भूमिखंडः - अध्यायः ६१
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
वेन उवाच-
भार्यातीर्थं समाख्यातं सर्वतीर्थोत्तमोत्तमम्
पितृतीर्थं समाख्याहि पुत्राणां तारणं परम् ॥१॥
विष्णुरुवाच-
कुरुक्षेत्रे महाक्षेत्रे कुंडलो नाम ब्राह्मणः
सुकर्मा नाम सत्पुत्रः कुंडलस्य महात्मनः ॥२॥
गुरू तस्य महावृद्धौ धर्मज्ञौ शास्त्रकोविदौ
द्वावेतौ तु महात्मानौ जरया परिपीडितौ ॥३॥
तयोः शुश्रूषणं चक्रे भक्त्या च परया ततः
धर्मज्ञो भावसंयुक्तो अहर्निशमनारतम् ॥४॥
तस्माद्वेदानधीते स पितुः शास्त्राण्यनेकशः
सर्वाचारपरो दक्षो धर्मज्ञो ज्ञानवत्सलः ॥५॥
अंगसंवाहनं चक्रे गुर्वोश्च स्वयमेव सः
पादप्रक्षालनं चैव स्नानभोजनकीं क्रियाम् ॥६॥
भक्त्या चैव स्वभावेन तद्ध्याने तन्मयो भवेत्
मातापित्रोश्च राजेंद्र उपचर्यां प्रकारयेत् ॥७॥
सूत उवाच-
तद्वर्तमानकाले तु बभूव नृपसत्तम
पिप्पलो नाम वै विप्रः कश्यपस्य महात्मनः ॥८॥
तपस्तेपे निराहारो जितात्मा जितमत्सरः
दयादानदमोपेतः कामं क्रोधं विजित्य सः ॥९॥
दशारण्यगतो धीमाञ्ज्ञानशांतिपरायणः
सर्वेंद्रियाणि संयम्य तपस्तेपे महामनाः ॥१०॥
तपःप्रभावतस्तस्य जंतवो गतविग्रहाः
वसंति सुयुगे तत्र एकोदरगता इव ॥११॥
तत्तपस्तस्य मुनयो दृष्ट्वा विस्मयमाययुः
नेदृशं केनचित्तप्तं यथासौ तप्यते मुनिः ॥१२॥
देवाश्च इंद्रप्रमुखाः परं विस्मयमाययुः
अहो अस्य तपस्तीव्रं शमश्चेंद्रियसंयमः ॥१३॥
निर्विकारो निरुद्वेगः कामक्रोधविवर्जितः
शीतवातातपसहो धराधर इवस्थितः ॥१४॥
विषये विमुखो धीरो मनसोतीतसंग्रहम्
न शृणोति यथा शब्दं कस्यचिद्द्विजसत्तमः ॥१५॥
संस्थानं तादृशं गत्वा स्थित्वा एकाग्रमानसः
ब्रह्मध्यानमयो भूत्वा सानंदमुखपंकजः ॥१६॥
अश्मकाष्ठमयो भूत्वा निश्चेष्टो गिरिवत्स्थितः
स्थाणुवद्दृश्यते चासौ सुस्थिरो धर्मवत्सलः ॥१७॥
तपःक्लिष्टशरीरोति श्रद्धावाननसूयकः
एवं वर्षसहस्रैकं संजातं तस्य धीमतः ॥१८॥
पिपीलिकाभिर्बह्वीभिः कृतं मृद्भारसंचयम्
तस्योपरि महाकायं वल्मीकं निजमंदिरम् ॥१९॥
वल्मीकोदरमध्यस्थो जडीभूत इवस्थितः
स एवं पिप्पलो विप्रस्तपते सुमहत्तपः ॥२०॥
कृष्णसर्पैस्तु सर्वत्र वेष्टितो द्विजसत्तमः
तमुग्रतेजसं विप्रं प्रदशंति विषोल्बणाः ॥२१॥
संप्राप्य गात्रमर्माणि विषं तस्य न भेदयेत्
तेजसा तस्य विप्रस्य नागाः शांतिमथागमन् ॥२२॥
तस्य कायात्समुद्भूता अर्चिषो दीप्ततेजसः
नानारूपाः सुबहुशो दृश्यंते च पृथक्पृथक् ॥२३॥
यथा वह्नेः खरतरास्तथाविधा नरोत्तम
यथामेघोदरे सूर्यः प्रविष्टो भाति रश्मिभिः ॥२४॥
वल्मीकस्थस्तथाविप्रः पिप्पलो भाति तेजसा
सर्पा दशंति विप्रं तं सक्रोधा दशनैरपि ॥२५॥
न भिंदंति च दंष्ट्राग्राच्चर्म भित्त्वा नृपोत्तम
एवं वर्षसहस्रैकं तप आचरतस्ततः ॥२६॥
गतं तु राजराजेंद्र मुनेस्तस्य महात्मनः
त्रिकालं साध्यमानस्य शीतवर्षातपान्वितः ॥२७॥
गतः कालो महाराज पिप्पलस्य महात्मनः
तद्वच्च वायुभक्षं तु कृतं तेन महात्मना ॥२८॥
त्रीणि वर्षसहस्राणि गतानि तस्य तप्यतः
तस्य मूर्ध्नि ततो देवैः पुष्पवृष्टिः कृता पुरा ॥२९॥
ब्रह्मज्ञोसि महाभाग धर्मज्ञोसि न संशयः
सर्वज्ञानमयोऽसि त्वं संजातः स्वेनकर्मणा ॥३०॥
यं यं त्वं वांछसे कामं तं तं प्राप्स्यसि नान्यथा
सर्वकामप्रसिद्धस्त्वं स्वत एव भविष्यसि ॥३१॥
समाकर्ण्य महद्वाक्यं पिप्पलोपि महामनाः
प्रणम्य देवताः सर्वा भक्त्या नमितकंधरः ॥३२॥
हर्षेण महताविष्टो वचनं प्रत्युवाच सः
इदं विश्वं जगत्सर्वं ममवश्यं यथा भवेत् ॥३३॥
तथा कुरुध्वं देवेंद्रा विद्याधरो भवाम्यहम्
एवमुक्त्वा स मेधावी विरराम नृपोत्तम ॥३४॥
एवमस्त्विति ते प्रोचुर्द्विजश्रेष्ठं सुरास्तदा
दत्वा वरं महाभाग जग्मुस्तस्मै महात्मने ॥३५॥
गतेषु तेषु देवेषु पिप्पलो द्विजसत्तमः
ब्रह्मण्यं साधयेन्नित्यं विश्ववश्यं प्रचिंतयेत् ॥३६॥
तदाप्रभृति राजेंद्र पिप्पलो द्विजसत्तमः
विद्याधरपदं लब्ध्वा कामगामी महीयते ॥३७॥
एवं स पिप्पलो विप्रो विद्याधरपदं गतः
संजातो देवलोकेशः सर्वशास्त्रविशारदः ॥३८॥
एकदा तु महातेजाः पिप्पलः पर्यचिंतयत्
विश्ववश्यं भवेत्सर्वं मम दत्तो वरोत्तमः ॥३९॥
तदर्थं प्रत्ययं कर्तुमुद्यतो द्विजपुंगवः
यं यं चिंतयते कर्तुं तं तं हि वशमानयेत् ॥४०॥
एवं स प्रत्यये जाते मनसा पर्यकल्पयत्
द्वितीयो नास्ति वै लोके मत्समः पुरुषोत्तमः ॥४१॥
सूत उवाच-
एवं हि कल्पमानस्य पिप्पलस्य महात्मनः
ज्ञात्वा मानसिकं भावं सारसस्तमुवाच ह ॥४२॥
सरस्तीरगतो राजन्सुस्वरं व्यंजनान्वितम्
स्वनं सौष्ठवसंयुक्तमुक्तवान्पिप्पलं प्रति ॥४३॥
कस्मादुद्वहसे गर्वमेवं त्वं परमात्मकम्
सर्ववश्यात्मिकीं सिद्धिं नाहं मन्ये तवैव हि ॥४४॥
वश्यावश्यमिदं कर्म अर्वाचीनं प्रशस्यते
पराचीनं न जानासि पिप्पल त्वं हि मूढधीः ॥४५॥
वर्षाणां तु सहस्राणि यावत्त्रीणि त्वया तपः
समाचीर्णं ततो गर्वं कुरुषे किं मुधा द्विज ॥४६॥
कुंडलस्य सुतो धीरः सुकर्मानाम यः सुधीः
वश्यावश्यं जगत्सर्वं तस्यासीच्छृणु सांप्रतम् ॥४७॥
अर्वाचीनं पराचीनं स वै जानाति बुद्धिमान्
लोके नास्ति महाज्ञानी तत्समः शृणु पिप्पल ॥४८॥
न कुंडलस्य पुत्रेण सदृशस्त्वं सुकर्मणा
न दत्तं तेन वै दानं न ज्ञानं परिचिंतितम् ॥४९॥
हुतयज्ञादिकं कर्म न कृतं तेन वै कदा
न गतस्तीर्थयात्रायां न च वह्नेरुपासनम् ॥५०॥
स कदा कृतवान्विप्र धर्मसेवार्थमुत्तमम्
स्वच्छंदचारी ज्ञानात्मा पितृमातृसुहृत्सदा ॥५१॥
वेदाध्ययनसंपन्नः सर्वशास्त्रार्थकोविदः
यादृशं तस्य वै ज्ञानं बालस्यापि सुकर्मणः ॥५२॥
तादृशं नास्ति ते ज्ञानं वृथा त्वं गर्वमुद्वहेः
पिप्पल उवाच-
को भवान्पक्षिरूपेण मामेवं परिकुत्सयेत् ॥५३॥
कस्मान्निंदसि मे ज्ञानं पराचीनं तु कीदृशम्
तन्मे विस्तरतो ब्रूहि त्वयि ज्ञानं कथं भवेत् ॥५४॥
अर्वाचीनगतिं सर्वां पराचीनस्य सांप्रतम्
वद त्वमंडजश्रेष्ठ ज्ञानपूर्वं सुविस्तरम् ॥५५॥
किं वा ब्रह्मा च विष्णुश्च किं वा रुद्रो भविष्यसि
सारस उवाच-
नास्ति ते तपसो भावः फलं नास्ति च तस्य तु ॥५६॥
त्वया न परितप्तस्य तपसः सांप्रतं शृणु
कुंडलस्यापि पुत्रस्य बालस्यापि यथा गुणः ॥५७॥
तथा ते नास्ति वै ज्ञानं परिज्ञातं न तत्पदम्
इतो गत्वापि पृच्छ त्वं मम रूपं द्विजोत्तम ॥५८॥
स वदिष्यति धर्मात्मा सर्वं ज्ञानं तवैव हि
विष्णुरुवाच-
एवमाकर्ण्य तत्सर्वं सारसेन प्रभाषितम् ॥५९॥
निर्जगाम स वेगेन दशारण्यं महाश्रमम् ॥६०॥
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने एकषष्टितमोऽध्यायः ॥६१॥
N/A
References : N/A
Last Updated : October 29, 2020
TOP