संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ७७

भूमिखंडः - अध्यायः ७७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सुकर्मोवाच-
कामस्य गीतलास्येन हास्येन ललितेन च
मोहितो राजराजेंद्रो नटरूपेण पिप्पल ॥१॥
कृत्वा मूत्रं पुरीषं च स राजा नहुषात्मजः
अकृत्वा पादयोः शौचमासने उपविष्टवान् ॥२॥
तदंतरं तु संप्राप्य संचचार जरा नृपम्
कामेनापि नृपश्रेष्ठ इंद्रकार्यं कृतं हितम् ॥३॥
निवृत्ते नाटके तस्मिन्गतेषु तेषु भूपतिः
जराभिभूतो धर्मात्मा कामसंसक्तमानसः ॥४॥
मोहितः काममोहेन विह्वलो विकलेंद्रियः
अतीव मुग्धो धर्मात्मा विषयैश्चापवाहितः ॥५॥
एकदा तु गतो राजा मृगया व्यसनातुरः
वने च क्रीडते सोपि मोहरागवशं गतः ॥६॥
सरसं क्रीडमानस्य नृपतेश्च महात्मनः
मृगश्चैकः समायातश्चतुःशृंगो ह्यनौपमः ॥७॥
सर्वांगसुंदरो राजन्हेमरूपतनूरुहः
रत्नज्योतिः सुचित्रांगो दर्शनीयो मनोहरः ॥८॥
अभ्यधावत्स वेगेन बाणपाणिर्धनुर्द्धरः
इत्यमन्यत मेधावी कोपि दैत्यः समागतः ॥९॥
मृगेण च स तेनापि दूरमाकर्षितो नृपः
गतः सरथवेगेन श्रमेण परिखेदितः ॥१०॥
वीक्षमाणस्य तस्यापि मृगश्चांतरधीयत
स पश्यति वनं तत्र नंदंनोपममद्भुतम् ॥११॥
चारुवृक्षसमाकीर्णं भूतपंचकशोभितम्
गुरुभिश्चंदनैः पुण्यैः कदलीखंडमंडितैः ॥१२॥
बकुलाशोकपुंनागैर्नालिकेरैश्च तिंदुकैः
पूगीफलैश्च खर्जूरैः कुमुदैः सप्तपर्णकैः ॥१३॥
पुष्पितैः कर्णिकारैश्च नानावृक्षैः सदाफलैः
पुष्पितामोदसंयुक्तैः केतकैः पाटलैस्ततः ॥१४॥
वीक्षमाणो महाराज ददर्श सर उत्तमम्
पुण्योदकेन संपूर्णं विस्तीर्णं पंचयोजनम् ॥१५॥
हंसकारंडवाकीर्णं जलपक्षिविनादितम्
कमलैश्चापि मुदितं श्वेतोत्पलविराजितम् ॥१६॥
रक्तोत्पलैः शोभमानं हाटकोत्पलमंडितम्
नीलोत्पलैः प्रकाशितं कल्हारैरतिशोभितम् ॥१७॥
मत्तैर्मधुकरैश्चपि सर्वत्र परिनादितम्
एवं सर्वगुणोपेतं ददर्श सर उत्तमम् ॥१८॥
पंचयोजनविस्तीर्णं दशयोजनदीर्घकम्
तडागं सर्वतोभद्रं दिव्यभावैरलंकृतम् ॥१९॥
रथवेगेन संखिन्नः किंचिच्छ्रमनिपीडितः
निषसाद तटे तस्य चूतच्छायां सुशीतलाम् ॥२०॥
स्नात्वा पीत्वा जलं शीतं पद्मसौगंध्यवासितम्
सर्वश्रमोपशमनममृतोपममेव तत् ॥२१॥
वृक्षच्छाये ततस्तस्मिन्नुपविष्टेन भूभृता
गीतध्वनिः समाकर्णि गीयमानो यथा तथा ॥२२॥
यथा स्त्री गायते दिव्या तथायं श्रूयते ध्वनिः
गीतप्रियो महाराज एव चिंतां परां गतः ॥२३॥
चिंताकुलस्तु धर्मात्मा यावच्चिंतयते क्षणम्
तावन्नारी वरा काचित्पीनश्रोणी पयोधरा ॥२४॥
नृपतेः पश्यतस्तस्य वने तस्मिन्समागता
सर्वाभरणशोभांगी शीललक्षणसंपदा ॥२५॥
तस्मिन्वने समायाता नृपतेः पुरतः स्थिता
तामुवाच महाराजः का हि कस्य भविष्यसि ॥२६॥
किमर्थं हि समायाता तन्मे त्वं कारणं वद
पृष्टा सती तदा तेन न किंचिदपि पिप्पल ॥२७॥
शुभाशुभं च भूपालं प्रत्यवोचद्वरानना
प्रहस्यैव गता शीघ्रं वीणादंडकराऽबला ॥२८॥
विस्मयेनापि राजेंद्रो महता व्यापितस्तदा
मया संभाषिता चेयं मां न ब्रूते स्म सोत्तरम् ॥२९॥
पुनश्चिंतां समापेदे ययातिः पृथिवीपतिः
यो वै मृगो मया दृष्टश्चतुःशृंगः सुवर्णकः ॥३०॥
तस्मान्नारी समुद्भूता तत्सत्यं प्रतिभाति मे
मायारूपमिदं सत्यं दानवानां भविष्यति ॥३१॥
चिंतयित्वा क्षणं राजा ययातिर्नहुषात्मजः
यावच्चिंतयते राजा तावन्नारी महावने ॥३२॥
अंतर्धानं गता विप्र प्रहस्य नृपनंदनम्
एतस्मिन्नंतरे गीतं सुस्वरं पुनरेव तत् ॥३३॥
शुश्रुवे परमं दिव्यं मूर्छनातानसंयुतम्
जगाम सत्वरं राजा यत्र गीतध्वनिर्महान् ॥३४॥
जलांते पुष्करं चैव सहस्रदलमुत्तमम्
तस्योपरि वरा नारी शीलरूपगुणान्विता ॥३५॥
दिव्यलक्षणसंपन्ना दिव्याभरणभूषिता
दिव्यैर्भावैः प्रभात्येका वीणादंडकराविला ॥३६॥
गायंती सुस्वरं गीतं तालमानलयान्वितम्
तेन गीतप्रभावेण मोहयंती चराचरान् ॥३७॥
देवान्मुनिगणान्सर्वान्दैत्यान्गंधर्वकिन्नरान्
तां दृष्ट्वा स विशालाक्षीं रूपतेजोपशालिनीम् ॥३८॥
संसारे नास्ति चैवान्या नारीदृशी चराचरे
पुरा नटो जरायुक्तो नृपतेः कायमेव हि ॥३९॥
संचारितो महाकामस्तदासौ प्रकटोभवत्
घृतं स्पृष्ट्वा यथा वह्नी रश्मिवान्संप्रजायते ॥४०॥
तां च दृष्ट्वा तथा कामस्तत्कायात्प्रकटोऽभवत्
मन्मथाविष्टचित्तोसौ तां दृष्ट्वा चारुलोचनाम् ॥४१॥
ईदृग्रूपा न दृष्टा मे युवती विश्वमोहिनी
चिंतयित्वा क्षणं राजा कामसंसक्तमानसः ॥४२॥
तस्याः सविरहेणापि लुब्धोभून्नृपतिस्तदा
कामाग्निना दह्यमानः कामज्वरेणपीडितः ॥४३॥
कथं स्यान्मम चैवेयं कथं भावो भविष्यति
यदा मां गूहते बाला पद्मास्या पद्मलोचना ॥४४॥
यदीयं प्राप्यते तर्हि सफलं जीवितं भवेत्
एवं विचिंत्य धर्मात्मा ययातिः पृथिवीपतिः ॥४५॥
तामुवाच वरारोहां का त्वं कस्यापि वा शुभे
पूर्वं दृष्टा तु या नारी सा दृष्टा पुनरेव च ॥४६॥
तां पप्रच्छ स धर्मात्मा का चेयं तव पार्श्वगा
सर्वं कथय कल्याणि अहं हि नहुषात्मजः ॥४७॥
सोमवंशप्रसूतोहं सप्तद्वीपाधिपः शुभे
ययातिर्नाम मे देवि ख्यातोहं भुवनत्रये ॥४८॥
तव संगमने चेतो भावमेवं प्रवांछते
देहि मे संगमं भद्रे कुरु सुप्रियमेव हि ॥४९॥
यं यं हि वांछसे भद्रे तद्ददामि न संशयः
दुर्जयेनापि कामेन हतोहं वरवर्णिनि ॥५०॥
तस्मात्त्राहि सुदीनं मां प्रपन्नं शरणं तव
राज्यं च सकलामुर्वीं शरीरमपि चात्मनः ॥५१॥
संगमे तव दास्यामि त्रैलोक्यमिदमेव ते
तस्य राज्ञो वचः श्रुत्वा सा स्त्री पद्मनिभानना ॥५२॥
विशालां स्वसखीं प्राह ब्रूहि राजानमागतम्
नाम चोत्पत्तिस्थानं च पितरं मातरं शुभे ॥५३॥
ममापि भावमेकाग्रमस्याग्रे च निवेदय
तस्याश्च वांछितं ज्ञात्वा विशाला भूपतिं तदा ॥५४॥
उवाच मधुरालापैः श्रूयतां नृपनंदन
विशालोवाच-
काम एष पुरा दग्धो देवदेवेन शंभुना ॥५५॥
रुरोद सा रतिर्दुःखाद्भर्त्राहीनापि सुस्वरम्
अस्मिन्सरसि राजेंद्र सा रतिर्न्यवसत्तदा ॥५६॥
तस्य प्रलापमेवं सा सुस्वरं करुणान्वितम्
समाकर्ण्य ततो देवाः कृपया परयान्विताः ॥५७॥
संजाता राजराजेंद्र शंकरं वाक्यमब्रुवन्
जीवयस्व महादेव पुनरेव मनोभवम् ॥५८॥
वराकीयं महाभाग भर्तृहीना हि कीदृशी
कामेनापि समायुक्तामस्मत्स्नेहात्कुरुष्व हि ॥५९॥
तच्छ्रुत्वा च वचः प्राह जीवयामि मनोभवम्
कायेनापि विहीनोयं पंचबाणो मनोभवः ॥६०॥
भविष्यति न संदेहो माधवस्य सखा पुनः
दिव्येनापि शरीरेण वर्तयिष्यति नान्यथा ॥६१॥
महादेवप्रसादाच्च मीनकेतुः स जीवितः
आशीर्भिरभिनंद्यैवं देव्याः कामं नरोत्तम ॥६२॥
गच्छ काम प्रवर्तस्व प्रियया सह नित्यशः
एवमाह महातेजाः स्थितिसंहारकारकः ॥६३॥
पुनः कामः सरःप्राप्तो यत्रास्ते दुःखिता रतिः
इदं कामसरो राजन्रतिरत्र सुसंस्थिता ॥६४॥
दग्धे सति महाभागे मन्मथे दुःखधर्षिता
रत्याः कोपात्समुत्पन्नः पावको दारुणाकृतिः ॥६५॥
अतीवदग्धा तेनापि सा रतिर्मोहमूर्छिता
अश्रुपातं मुमोचाथ भर्तृहीना नरोत्तम ॥६६॥
नेत्राभ्यां हि जले तस्याः पतिता अश्रुबिंदवः
तेभ्यो जातो महाशोकः सर्वसौख्यप्रणाशकः ॥६७॥
जरा पश्चात्समुत्पन्ना अश्रुभ्यो नृपसत्तम
वियोगो नाम दुर्मेधास्तेभ्यो जज्ञे प्रणाशकः ॥६८॥
दुःखसंतापकौ चोभौ जज्ञाते दारुणौ तदा
मूर्छा नाम ततो जज्ञे दारुणा सुखनाशिनी ॥६९॥
शोकाज्जज्ञे महाराज कामज्वरोथ विभ्रमः
प्रलापो विह्वलश्चैव उन्मादो मृत्युरेव च ॥७०॥
तस्याश्च अश्रुबिंदुभ्यो जज्ञिरे विश्वनाशकाः
रत्याः पार्श्वे समुत्पन्नाः सर्वे तापांगधारिणः ॥७१॥
मूर्तिमंतो महाराज सद्भावगुणसंयुताः
काम एष समायातः केनाप्युक्तं तदा नृप ॥७२॥
महानंदेन संयुक्ता दृष्ट्वा कामं समागतम्
नेत्राभ्यामश्रुपूर्णाभ्यां पतिता अश्रुबिन्दवः ॥७३॥
अप्सु मध्ये महाराज चापल्याज्जज्ञिरे प्रजाः
प्रीतिर्नाम तदा जज्ञे ख्यातिर्लज्जा नरोत्तम ॥७४॥
तेभ्यो जज्ञे महानंद शांतिश्चान्या नृपोत्तम
जज्ञाते द्वे शुभे कन्ये सुखसंभोगदायिके ॥७५॥
लीलाक्रीडा मनोभाव संयोगस्तु महान्नृप
रत्यास्तु वामनेत्राद्वै आनंदादश्रुबिंदवः ॥७६॥
जलांते पतिता राजंस्तस्माज्जज्ञे सुपंकजम्
तस्मात्सुपंकजाज्जाता इयं नारी वरानना ॥७७॥
अश्रुबिंदुमती नाम रतिपुत्री नरोत्तम
तस्याः प्रीत्या सुखं कृत्वा नित्यं वर्त्ते समीपगा ॥७८॥
सखीभावस्वभावेन संहृष्टा सर्वदा शुभा
विशाला नाम मे ख्यातं वरुणस्य सुता नृप ॥७९॥
अस्याश्चांते प्रवर्तामि स्नेहात्स्निग्धास्मि सर्वदा
एतत्ते सर्वमाख्यातमस्याश्चात्मन एव ते ॥८०॥
तपश्चचार राजेंद्र पतिकामा वरानना
राजोवाच-
सर्वमेव त्वयाख्यातं मया ज्ञातं शुभे शृणु ॥८१॥
मामेवं हि भजत्वेषा रतिपुत्री वरानना
यमेषा वांछते बाला तत्सर्वं तु ददाम्यहम् ॥८२॥
तथा कुरुष्व कल्याणि यथा मे वश्यतां व्रजेत्
विशालोवाच-
अस्या व्रतं प्रवक्ष्यामि तदाकर्णय भूपते ॥८३॥
पुरुषं यौवनोपेतं सर्वज्ञं वीरलक्षणम्
देवराजसमं राजन्धर्माचारसमन्वितम् ॥८४॥
तेजस्विनं महाप्राज्ञं दातारं यज्विनां वरम्
गुणानां धर्मभावस्य ज्ञातारं पुण्यभाजनम् ॥८५॥
लोक इंद्रसमं राजन्सुयज्ञैर्धर्मतत्परम्
सर्वैश्वर्यसमोपेतं नारायणमिवापरम् ॥८६॥
देवानां सुप्रियं नित्यं ब्राह्मणानामतिप्रियम्
ब्रह्मण्यं वेदतत्त्वज्ञं त्रैलोक्ये ख्यातविक्रमम् ॥८७॥
एवंगुणैः समुपेतं त्रैलोक्येन प्रपूजितम्
सुमतिं सुप्रियं कांतं मनसा वरमीप्सति ॥८८॥
ययातिरुवाच-
एवं गुणैः समुपेतं विद्धि मामिह चागतम्
अस्यानुरूपो भर्त्ताहं सृष्टो धात्रा न संशयः ॥८९॥
विशालोवाच-
भवंतं पुण्यसंवृद्धं जाने राजञ्जगत्त्रये
पूर्वोक्ता ये गुणाः सर्वे मयोक्ताः संति ते त्वयि ॥९०॥
एकेनापि च दोषेण त्वामेषा हि न मन्यते
एष मे संशयो जातो भवान्विष्णुमयो नृप ॥९१॥
ययातिरुवाच-
समाचक्ष्व महादोषं यमेषा नानुमन्यते
तत्त्वेन चारुसर्वांगी प्रसादसुमुखी भव ॥९२॥
विशालोवाच-
आत्मदोषं न जानासि कस्मात्त्वं जगतीपते
जरया व्याप्तकायस्त्वमनेनेयं न मन्यते ॥९३॥
एवं श्रुत्वा महद्वाक्यमप्रियं जगतीपतिः
दुःखेन महताविष्टस्तामुवाच पुनर्नृपः ॥९४॥
जरादोषो न मे भद्रे संसर्गात्कस्यचित्कदा
समुद्भूतं ममांगे वै तं न जाने जरागमम् ॥९५॥
यं यं हि वांछते चैषा त्रैलोक्ये दुर्लभं शुभे
तमस्यै दातुकामोहं व्रियतां वर उत्तमः ॥९६॥
विशालोवाच-
जराहीनो यदा स्यास्त्वं तदा ते सुप्रिया भवेत्
एतद्विनिश्चितं राजन्सत्यं सत्यं वदाम्यहम् ॥९७॥
श्रुतिरेवं वदेद्राजन्पुत्रे भ्रातरि भृत्यके
जरा संक्राम्यते यस्य तस्यांगे परिसंचरेत् ॥९८॥
तारुण्यं तस्य वै गृह्य तस्मै दत्वा जरां पुनः
उभयोः प्रीतिसंवादः सुरुच्या जायते शुभः ॥९९॥
यथात्मदानपुण्यस्य कृपया यो ददाति च
फलं राजन्हि तत्तस्य जायते नात्र संशयः ॥१००॥
दुःखेनोपार्जितं पुण्यमन्यस्मै हि प्रदीयते
सुपुण्यं तद्भवेत्तस्य पुण्यस्य फलमश्नुते ॥१०१॥
पुत्राय दीयतां राजंस्तस्मात्तारुण्यमेव च
प्रगृह्यैव समागच्छ सुंदरत्वेन भूपते ॥१०२॥
यदा त्वमिच्छसे भोक्तुं तदा त्वं कुरुभूपते
एवमाभाष्य सा भूपं विशाला विरराम ह ॥१०३॥
सुकर्मोवाच-
एवमाकर्ण्य राजेंद्रो विशालामवदत्तदा
राजोवाच-
एवमस्तु महाभागे करिष्ये वचनं तव ॥१०४॥
कामासक्तः समूढस्तु ययातिः पृथिवीपतिः
गृहं गत्वा समाहूय सुतान्वाक्यमुवाच ह ॥१०५॥
तुरुं पूरुं कुरुं राजा यदुं च पितृवत्सलम्
कुरुध्वं पुत्रकाः सौख्यं यूयं हि मम शासनात् ॥१०६॥
पुत्रा ऊचुः-
पितृवाक्यं प्रकर्तव्यं पुत्रैश्चापि शुभाशुभम्
उच्यतां तात तच्छीघ्रं कृतं विद्धि न संशयः ॥१०७॥
एवमाकर्ण्यतद्वाक्यं पुत्राणां पृथिवीपतिः
आचचक्षे पुनस्तेषु हर्षेणाकुलमानसः ॥१०८॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययाति-
चरित्रे सप्तसप्ततितमोऽध्यायः ॥७७॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP