संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ९५

भूमिखंडः - अध्यायः ९५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सुबाहुरुवाच-
स्वर्गस्य मे गुणान्ब्रूहि सांप्रतं द्विजसत्तम
एतत्सर्वं द्विजश्रेष्ठ करिष्यामि स्वभाविकम् ॥१॥
जैमिनिरुवाच-
नंदनादीनि रम्याणि दिव्यानि विविधानि च
तत्रोद्यानानि पुण्यानि सर्वकामयुतानि च ॥२॥
सर्वकामफलैर्वृक्षैः शोभनानि समंततः
विमानानि सुदिव्यानि सेवितान्यप्सरोगणैः ॥३॥
सर्वत्रैव विचित्राणि कामगानि वशानि च
तरुणादित्यवर्णानि मुक्ताजालांतराणि च ॥४॥
चंद्रमंडलशुभ्राणि हेमशय्यासनानि च
सर्वकामसमृद्धाश्च सर्वदुःखविवर्जिताः ॥५॥
नराः सुकृतिनस्तेषु विचरंति यथा भुवि
न तत्र नास्तिका यांति न स्तेना नाजितेंद्रियाः ॥६॥
न नृशंसा न पिशुना न कृतघ्ना न मानिनः
सत्यास्तपःस्थिताः शूरा दयावंतः क्षमापराः ॥७॥
यज्वानो दानशीलाश्च तत्र गच्छंति ते नराः
न रोगो न जरामृत्युर्न शोको न हिमातपौ ॥८॥
न तत्र क्षुत्पिपासा च कस्य ग्लानिर्न विद्यते
एते चान्ये च बहवो गुणाः स्वर्गस्य भूपते ॥९॥
दोषास्तत्रैव ये संति ताञ्छृणुष्व च सांप्रतम्
शुभस्य कर्मणः कृत्स्नं फलं तत्रैव भुज्यते ॥१०॥
न चात्र क्रियते भूयः सोऽत्र दोषो महान्स्मृतः
असंतोषश्च भवति दृष्ट्वा दीप्तां परां श्रियम् ॥११॥
सुखव्याप्तमनस्कानां सहसा पतनं तथा
इह यत्क्रियते कर्म फलं तत्रैव भुज्यते ॥१२॥
कर्मभूमिरियं राजन्फलभूमिरसौ स्मृता
सुबाहुरुवाच-
महांतस्तु इमे दोषास्त्वया स्वर्गस्य कीर्तिताः ॥१३॥
निर्दोषाः शाश्वता येन्ये तांस्त्वं लोकान्वद द्विज
जैमिनिरुवाच-
आब्रह्मसदनादेव दोषाः संति च वै नृप ॥१४॥
अतएव हि नेच्छंति स्वर्गप्राप्तिं मनीषिणः
आब्रह्मसदनादूर्ध्वं तद्विष्णोः परमं पदम् ॥१५॥
शुभं सनातनं ज्योतिः परंब्रह्मेति तद्विदुः
न तत्र मूढा गच्छंति पुरुषा विषयात्मकाः ॥१६॥
दंभमोहभयद्रोह क्रोधलोभैरभिद्रुताः
निर्ममा निरहंकारा निर्द्वंद्वास्संयतेंद्रियाः ॥१७॥
ध्यानयोगरताश्चैव तत्र गच्छंति साधवः
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥१८॥
एवं स्वर्गगुणं श्रुत्वा सुबाहुः पृथिवीपतिः
तमुवाच महात्मानं जैमिनिं वदतांवरम् ॥१९॥
सुबाहुरुवाच-
नाहं स्वर्गं गमिष्यामि न चैवेच्छाम्यहं मुने
यस्माच्च पतनं प्रोक्तं तत्कर्म न करोम्यहम् ॥२०॥
दानमेकं महाभाग नाहं दास्येकदाध्रुवम्
दानाच्च फललोभाच्च तस्मात्पतति वै नरः ॥२१॥
इत्येवमुक्त्वा धर्मात्मा सुबाहुः पृथिवीपतिः
ध्यानयोगेन देवेशं यजिष्ये कमलाप्रियम् ॥२२॥
दाहप्रलयसंवर्जं विष्णुलोकं व्रजाम्यहम्
जैमिनिरुवाच-
सत्यमुक्तं त्वया भूप सर्वश्रेयः समाकुलम् ॥२३॥
राजानो धर्मशीलाश्च महायज्ञैर्यजंति ते
सर्वदानानि दीयंते यज्ञेषु नृपनंदन ॥२४॥
आदावन्नं तु यज्ञेषु वस्त्रं तांबूलमेव च
कांचनं भूमिदानं च गोदानं प्रददंति च ॥२५॥
सुयज्ञैर्वैष्णवं लोकं ते प्रयांति नरोत्तमाः
दानेन तृप्तिमायांति संतुष्टाः संति भूमिपाः ॥२६॥
तपस्विनो महात्मानो नित्यमेवं यजंति ते
सुभिक्षां याचयित्वा तु स्वस्थानं तु समागताः ॥२७॥
भिक्षार्थं तस्य भागानि प्रकुर्वंति च भूपते
ब्राह्मणाय विभागैकं गोग्रासं तु महामते ॥२८॥
सुपार्श्ववर्तिनां चैकं प्रयच्छंति तपोधनाः
तस्यान्नस्य प्रदानेन फलं भुंजंति मानवाः ॥२९॥
क्षुधातृषाविहीनास्ते विष्णुलोकं व्रजंति वै
तस्मात्त्वमपि राजेंद्र देहि न्यायार्जितं धनम् ॥३०॥
दानाज्ज्ञानं ततः प्राप्य ज्ञानात्सिद्धिं प्रयास्यति
य इदं शृणुयान्मर्त्यः पुण्याख्यानमनुत्तमम् ॥३१॥
तस्य सर्वार्थसिद्धिः स्यात्पापं सर्वं विलीयते
विमुक्तः सर्वपापेभ्यो विष्णुलोकं सगच्छति ॥३२॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे पंचनवतितमोऽध्यायः ॥९५॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP