० ५२ ॥
अध्यायः १२२ - कुंजलपक्षिणा सह च्यवनब्राह्मणस्य संवादे कुजलेनात्मवृत्तान्तवर्णनम्, तत्र काश्यपवंशप्रसूतविद्याधरब्राह्मणतृतीयपुत्रस्य धर्मशर्मणो मूर्खस्य यदृच्छया केनचित्सिद्धेन सह समागमवर्णनम् श्लो० २९ ॥
अध्यायः १२३ - सिद्धाज्ज्ञानप्राप्तिः, शुकयोनिप्राप्तिकारणवर्णनम्, गुरुतीर्थमाहात्म्यवर्णनम्, वेनं प्रति विष्णुनेत्थमुक्त्वेप्सितवरप्रदानपूर्वकमंतर्धानवर्णनम्. श्लो० ६२ ॥
अध्यायः १२४ - वेनकृतपृथुप्रशंसा, पृथुना प्रजाशासनम् श्लो० २६ ॥
अध्यायः १२५ - वेनस्याश्वमेधादियज्ञकरणपूर्वकं विष्णुलोकं प्रतिगमनम्, पद्मपुराणपठनपा- । ठनश्रवणविधिपूर्वकफलकथनम् श्लो० ५१ ॥
इति पाद्मे पुराणान्तर्गतभूमिखंडस्थविषयानुक्रमणिका संपूर्णा ॥२॥