संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ४३ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ४३ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ४३ Translation - भाषांतर सुकलोवाच-एवं ते शूकराः सर्वे युद्धाय समुपस्थिताःपुरः स्थितस्य ते राज्ञो ह्यवतस्थुश्च लुब्धकाः ॥१॥महावराहो राजेंद्र गिरिसानुं समाश्रितःमहता यूथभावेन व्यूहं कृत्वा प्रतिष्ठति ॥२॥कपिलः स्थूलपीनांगो महादंष्ट्रो महामुखःदुःसहः शूकरो राजन्गर्जते चातिभैरवम् ॥३॥तानपश्यन्महाराजः शालतालवनाश्रयान्तेषां तद्वचनं श्रुत्वा मनुपुत्रः प्रतापवान् ॥४॥गृह्यतां शूर वाराहो विध्यतां बलदर्पितःएवमाभाष्य तान्वीरो मनुपुत्रः प्रतापवान् ॥५॥अथ ते लुब्धकाः सर्वे मृगया मदमोहिताःसंनद्धा दंशिताः सर्वे श्वभिः सार्द्धं प्रजग्मिरे ॥६॥हर्षेण महताविष्टो राजराजो महाबलःअश्वारूढः सुसैन्येन चतुरंगेण संयतः ॥७॥गंगातीरं समायातो मेरौ गिरिवरोत्तमेरत्नधातुसमाकीर्णे नानावृक्षैरलंकृते ॥८॥सुकलोवाच-यो बलधाम मरीचिचयकरनिकरमयप्रोत्तुंगोऽत्युच्चम्गगनमेव संप्राप्तो नाना नगाचरितशोभो गिरिराजो भाति ॥९॥योजनबहलविमल गंगाप्रवाह समुच्चरत्तीरवीचीतरंगभंगैर्मुक्ताफलसदृशैर्निर्मलांबुकणैःसर्वत्र प्रक्षालित धवलतलशिलातलोगिरींद्र सुःश्रियायुक्तः ॥१०॥देवैश्चारणकिन्नरैः परिवृतो गंधर्वविद्याधरैः सिद्धैरप्सरसांगणैर्मुनिजनैर्नागेंद्र विद्याधरैःश्रीखंडैर्बहुचंदनैस्ससरलैः शालैस्तमालैर्गिरी रुद्रा क्षैर्वरसिद्धिदायकघनैः कल्पद्रुमैः शोभते ॥११॥नानाधातुविचित्रो वै नानारत्नविचित्रितैःविमानैः कांचनैर्दंडैः कलत्रैरुपशोभते ॥१२॥नालिकेरवनैर्दिव्यैः पूगवृक्षैर्विराजतेदिव्यपुन्नागबकुलैः कदलीखंडमंडितैः ॥१३॥पुष्पकैश्चंपकैरद्रि पाःटलैः केतकैस्तथानानावल्लीवितानैश्च पुष्पितैः पद्मकैस्तथा ॥१४॥नानावर्णैः सुपुष्पैश्च नानावृक्षैरलंकृतःदिव्यवृक्षैः समाकीर्णः स्फाटिकस्य शिलातलैः ॥१५॥योगियोगीन्द्र संसिद्धैः कंदरांतर्निवासिभिःनिर्झरैश्चैव रम्यैश्च बहुप्रस्रवणैर्गिरिः ॥१६॥नदीप्रवाहसंह्रष्टैः संगमैरुपशोभतेह्रदैश्च पल्वलैः कुंडैर्निर्मलोदकधारिभिः ॥१७॥गिरिराजो विभात्येकः सानुभिः सह संस्थितैःशरभैश्चैव शार्दूलैर्मृगयूथैरलंकृतः ॥१८॥महामत्तैश्च मातंगैर्महिषैरुरुभिः सदाअनेकैर्दिव्यभावैश्च गिरिराजो विभाति सः ॥१९॥अयोध्याधिपतिर्वीर इक्ष्वाकुर्मनुनंदनःतया सुभार्यया युक्तश्चतुरंगबलेन च ॥२०॥पुरतो लुब्धका यांति शूराः श्वानश्च शीघ्रगाःयत्रास्ते शूकरः शूरो भार्यया सहितो बली ॥२१॥बहुभिः शूकरैर्गुप्तो गुरुभिः शिशुभिस्ततःमेरुभूमिं समाश्रित्य गंगातीरं समंततः ॥२२॥सुकलोवाच-तामुवाच वराहस्तु सुप्रियां हर्षसंयुतःप्रिये पश्य समायातः कोशलाधिपतिर्बली ॥२३॥मामुद्दिश्य महाप्राज्ञो मृगयां क्रीडते नृपःयुद्धमेव करिष्यामि सुरासुरप्रहर्षकम् ॥२४॥अथ भूपो महातेजा बाणपाणिर्धनुर्धरःसुदेवां सत्यधर्मांगीं तामुवाच प्रहर्षितः ॥२५॥पश्य प्रिये महाकोलं गर्जमानं महाबलम्परिवारसमायुक्तं दुःसहं मृगघातिभिः ॥२६॥अद्यैवाहं हनिष्यामि सुबाणैर्निशितैः प्रियेमामेव हि महाशूरो युद्धाय समुपाश्रयेत् ॥२७॥एवमुक्त्वा प्रियो भार्यां लुब्धकान्वाक्यमब्रवीत्यथा शूरो महाशूराः प्रेषयध्वं हि शूकरम् ॥२८॥अथ ते प्रेषिताः शूरा बलतेजः पराक्रमाःगर्जमानाः प्रधावंति बलतेजः पराक्रमाः ॥२९॥कोलं प्रतिगताः सर्वे वायुवेगेन सांप्रतम्विध्यंति बाणजालैस्ते निशितैर्वनचारकाः ॥३०॥नाना शस्त्रैरथास्त्रैश्च वाराहं वीररूपिणम् ॥३१॥सुकलोवाच-पतंति बाणतोमरा विमुक्ता लुब्धकैः शरा घनागिरिंप्रवर्षिणो यथातथा धरांतरेहतो दृढप्रहारिभिः स निर्जितस्ततस्तथा शतैस्तु यूथपालकः स कोलः संगरंगतः ॥३२॥स्वपुत्रपौत्रबांधवैः परांश्च संहरेत्स वै पतंति ते स्वदंष्ट्रया हताहवेऽवलुब्धकाःपतंति पादहस्तकाः स्थितस्य वेगभ्रामणैः सलुब्धगर्जमेवतं वराहोऽपश्यदागतम् ॥३३॥स्वतेजसा विनाशितं मुखाग्रदंष्ट्रया हतंगतः स यत्र भूपतिः स वांछतेनसंगरम् ॥३४॥इक्ष्वाकुनाथं सुमहत्प्रसह्य संत्रास्य क्रुद्धः स हि शूकरेशःयुद्धं वने वांछति तेन सार्द्धमिक्ष्वाकुणा संगरहर्षयुक्तः ॥३५॥वाराहः पुनरेव युद्धकुशलः संवांछते संगरं तुंडाग्रेण सुतीक्ष्णदंतनखरैः क्रुद्धो धरां क्षोभयन्हुंकारोच्चारगर्वात्प्रहरति विमलं भूपतिं तं च राजञ्ज्ञात्वा विष्णुपराक्रमं मनुसुतस्त्वानन्दरोमांचितः ॥३६॥दृष्ट्वा शूकरपौरुषं यमतुलं मेने पतिर्वावराड्देवारिं मनसा विचिन्त्य सहसा वाराहरूपेण वैसंप्रेक्ष्यैव महाबलं बहुतरं युक्तं त्वरेर्वारणं सैन्यं कोलविनाशनाय सहसा संगृह्य संगृह्यताम् ॥३७॥प्रेषिताश्च वारणा रथाश्च वेगवत्तराः सुबाणखड्गधारिणो भुशुंडिभिश्च मुद्गरैःसपाशपाणिलुब्धका नदंति तत्र तत्परा निवारितो न तिष्ठतो हयागजाश्च यद्गताः ॥३८॥क्वचित्क्वचिन्न दृश्यते क्वचित्क्वचित्प्रदृश्यते क्वचिद्भयं प्रदर्शयेत्क्वचिद्धयान्प्रमर्दयेत् ॥३९॥मर्दयित्वा भटान्वीरान्वाराहो रणदुर्जयःशब्दं चकारदुर्धषं क्रोधारुणविलोचनः ॥४०॥कोशलाधिपतिर्वीरस्तं दृष्ट्वा रणदुर्जयम्युध्यमानं महाकायं मुचंतं मेघवत्स्वनम् ॥४१॥गर्जतिसमरं विचरति विलसति वीरान्स्वतेजसा धीरःतडिदिव मुखेषु दंष्ट्रा तस्य विभात्युल्लसत्येव ॥४२॥मनुपुत्रस्तथा दृष्ट्वा कोलं च निशितैः शरैःप्रतिभिन्नमेकैकं शस्त्राहतं च बंधुभिः ॥४३॥नरपतिरुवाच सैन्याः किमिह न गृह्णंतु ओजसा शूराःयुध्यध्वं तत्र निशितैर्बाणैस्तीक्ष्णैरनेनापि ॥४४॥समाकर्ण्य ततो वाक्यं क्रुद्धस्यापि महात्मनःततस्ते सैनिकाः सर्वे युद्धाय समुपस्थिताः ॥४५॥अनेकैर्भटसाहस्रैर्वने तं समरे स्थितम्दिक्षु सर्वासु संहत्य बिभिदुः शूकरं रणे ॥४६॥विद्धश्च कैश्चित्तदा बाणजालैः सुयोधैश्च संग्रामभूमौ विशालैःक्वचिच्चक्रघातैः क्वचिद्वज्रपातैर्हतं दुर्जयं संगरे तं महांतैः ॥४७॥ततः पौरुषैः क्रोधयुक्तः स कोलः सुविच्छिद्य पाशान्रणे प्रस्थितः सःमहाशूकरैः सार्धमेव प्रयातस्ततः शोणितस्यापि धाराभिषिक्तः ॥४८॥करोति प्रहारं च तुंडेन वीरहयानां द्विपानां च चिच्छेद वीरःस्वदंष्ट्राग्रभागेन तीक्ष्णेन वीरान्पदातीन्हि संपातयेद्रोषभावैः ॥४९॥जघानास्य शुंडं गजस्यापि रुष्टो भटान्हतान्पादनखैस्तु हृष्टः ॥५०॥ततस्ते शूकराः सर्वे लुब्धकाश्च परस्परम्युयुधुः संगरं कृत्वा क्रोधारुणविलोचनाः ॥५१॥लुब्धकैश्च हताः कोलाः कोलैश्चापि सुलुब्धकाःनिहताः पतिता भूमौ क्षतजेनापि सारुणाः ॥५२॥जीवं त्यक्त्वा हताः कोलैर्लुब्धकाः पतिता रणेमृताश्च शूकरास्तत्र श्वानः प्राणांश्च तत्यजुः ॥५३॥यत्रयत्र मृता भूमौ पतिता मृगघातकाःबहवः शूकरा राज्ञा खड्गपातैर्निपातिताः ॥५४॥कति नष्टा हताः कोला भीता दुर्गेषु संस्थिताःकुंजेषु कंदरांतेषु गुहांतेषु नृपोत्तम ॥५५॥लुब्धकाश्च मृताः केचिच्छिन्ना दंष्ट्राग्रसूकरैःप्राणांस्त्यक्त्वा गताः स्वर्गं खंडशो विदलीकृताः ॥५६॥वागुराः पाशजालाश्च कुटकाः पंजरास्तथानाड्यश्च पतिता भूमौ यत्रतत्र समंततः ॥५७॥एको दयितया सार्धं वाराहः परितिष्ठतिपौत्रकैः पंचसप्तभिर्युद्धार्थं बलदर्पितः ॥५८॥तमुवाच तदा कांतं शूकरं शूकरी पुनःगच्छ कांत मयासार्द्धमेभिस्तु बालकैः सह ॥५९॥प्राह प्रीतो वराहस्तां विवस्तां सुप्रियामितिक्व गच्छामि प्रभग्नोहं स्थानं नास्ति महीतले ॥६०॥मयि नष्टे महाभागे कोलयूथं विनंक्ष्यतिद्वयोश्च सिंहयोर्मध्ये जलं पिबति शूकरः ॥६१॥द्वयोः शूकरयोर्मध्ये सिंहो नैव पिबत्यपःएवं शूकरजातीषु दृश्यते बलमुत्तमम् ॥६२॥तदहं नाशयाम्येव यदा भग्नो व्रजाम्यहम्जाने धर्मं महाभागे बहुश्रेयोविधायकम् ॥६३॥कस्माल्लोभाद्भयाद्वापि युध्यमानः प्रणश्यतिरणतीर्थं परित्यज्य सस्यात्पापी न संशयः ॥६४॥निशितं शस्त्रसंव्यूहं दृष्ट्वा हर्षं प्रगच्छतिअवगाह्यामरीं सिंधुं तीर्थपारं प्रगच्छति ॥६५॥स याति वैष्णवं लोकं पुरुषांश्च समुद्धरेत्समायांतं च तदहं कथं भग्नो व्रजामि वै ॥६६॥योधनं शस्त्रसंकीर्णं प्रवीरानन्ददायकम्दृष्ट्वा प्रयाति संहृष्टस्तस्य पुण्यफलं शृणु ॥६७॥पदेपदे महत्स्नानं भागीरथ्याः प्रजायतेरणाद्भग्नो गृहं याति यो लोभाच्च प्रिये शृणु ॥६८॥मातृदोषं प्रकाशेत स्त्रीजातः परिकथ्यतेअत्र यज्ञाश्च तीर्थाश्च अत्र देवा महौजसः ॥६९॥पश्यंति कौतुकं कांते मुनयः सिद्धचारणाःत्रैलोक्यं वर्तते तत्र यत्र वीरप्रकाशनम् ॥७०॥समराद्भग्नं प्रपश्यंति सर्वे त्रैलोक्यवासिनःशपंति निर्घृणं पापं प्रहसन्ति पुनःपुनः ॥७१॥दुर्गतिं दर्शयेत्तस्य धर्मराजो न संशयःसम्मुखः समरे युद्धे स्वशिरः शोणितं पिबेत् ॥७२॥अश्वमेधफलं भुंक्ते इंद्रलोकं प्रगच्छतियदा जयति संग्रामे शत्रूञ्छूरो वरानने ॥७३॥तदा प्रभुंजते लक्ष्मीं नानाभोगान्न संशयःयदा तत्र त्यजेत्प्राणान्सम्मुखः सन्निराश्रयः ॥७४॥स गच्छेत्परमं स्थानं देवकन्यां प्रभुंजतेएवं धर्मं विजानामि कथं भग्नो व्रजाम्यहम् ॥७५॥अनेन समरे युद्धं करिष्ये नात्र संशयःमनोः पुत्रेण धीरेण राज्ञा इक्ष्वाकुणा सह ॥७६॥डिंभान्गृहीत्वा याहि त्वं सुखं जीव वराननेतस्य श्रुत्वा वचः प्राह बद्धाहं तव बंधनैः ॥७७॥स्नेहमानरसाख्यैश्च रतिक्रीडनकैः प्रियपुरतस्ते सुतैः सार्द्धं प्राणांस्त्यक्ष्यामि मानद ॥७८॥एवमेतौ सुसंभाष्य परस्परहितैषिणौयुद्धाय निश्चितौ भूत्वा समालोकयतो रिपून् ॥७९॥कोशलाधिपतिं वीरं तमिक्ष्वाकुं महामतिम् ॥८०॥यथैव मेघः परिगर्जते दिवि प्रावृट्सुकालेषु तडित्प्रकाशैःतथैव संगर्जति कांतया समं समाह्वयेद्राजवरं खुराग्रैः ॥८१॥तं गर्जमानं ददृशे महात्मा वाराहमेकं पुरुषार्थयुक्तम्ससार अश्वस्य जवेनयुक्तः ससम्मुखं तस्य नृवीरधीरः ॥८२॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे-त्रयश्चत्वारिंशत्तमोऽध्यायः ॥४३॥ N/A References : N/A Last Updated : October 26, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP