भूमिखंडः - अध्यायः १२१
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
कामोदोवाच-
न विदुर्देवताः सर्वा यस्यांतं रूपमेव च
यस्मिल्लीँनस्तु सर्वोयं स चैकात्मा प्रकथ्यते ॥१॥
यस्या मायाप्रपंचस्तु संसारः शृणु नारद
कस्मात्प्रयाति संसारं मम स्वामी जगत्पतिः ॥२॥
पापैश्चापि सुपुण्यैश्च नरोबद्धस्तु कर्मभिः
संसारं सरते विप्र हरिः कस्माद्व्रजेद्वद ॥३॥
नारद उवाच-
शृणु देवि प्रवक्ष्यामि यत्कृतं तेन चक्रिणा
भृगोरग्रे प्रतिज्ञातं यज्ञरक्षां करोम्यहम् ॥४॥
इंद्रस्य वचनात्सद्यो गतोऽसौ दानवैः सह
योद्धुं विहाय गोविंदो भृगोश्चैव मखोत्तमम् ॥५॥
मखं त्यक्त्वा गते देवे पश्चात्तैर्दानवोत्तमैः
आगत्य ध्वंसितः सर्वः स यज्ञः पापचेतनैः ॥६॥
हरिं क्रुद्धः स योगींद्रः शशाप भृगुरेव तम्
दशजन्मानि भुंक्ष्व त्वं मच्छापकलुषीकृतः ॥७॥
कर्मणः स्वस्य संभोगं संभोक्ष्यति जनार्दनः
तन्निमित्तं त्वया देवि दुःस्वप्नः परिवीक्षितः ॥८॥
इत्युक्त्वा तां गतो विप्रो ब्रह्मलोकं स नारदः
कृष्णस्यापि सुदुःखेन दुःखिता साभवत्तदा ॥९॥
रुरोद करुणं बाला हाहेति वदती मुहुः
गङ्गातीरोपविष्टा सा जलांते शृणु नन्दन ॥१०॥
सुनेत्राभ्यां तथाश्रूणि दुःखेनापि प्रमुंचति
तान्यश्रूणि प्रमुक्तानि गंगातोये पतंत्यपि ॥११॥
जले चैव निमज्जंति तस्याश्चाप्यश्रुबिंदवः
संभवंति पुनस्तात पद्मरूपाणि तानि च ॥१२॥
गंगातोये प्रफुल्लानि वाहितानि प्रयांति वै
ददृशे दानवश्रेष्ठो विष्णुमायाप्रमोहितः ॥१३॥
दुःखजानि न जानाति मुनिना कथितान्यपि
हर्षेण महताविष्टः परिजग्राह सोऽसुरः ॥१४॥
पद्मैस्तु पुष्पितैः सोपि पूजयेद्गिरिजाप्रियम्
सप्तकोटिभिर्दैत्येंद्रो विष्णुमायाप्रमोहितः ॥१५॥
अथ क्रुद्धा जगद्धात्री शंकरं वाक्यमब्रवीत्
पश्यैतस्य विकर्म त्वं दानवस्य महामते ॥१६॥
शोकोत्पन्नानि पद्मानि गंगातोयगतानि वै
अयमेष प्रगृह्णाति कामाकुलितचेतनः ॥१७॥
पूजयेच्चापि दुष्टात्मा शोकसंतापकारकैः
दुःखजैः शोकजैः पुष्पैस्तैः सुश्रेयः कथं भवेत् ॥१८॥
यादृशेनापि भावेन मामेव परिपूजयेत्
तादृशेनापि भावेन अस्य सिद्धिर्भविष्यति ॥१९॥
सत्यध्यानविहीनोयं कामोदा न्यस्तमानसः
संजातः पापचारित्रो जहि देवि स्वतेजसा ॥२०॥
एवमाकर्ण्य तद्वाक्यं शंभोश्चैव महात्मनः
अस्यैव संक्षयं शंभो करिष्ये तव शासनात् ॥२१॥
एवमुक्त्वा ततो देवी तस्यापि वधकांक्षया
वर्त्तते हि विहुंडस्य वधोपायं व्यचिंतयत् ॥२२॥
कृत्वा मायामयं रूपं ब्राह्मणस्य महात्मनः
पूजयेच्छंकरं नाथं सुपुष्पैः पारिजातजैः ॥२३॥
समेत्य दानवः पापो दिव्यां पूजां विनाशयेत्
कामाकुलः सुदुःखार्तस्तद्गतो भावतत्परः ॥२४॥
विष्णोश्चैव महामायां पूर्वदृष्टां स दानवः
सस्मार दानवः पापः कामबाणैः प्रपीडितः ॥२५॥
तस्याः स्मरणमात्रेण कंदर्पेण बलीयसा
विरहाकुलदुःखार्तो रोदते हि मुहुर्मुहुः ॥२६॥
कालाकृष्टः स दुष्टात्मा शोकजातानि तानि सः
परिगृह्य समायातः पूजनार्थी महेश्वरम् ॥२७॥
देव्या कृतां हि पूजां च सुपुष्पैः पारिजातजैः
तां निर्णाश्य सुलोभेन शोकजैः परिपूजयेत् ॥२८॥
नेत्राभ्यां तस्य दुष्टस्य बिंदवस्तेऽश्रुसंभवाः
अविरलास्ततो वत्स पतंति लिंगमस्तके ॥२९॥
देवी ब्राह्मणरूपेण तमुवाच महामते
को भवान्पूजयेद्देवं शोकाकुलमनाः सदा ॥३०॥
पतंत्यश्रूणि देवस्य मस्तके शोकजानि ते
अपवित्राणि मे ब्रूहि एतमर्थं ममाग्रतः ॥३१॥
विहुंड उवाच-
पूर्वं दृष्टा मया नारी सर्वसौभाग्यसंपदा
सर्वलक्षणसंपन्ना कामस्यायतनं महत् ॥३२॥
तस्या मोहेन संदग्धः कामेनाकुलतां गतः
तया प्रोक्तं हि संभोगे देहि मे दायमुत्तमम् ॥३३॥
कामोदसंभवैः पुष्पैः पूजयस्व महेश्वरम्
तेषां पुष्पकृतां मालां मम कंठे परिक्षिप ॥३४॥
कोटिभिः सप्तसंख्यातैः पूजयस्व महेश्वरम्
तदर्थं पूजयाम्येव ईश्वरं फलदायकम् ॥३५॥
कामोदसंभवैः पुष्पैर्दुर्लभैर्देवदानवैः
श्रीदेव्युवाच-
क्व ते भावः क्व ते ध्यानं क्व ते ज्ञानं दुरात्मनः ॥३६॥
ईश्वरस्यापि संबंधो नास्ति किंचित्त्वयैव हि
कामोदाया वरं रूपं कीदृशं वद सांप्रतम् ॥३७॥
क्व लब्धानि सुपुष्पाणि तस्या हास्योद्भवानि च
विहुंड उवाच-
भावं ध्यानं न जानामि न दृष्टा सा मया कदा ॥३८॥
गंगातोयगतान्येव परिगृह्णामि नित्यशः
तैरहं पूजयाम्येकं शंकरं प्रवदाम्यहम् ॥३९॥
ममाग्रे कथितं विप्र शुक्रेणापि महात्मना
वचनात्तस्य देवेशमर्चयामि दिनदिने ॥४०॥
एतत्ते सर्वमाख्यातं यच्च पृष्टोस्मि सांप्रतम्
श्रीदेव्युवाच-
कामोदारोदनाज्जातैः पुष्पैस्तैर्दुःखसंभवैः ॥४१॥
लिंगमर्चयसे दुष्ट प्रभाते नित्यमेव च
यादृशेनापि भावेन पुष्पैश्च यादृशैस्त्वया ॥४२॥
अर्चितो देवदेवेशस्तादृशं फलमाप्नुहि
दिव्यपूजां विनाश्यैवं शोकपुष्पैः प्रपूजसि ॥४३॥
असौ दोषस्तवैवाद्य समुत्पन्नः सुदारुणः
तस्माद्दण्डं प्रदास्यामि भुंक्ष्व स्वकर्मजं फलम् ॥४४॥
तस्या वाक्यं समाकर्ण्य कालकृष्टो बभाष ताम्
रे रे दुष्ट दुराचार मम कर्मप्रदूषक ॥४५॥
हन्मि त्वामिह खड्गेन अनेनापि न संशयः
इत्युक्त्वा ब्राह्मणं तं स निशितं खड्गमाददे ॥४६॥
हंतुकामः स दुष्टात्मा अभ्यधावत दानवः
सा देवी विप्ररूपेण संक्रुद्धा परमेश्वरी ॥४७॥
हन्मि त्वामिह खड्गेन अनेनापि न संशयः
स्वस्थानमागतं दृष्ट्वा हुंकारं विससर्ज ह
तेन हुंकारनादेन पतितो दानवाधमः ॥४८॥
निश्चेष्टः कामरूपेण वज्राहत इवाचलः
पतिते दानवे तस्मिन्सर्वलोकविनाशके ॥४९॥
लोकाः स्वास्थ्यं गताः सर्वे दुःखतापविवर्जिताः
एतस्मात्कारणाद्वत्स सा स्त्री वै परिदेवति ॥५०॥
गंगातीरे वरारोहा दुःखव्याकुलमानसा
एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ॥५१॥
विष्णुरुवाच-
एवमुक्त्वा सुपुत्रं तं कुंजलो अंडजेश्वरः
विरराम महाप्राज्ञः किञ्चिन्नोवाच भूपते ॥५२॥
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्याने एकविंशत्यधिकशततमोऽध्यायः ॥१२१॥
N/A
References : N/A
Last Updated : October 29, 2020
TOP