संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ११०

भूमिखंडः - अध्यायः ११०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कुंजल उवाच-
आमंत्र्य स मुनीन्सर्वान्वशिष्ठं तपतांवरम्
समुत्सुको गंतुकामो नहुषो दानवं प्रति ॥१॥
ततस्ते मुनयः सर्वे वशिष्ठाद्यास्तपोधनाः
आशीर्भिरभिनंद्यैनमायुपुत्रं महाबलम् ॥२॥
आकाशे देवताः सर्वा जघ्नुर्वै दुंदुभीन्मुदा
पुष्पवृष्टिं प्रचक्रुस्ते नहुषस्य च मूर्धनि ॥३॥
अथ देवः सहस्राक्षः सुरैः सार्द्धं समागतः
ददौ शस्त्राणि चास्त्राणि सूर्यतेजोपमानि च ॥४॥
देवेभ्यो नृपशार्दूलो जगृहे द्विजसत्तम
तानि दिव्यानि चास्त्राणि दिव्यरूपोपमोऽभवत् ॥५॥
अथ ता देवताः सर्वाः सहस्राक्षमथाब्रुवन्
स्यंदनो दीयतामस्मै नहुषाय सुरेश्वर ॥६॥
देवानां मतमाज्ञाय वज्रपाणिः स्वसारथिम्
आहूय मातलि तं तु आदिदेश ततो द्विज ॥७॥
एनं गच्छ महात्मानमुह्यतां स्यंदनेन वै
सध्वजेन महाप्राज्ञमायुजं समरोद्यतम् ॥८॥
स चोवाच सहस्राक्षं करिष्ये तवशासनम्
एवमुक्त्वा जगामाशु ह्यायुपुत्रं रणोद्यतम् ॥९॥
राजानं प्रत्युवाचैव देवराजस्य भाषितम्
विजयी भव धर्मज्ञ रथेनानेन संगरे ॥१०॥
इत्युवाच सहस्राक्षस्त्वामेव नृपतीश्वर
जहि त्वं दानवं संख्ये तं हुंडं पापचेतनम् ॥११॥
समाकर्ण्य स राजेंद्र सानंदपुलकोद्गमः
प्रसादाद्देवदेवस्य वशिष्ठस्य महात्मनः ॥१२॥
दानवं सूदयिष्यामि समरे पापचेतनम्
देवानां च विशेषेण मम मायापचारितम् ॥१३॥
एवमुक्ते महावाक्ये नहुषेण महात्मना
अथायातः स्वयं देवः शंखचक्रगदाधरः ॥१४॥
चक्राच्चक्रं समुत्पाट्य सूर्यबिंबोपमं महत्
ज्वलता तेजसा दीप्तं सुवृत्तारं शुभावहम् ॥१५॥
नहुषाय ददौ देवो हर्षेण महता किल
तस्मै शूलं ददौ शंभुः सुतीक्ष्णं तेजसान्वितम् ॥१६॥
तेन शूलवरेणासौ शोभते समरोद्यतः
द्वितीयः शंकरश्चासौ त्रिपुरघ्नो यथा प्रभुः ॥१७॥
ब्रह्मास्त्रं दत्तवान्ब्रह्मा वरुणः पाशमुत्तमम्
चंद्र तेजःप्रतीकाशं शंखं च नादमंगलम् ॥१८॥
वज्रमिंद्रस्तथा शक्तिं वायुश्चापं समार्गणम्
आग्नेयास्त्रं तथा वह्निर्ददौ तस्मै महात्मने ॥१९॥
शस्त्राण्यस्त्राणि दिव्यानि बहूनि विविधानि च
ददुर्देवा महात्मानस्तस्मै राज्ञे महौजसे ॥२०॥
कुंजल उवाच-
अथ आयुसुतो वीरो दैवतैः परिमानितः
आशीर्भिर्नंदितश्चापि मुनिभिस्तत्त्ववेदिभिः ॥२१॥
आरुरोह रथं दिव्यं भास्वरं रत्नमालिनम्
घंटारवैः प्रणदंतं क्षुद्रघंटासमाकुलम् ॥२२॥
रथेन तेन दिव्येन शुशुभे नृपनदंनः
दिविमार्गे यथा सूर्यस्तेजसा स्वेन वै किल ॥२३॥
प्रतपंस्तेजसा तद्वद्दैत्यानां मस्तकेषु सः
जगाम शीघ्रं वेगेन यथा वायुः सदागतिः ॥२४॥
यत्रासौ दानवः पापस्तिष्ठते स्वबलैर्युतः
तेन मातलिना सार्द्धं वाहकेन महात्मना ॥२५॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने दशाधिकशततमोऽध्यायः ॥११०॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP