भूमिखंडः - अध्यायः ८३
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
सुकर्मोवाच-
समाहूय प्रजाः सर्वा द्वीपानां वसुधाधिपः
हर्षेण महताविष्ट इदं वचनमब्रवीत् ॥१॥
इंद्रलोकं ब्रह्मलोकं रुद्रलोकमतः परम्
वैष्णवं सर्वपापघ्नं प्राणिनां गतिदायकम् ॥२॥
व्रजाम्यहं न संदेहो ह्यनया सह सत्तमाः
ब्राह्मणाः क्षत्रिया वैश्याः सशूद्रा श्च प्रजा मम ॥३॥
सुखेनापि सकुटुंबैः स्थातव्यं तु महीतले
पूरुरेष महाभागो भवतां पालकस्त्विह ॥४॥
स्थापितोस्ति मया लोका राजा धीरः सदंडकः
एवमुक्तास्तु ताः सर्वाः प्रजा राजानमब्रुवन् ॥५॥
श्रूयते सर्ववेदेषु पुराणेषु नृपोत्तम
धर्म एवं यतो लोके न दृष्टः केन वै पुरा ॥६॥
दृष्टोस्माभिरसौ धर्मो दशांगः सत्यवल्लभः
सोमवंशसमुत्पन्नो नहुषस्य महागृहे ॥७॥
हस्तपादमुखैर्युक्तः सर्वाचारप्रचारकः
ज्ञानविज्ञानसंपन्नः पुण्यानां च महानिधिः ॥८॥
गुणानां हि महाराज आकरः सत्यपंडितः
कुर्वंति च महाधर्मं सत्यवंतो महौजसः ॥९॥
तं धर्मं दृष्टवंतः स्म भवंतं कामरूपिणम्
भवंतं कामकर्तारमीदृशं सत्यवादिनम् ॥१०॥
कर्मणा त्रिविधेनापि वयं त्यक्तुं न शक्नुमः
यत्र त्वं तत्र गच्छामः सुसुखं पुण्यमेव च ॥११॥
नरकेपि भवान्यत्र वयं तत्र न संशयः
किं दारैर्धनभोगैश्च किं जीवैर्जीवितेन च ॥१२॥
त्वां विनासुमहाराज तेन नास्त्यत्र कारणम्
त्वयैव सह राजेंद्र वयं यास्याम नान्यथा ॥१३॥
एवं श्रुत्वा वचस्तासां प्रजानां पृथिवीपतिः
हर्षेण महताविष्टः प्रजावाक्यमुवाच ह ॥१४॥
आगच्छंतु मया सार्द्धं सर्वे लोकाः सुपुण्यकाः
नृपो रथं समारुह्य तया वै कामकन्यया ॥१५॥
रथेन हंसवर्णेन चंद्रबिंबानुकारिणा
चामरैर्व्यजनैश्चापि वीज्यमानो गतव्यथः ॥१६॥
केतुना तेन पुण्येन शुभ्रेणापि महीयसा
शोभमानो यथा देवो देवराजः पुरंदरः ॥१७॥
ऋषिभिः स्तूयमानस्तु बंदिभिश्चारणैस्तथा
प्रजाभिः स्तूयमानश्च ययातिर्नहुषात्मजः ॥१८॥
प्रजाः सर्वास्ततो यानैः समायाता नरेश्वरम्
गजैरश्वै रथैश्चान्यैः प्रस्थिताश्च दिवं प्रति ॥१९॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये पृथग्जनाः
सर्वे च वैष्णवा लोका विष्णुध्यानपरायणाः ॥२०॥
तेषां तु केतवः शुक्ला हेमदंडैरलंकृताः
शंखचक्रांकिताः सर्वे सदंडाः सपताकिनः ॥२१॥
प्रजावृंदेषु भासंते पताका मारुतेरिताः
दिव्यमालाधरास्सर्वे शोभितास्तुलसीदलैः ॥२२॥
दिव्यचंदनदिग्धांगा दिव्यगंधानुलेपनाः
दिव्यवस्त्रकृता शोभा दिव्याभरणभूषिताः ॥२३॥
सर्वे लोकाः सुरूपास्ते राजानमुपजग्मिरे
प्रजाशतसहस्राणि लक्षकोटिशतानि च ॥२४॥
अर्वखर्वसहस्राणि ते जनाः प्रतिजग्मिरे
ते तु राज्ञा समं सर्वे वैष्णवाः पुण्यकारिणः ॥२५॥
विष्णुध्यानपराः सर्वे जपदानपरायणाः
सुकर्मोवाच-
एवं ते प्रस्थिताः सर्वे हर्षेण महतान्विताः ॥२६॥
पूरुं पुत्रं महाराज स्वराज्ये परिषिच्य तम्
ऐंद्रं लोकं जगामाथ ययातिः पृथिवीपतिः ॥२७॥
तेजसा तस्य पुण्येन धर्मेण तपसा तदा
ते जनाः प्रस्थिताः सर्वे वैष्णवं लोकमुत्तमम् ॥२८॥
ततो देवाः सगंधर्वाः किन्नराश्चारणास्तथा
सहिता देवराजेन आगताः संमुखं तदा ॥२९॥
तस्यैवापि नृपेंद्रस्य पूजयंतो नृपोत्तम
इंद्र उवाच-
स्वागतं ते महाराज मम गेहं समाविश ॥३०॥
अत्र भोगान्प्रभुंक्ष्व त्वं दिव्यान्कामान्मनोऽनुगान्
राजोवाच-
सहस्राक्ष महाप्राज्ञ तव पादांबुजद्वयम् ॥३१॥
नमस्करोम्यहं देव ब्रह्मलोकं व्रजाम्यहम्
देवैः संस्तूयमानश्च ब्रह्मलोकं जगाम ह ॥३२॥
पद्मयोनिर्महातेजाः सार्धं मुनिवरैस्तदा
आतिथ्यं च चकारास्य पाद्यार्घादि सुविष्टरैः ॥३३॥
उवाच विष्णुलोकं हि प्रयाहि त्वं स्वकर्मणा
एवमाभाषिते धात्रा जगाम शिवमंदिरम् ॥३४॥
चक्रे आतिथ्यपूजां च उमया सह शंकरः
तस्यै वापि नृपेंद्रस्य राजानमिदमब्रवीत् ॥३५॥
कृष्णभक्तोसि राजेंद्र ममापि सुप्रियो भवान्
ततो ययाते राजेंद्र वस त्वं मम मंदिरम् ॥३६॥
सर्वान्भोगान्प्रभुंक्ष्व त्वं दुःखप्राप्यान्हि मानुषैः
अंतरं नास्ति राजेंद्र मम विष्णोर्न संशयः ॥३७॥
योसौ विष्णुस्वरूपेण स वै रुद्रो न संशयः
यो रुद्रो विद्यते राजन्स च विष्णुः सनातनः ॥३८॥
उभयोरंतरं नास्ति तस्माच्चैव वदाम्यहम्
विष्णुभक्तस्यपुण्यस्यस्थानमेवददाम्यहम् ॥३९॥
तस्मादत्र महाराज स्थातव्यं हि त्वयानघ
एवमुक्तः शिवेनापि ययातिर्हरिवल्लभः ॥४०॥
भक्त्या प्रणम्य देवेशं शंकरं नतकंधरः
एतत्सर्वं महादेव त्वयोक्तमिह सांप्रतम् ॥४१॥
युवयोरंतरं नास्ति एका मूर्तिर्द्विधाभवत्
वैष्णवं गंतुमिच्छामि पादौ तव नमाम्यहम् ॥४२॥
एवमस्तु महाराज गच्छ लोकं तु वैष्णवम्
समादिष्टः शिवेनापि प्रतस्थे वसुधाधिपः ॥४३॥
पृथ्वीशस्तैर्महापुण्यैर्वैष्णवैर्विष्णुवल्लभैः
नृत्यमानैस्ततस्तैस्तु पुरतस्तस्य भूपतेः ॥४४॥
शंखशब्दैः सुपापघ्नैः सिंहनादैः सुपुष्कलैः
जगाम निःस्वनै राजा पूज्यमानः सुचारणैः ॥४५॥
सुस्वरैर्गीयमानस्तु पाठकैः शास्त्रकोविदैः
गायंति पुरतस्तस्य गंधर्वा गीततत्पराः ॥४६॥
ऋषिभिः स्तूयमानश्च देववृंदैः समन्वितैः
अप्सरोभिः सुरूपाभिः सेव्यमानः स नाहुषिः ॥४७॥
गंधर्वैः किन्नरैः सिद्धैश्चारणैः पुण्यमंगलैः
साध्यैर्विद्याधरै राजा मरुद्भिर्वसुभिस्तथा ॥४८॥
रुद्रैश्चादित्यवर्गैश्च लोकपालैर्दिगीश्वरैः
स्तूयमानो महाराजस्त्रैलोक्येन समंततः ॥४९॥
ददृशे वैष्णवं लोकमनौपम्यमनामयम्
विमानैः कांचनै राजन्सर्वशोभासमाविलैः ॥५०॥
हंसकुंदेंदुधवलैर्विमानैरुपशोभितैः
प्रासादैः शतभौमैश्च मेरुमंदरसंनिभैः ॥५१॥
शिखरैरुल्लिखद्भिश्च स्वर्व्योमहाटकान्वितैः
जाज्वल्यमानैः कलशैः शोभते सुपुरोत्तमम् ॥५२॥
तारागणैर्यथाकाशं तेजः श्रिया प्रकाशते
प्रज्वलत्तेजोज्वालाभिर्लोचनैरिव लोकते ॥५३॥
नानारत्नैर्हरेर्लोकः प्रहसद्दशनैरिव
समाह्वयति तान्पुण्यान्वैष्णवान्विष्णुवल्लभान् ॥५४॥
ध्वज व्याजेन राजेंद्र चलिताग्रैः सुपल्लवैः
श्वसनांदोलितैस्तैश्च ध्वजाग्रैश्च मनोहरैः ॥५५॥
हेमदंडैश्च घंटाभिः सर्वत्रसमलंकृतम्
सूर्यतेजः प्रकाशैश्च गोपुराट्टालकैस्ततः ॥५६॥
गवाक्षैर्जालमालैश्च वातायनमनोहरैः
प्रतोलीनां प्रकाशैश्च प्राकारैर्हेमरूपकैः ॥५७॥
तोरणैः सुपताकाभिर्नानाशब्दैः सुमंगलैः
कलशाग्रैश्चक्रबिंबै रविबिंबसमप्रभैः ॥५८॥
सुभोगैः शतकक्षैश्च निर्जलांबुदसन्निभैः
दंडच्छत्रसमाकीर्णैः कलशैरुपशोभितैः ॥५९॥
प्रावृट्कालांबुदाकारैर्मदिरैरुपशोभितैः
कलशैः शोभमानैस्तैर्ऋक्षैर्द्यौरिव भूतलम् ॥६०॥
दंडजालपताकाभिर्ऋक्षजालसमप्रभैः
तादृशैः स्फाटिकाकारैः कांतिशंखेंदुसन्निभैः ॥६१॥
हेमप्रासादसंबाधैर्नानाधातुमयैस्ततः
विमानैरर्बुदसंख्यैः शतकोटिसहस्रकैः ॥६२॥
सर्वभोगयुतैश्चैव शोभते हरिपत्तनम्
यैः समाराधितो देवः शंखचक्रगदाधरः ॥६३॥
ते प्रसादात्तस्य तेषु निवसंति गृहेषु च
सर्वपुण्येषु दिव्येषु भोगाढ्येषु च मानवाः ॥६४॥
वैष्णवाः पुण्यकर्माणो निर्धूताशेषकल्मषाः
एवंविधैर्गृहैः पुण्यैः शोभितं विष्णुमंदिरम् ॥६५॥
नानावृक्षैः समाकीर्णं वनैश्चंदनशोभितैः
सर्वकामफलै राजन्सर्वत्र समलंकृतम् ॥६६॥
वापीकुंडतडागैश्च सारसैरुपशोभितैः
हंसकारंडवाकीर्णैः कल्हारैरुपशोभितैः ॥६७॥
शतपत्रैर्महापद्मैः पद्मोत्पलविराजितैः
कनकोत्पलवर्णैश्च सरोभिश्च विराजते ॥६८॥
वैकुंठं सर्वशोभाढ्यं देवोद्यानैरलंकृतम्
दिव्यशोभासमाकीर्णं वैष्णवैरुपशोभितम् ॥६९॥
वैकुंठं ददृशे राजा मोक्षस्थानमनुत्तमम्
देववृंदैः समाकीर्णं ययातिर्नहुषात्मजः ॥७०॥
प्रविवेश पुरं रम्यं सर्वदाहविवर्जितम्
ददृशे सर्वक्लेशघ्नं नारायणमनामयम् ॥७१॥
विमानैरुपशोभंतं सर्वाभरणशालिनम्
पीतवासं जगन्नाथं श्रीवत्सांकं महाद्युतिम् ॥७२॥
वैनतेयसमारूढं श्रियायुक्तं परात्परम्
सर्वेषां देवलोकानां यो गतिः परमेश्वरः ॥७३॥
परमानंदरूपेण कैवल्येन विराजते
सेव्यमानं महालोकैःसुपुण्यैर्वैष्णवैर्हरिम् ॥७४॥
देववृंदैः समाकीर्णं गंधर्वगणसेवितम्
अप्सरोभिर्महात्मानं दुःखक्लेशापहं हरिम् ॥७५॥
नारायणं ननामाथ स्वपत्न्या सह भूपतिः
प्रणेमुर्मानवाः सर्वे वैष्णवा मधुसूदनम् ॥७६॥
गता ये वैष्णवाः सर्वे सह राज्ञा महामते
पादांबुजद्वयं तस्य नेमुर्भक्त्या महामते ॥७७॥
प्रणमंतं महात्मानं राजानं दीप्ततेजसम्
तमुवाच हृषीकेशस्तुष्टोऽहं तव सुव्रत ॥७८॥
वरं वरय राजेंद्र यत्ते मनसि वर्तते
तत्ते ददाम्यसंदेहं मद्भक्तोसि महामते ॥७९॥
राजोवाच
यदि त्वं देवदेवेश तुष्टोसि मधुसूदन
दासत्वं देहि सततमात्मनश्च जगत्पते ॥८०॥
विष्णुरुवाच-
एवमस्तु महाभाग मम भक्तो न संशयः
लोके मम महाराज स्थातव्यमनया सह ॥८१॥
एवमुक्तो महाराजो ययातिः पृथिवीपतिः
प्रसादात्तस्य देवस्य विष्णुलोकं प्रसाधितम् ॥८२॥
निवसत्येष भूपालो वैष्णवं लोकमुत्तमम् ॥८३॥
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थवर्णने ययातिचरित्रे ययातेः स्वर्गारोहणं नाम त्र्यशीतितमोऽध्यायः ॥८३॥
N/A
References : N/A
Last Updated : October 29, 2020
TOP