संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः १६ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः १६ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १६ Translation - भाषांतर सुमनोवाच-अंगारसंचये मार्गे घृष्यमाणो हि नीयतेदह्यमानः स दुष्टात्मा चेष्टमानः पुनः पुनः ॥१॥यत्रातपो महातीव्रो द्वादशादित्यतापितःनीयते तेन मार्गेण संतप्तः सूर्यरश्मिभिः ॥२॥पर्वतेष्वेव दुर्गेषु छायाहीनेषु दुर्मतिःनीयते तेन मार्गेण क्षुधातृष्णाप्रपीडितः ॥३॥स दूतैर्हन्यमानस्तु गदाखड्गैः परश्वधैःकशाभिस्ताड्यमानस्तु निंद्यमानस्तु दूतकैः ॥४॥ततः शीतमये मार्गे वायुना सेव्यते पुनःतेन शीतेन दुःखी स भूत्वा याति न संशयः ॥५॥आकृष्यमाणो दूतैस्तु नानादुर्गेषु नीयतेएवं पापी स दुष्टात्मा देवब्राह्मणनिंदकः ॥६॥सर्वपापसमाचारो नीयते यमकिंकरैःयमं पश्यति दुष्टात्मा कृष्णांजनचयोपमम् ॥७॥तमुग्रं दारुणं भीमं भीमदूतैः समावृतम्सर्वव्याधिसमाकीर्णं चित्रगुप्तसमन्वितम् ॥८॥आरूढं महिषं देवं धर्मराजं द्विजोत्तमदंष्ट्राकरालमत्युग्रं तस्यास्यं कालसंनिभम् ॥९॥पीतवासं गदाहस्तं रक्तगंधानुलेपनम्रक्तमाल्यकृताभूषं गदाहस्तं भयंकरम् ॥१०॥एवंविधं महाकायं यमं पश्यति दुर्मतिःतं दृष्ट्वा समनुप्राप्तं सर्वधर्मबहिष्कृतम् ॥११॥यमः पश्यति तं दुष्टं पापिष्ठं धर्मकंटकम्शासयेत्तु महादुःखैः पीडाभिर्दारुमुद्गलैः ॥१२॥यावद्युगसहस्रांतं तावत्कालं प्रपच्यतेनानाविधे च नरके पच्यते च पुनः पुनः ॥१३॥नारकीं याति वै योनिं कृमिकोटिषु पापकृत्अमेध्ये पच्यते नित्यं हाहाभूतो विचेतनः ॥१४॥मरणं च स पापात्मा एवं याति सुनिश्चितम्एवं पापस्य संयोगं भुंक्ते चैव सु दुर्मतिः ॥१५॥पुनर्जन्म प्रवक्ष्यामि यासु योनिषु याति चशुनां योनिशतं प्राप्य भुंक्ते वै पातकं पुनः ॥१६॥व्याघ्रो भवति दुष्टात्मा रासभीं याति वै पुनःमार्जार शूकरीं योनिं सर्पयोनिं तथैव च ॥१७॥नानाभेदासु सर्वासु तिर्यक्षु च पुनः पुनःपापपक्षिषु संयाति अन्यासु महतीषु च ॥१८॥चांडाल भिल्लयोनिं च पुलिंदीं याति पापकृत्एतत्ते सर्वमाख्यातं पापिनां जन्म चैव हि ॥१९॥मरणे शृणु कांत त्वं चेष्टां तेषां सुदारुणाम्पापपुण्यसमाचारस्तवाग्रे कथितो मया ॥२०॥अन्यदेवं प्रवक्ष्यामि यदि पृच्छसि मानद ॥२१॥इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायामैंद्रे सुमनोपाख्याने पापपुण्यविवक्षानाम षोडशोऽध्यायः ॥१६॥ N/A References : N/A Last Updated : October 26, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP